नारायणीय · अध्याय 1.1
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं
तत्तावद् भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥
एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद् वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥
सत्त्वं यत्तत् पुराभ्यामपरिकलनतो मिर्मलं तेन तावद्
भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत् स्वच्छत्वाद् यदच्छादितपरसुखचिद्जर्भनिर्भासरूपं
तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥
निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे
निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ॥
निर्व्यापारोऽपि निष्कारणमज! भजसे यत् क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।
तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ! वैकुण्ट्ःअ! रूपम् ॥
तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।
लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दोहमन्तः
सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ॥
कष्ता ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं
पूर्वमालोचितमजित! मया नैवमद्याभिजाने ।
नो चेज्जीवाः कथं वा सधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥
नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान्
कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥
कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् ।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं
चात्माराम् एवेत्यतुलगुणगणाधार! शौरे! नमस्ते ॥
एश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।
अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
तद् वातागारवासिन्! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0