नरसिंहपुराण · अध्याय 9
स्वपुरुषम् अभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले
परिहर मधुसूदनप्रपन्नान् प्रभुर् अहम् अन्यनृणां न वैष्णवानाम् ॥
अहम् अमरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः
हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान् नमस् करोमि ॥
सुगतिम् अभिलषामि वासुदेवाद् अहम् अपि भागवते स्थितान्तरात्मा
मधुवधवशगो ऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥
भगवति विमुखस्य नास्ति सिद्धिर् विषम् अमृतं भवतीति नेदम् अस्ति
वर्षशतम् अपीह पच्यमानं व्रजति न काञ्चनताम् अयः कदाचित् ॥
न हि शशिकलुषच्छविः कदाचिद् विरमति नो रविताम् उपैति चन्द्रः
भगवति च हराव् अनन्यचेता भृशमलिनो ऽपि विराजते मनुष्यः ॥
महद् अपि सुविचार्य लोकतत्त्वं भगवदुपास्तिम् ऋते न सिद्धिर् अस्ति
सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः ॥
शुभम् इदम् उपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः
रमयति कुरुते न मोक्षमार्गं दहयति चन्दनम् आशु भस्महेतोः ॥
मुकुलितकरकुड्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः
अविहतगतये सनातनाय जगति जनिं हरते नमो ऽग्रजाय ॥
यमाष्टकम् इदं पुण्यं पठते यः शृणोति वा
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
इतीदम् उक्तं यमवाक्यम् उत्तमं मयाधुना ते हरिभक्तिवर्धनम्
पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस् तु पौत्रेण च या पुरा कृता ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0