नारायणीय · अध्याय 12.321
गृहस्थो ब्रह्मचारी वा वानप्रस्थो ऽथ भिक्षुकः
य इच्छेत् सिद्धिम् आस्थातुं देवतां कां यजेत सः ॥
कुतो ह्य् अस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्
विधिना केन जुहुयाद् दैवं पित्र्यं तथैव च ॥
मुक्तश् च कां गतिं गच्छेन् मोक्षश् चैव किमात्मकः
स्वर्गतश् चैव किं कुर्याद् येन न च्यवते दिवः ॥
देवतानां च को देवः पितॄणां च तथा पिता
तस्मात् परतरं यच् च तन् मे ब्रूहि पितामह ॥
गूढं मां प्रश्नवित् प्रश्नं पृच्छसे त्वम् इहानघ
न ह्य् एष तर्कया शक्यो वक्तुं वर्षशतैर् अपि ॥
ऋते देवप्रसादाद् वा राजञ् ज्ञानागमेन वा
गहनं ह्य् एतद् आख्यानं व्याख्यातव्यं तवारिहन् ॥
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
नारदस्य च संवादम् ऋषेर् नारायणस्य च ॥
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः
धर्मात्मजः संबभूव पितैवं मे ऽभ्यभाषत ॥
कृते युगे महाराज पुरा स्वायंभुवे ऽन्तरे
नरो नारायणश् चैव हरिः कृष्णस् तथैव च ॥
तेभ्यो नारायणनरौ तपस् तेपतुर् अव्ययौ
बदर्य्-आश्रमम् आसाद्य शकटे कनकामये ॥
अष्टचक्रं हि तद् यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥
तपसा तेजसा चैव दुर्निरीक्षौ सुरैर् अपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुम् अर्हति ॥
नूनं तयोर् अनुमते हृदि हृच्छयचोदितः
महामेरोर् गिरेः शृङ्गात् प्रच्युतो गन्धमादनम् ॥
नारदः सुमहद्भूतं लोकान् सर्वान् अचीचरत्
तं देशम् अगमद् राजन् बदर्य्-आश्रमम् आशुगः_1 ॥
तयोर् आह्निकवेलायां तस्य कौतूहलं त्व् अभूत्
इदं तदास्पदं कृत्स्नं यस्मिंल् लोकाः प्रतिष्ठिताः ॥
सदेवासुरगन्धर्वाः सर्1षिकिंनरलेलिहाः
एका मूर्तिर् इयं पूर्वं जाता भूयश् चतुर्विधा ॥
धर्मस्य कुलसंतानो महान् एभिर् विवर्धितः
अहो ह्य् अनुगृहीतो ऽद्य धर्म एभिः सुरैर् इह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥
तत्र कृष्णो हरिश् चैव कस्मिंश्चित् कारणान्तरे
स्थितौ धर्मोत्तरौ ह्य् एतौ तथा तपसि धिष्ठितौ ॥
एतौ हि परमं धाम कानयोर् आह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां नु यजतः पितॄन् वा कान् महामती ॥
इति संचिन्त्य मनसा भक्त्या नारायणस्य ह
सहसा प्रादुर् अभवत् समीपे देवयोस् तदा ॥
कृते दैवे च पित्र्ये च ततस् ताभ्यां निरीक्षितः
पूजितश् चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥
तं दृष्ट्वा महद् आश्चर्यम् अपूर्वं विधिविस्तरम्
उपोपविष्टः सुप्रीतो नारदो भगवान् ऋषिः ॥
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना
नमस् कृत्वा महादेवम् इदं वचनम् अब्रवीत् ॥
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वम् अजः शाश्वतो धाता मतो ऽमृतम् अनुत्तमम्
प्रतिष्ठितं भूतभव्यं त्वयि सर्वम् इदं जगत् ॥
चत्वारो ह्य् आश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वाम् अहरहर् नानामूर्तिसमास्थितम् ॥
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः
कं त्व् अद्य यजसे देवं पितरं कं न विद्महे ॥
अवाच्यम् एतद् वक्तव्यम् आत्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम् ॥
यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम्
इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैश् च वर्जितम् ॥
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते
त्रिगुणव्यतिरिक्तो ऽसौ पुरुषश् चेति कल्पितः
तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तम ॥
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिर् अव्यया
तां योनिम् आवयोर् विद्धि यो ऽसौ सद-सदात्मकः
आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते ॥
नास्ति तस्मात् परो ऽन्यो हि पिता देवो ऽथ वा द्विजः
आत्मा हि नौ स विज्ञेयस् ततस् तं पूजयावहे ॥
तेनैषा प्रथिता ब्रह्मन् मर्यादा लोकभाविनी
दैवं पित्र्यं च कर्तव्यम् इति तस्यानुशासनम् ॥
ब्रह्मा स्थाणुर् मनुर् दक्षो भृगुर् धर्मस् तपो दमः
मरीचिर् अङ्गिराअत्रिश् च पुलस्त्यः पुलहः क्रतुः ॥
वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च
कर्दमश् चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥
एकविंशतिर् उत्पन्नास् ते प्रजापतयः स्मृताः
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् ॥
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥
स्वर्गस्था अपि ये केचित् तं नमस्यन्ति देहिनः
ते तत्प्रसादाद् गच्छन्ति तेनादिष्टफलां गतिम् ॥
ये हीनाः सप्तदशभिर् गुणैः कर्मभिर् एव च
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥
मुक्तानां तु गतिर् ब्रह्मन् क्षेत्रज्ञ इति कल्पितः
स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते ॥
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः
एवं ज्ञात्वा तम् आत्मानं पूजयावः सनातनम् ॥
तं वेदाश् चाश्रमाश् चैव नानातनुसमास्थिताः
भक्त्या संपूजयन्त्य् आद्यं गतिं चैषां ददाति सः ॥
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः
एतद् अभ्यधिकं तेषां यत् ते तं प्रविशन्त्य् उत ॥
इति गुह्यसमुद्देशस् तव नारद कीर्तितः
भक्त्या प्रेम्णा च विप्रर्1षे अस्मद्भक्त्या च ते श्रुतः ॥
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0