नारायणीय · अध्याय 1.2
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ॥
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित् काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीमालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥
यत् त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं
भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो! ॥
तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत्! विभो! त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्
यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते! ।
ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास्
तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥
एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्य्ङ्गकं
व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत्
कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्! ॥
निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं
तद् दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत् त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद् विभो!
त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्
चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥
त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं
सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती ।
सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद-
प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0