भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 10

10.1

जित्वैवम् आत्मनो मृत्युं तपसा शंसितव्रतः
स जगाम पितुर् गेहं मार्कण्डेयो महामतिः ॥

10.2

कृत्वा विवाहं धर्मेण भृगोर् वाक्यविशेषतः
स वेदशिरसं पुत्रम् उत्पाद्य च विधानतः ॥

10.3

इष्ट्वा यज्ञैस् तु देवेशं नारायणम् अनामयम्
श्राद्धेन तु पितृन् इष्ट्वा अन्नदानेन चातिथीन् ॥

10.4

प्रयागम् आसाद्य पुनः स्नात्वा तीर्थे गरीयसि
मार्कण्डेयो महातेजास् तेपे वटतले तपः ॥

10.5

यस्य प्रसादेन पुरा जितवान् मृत्युम् आत्मनः
तं देवं द्रष्टुम् इच्छन् यः स तेपे परमं तपः ॥

10.6

वायुभक्षश् चिरं कालं तपसा शोषयंस् तनुम्
एकदा तु महातेजा मार्कण्डेयो महामतिः ॥

10.7

आराध्य माधवं देवं गन्धपुष्पादिभिः शुभैः
अग्रे व्यग्रमनाः स्थित्वा हृदये तम् अनुस्मरन्
शङ्खचक्रगदापाणिं तुष्टाव गरुडध्वजम् ॥

10.8

नरं नृसिंहं नरनाथम् अच्युतं प्रलम्बबाहुं कमलायतेक्षणम्
क्षितीश्वरैर् अर्चितपादपङ्कजं नमामि विष्णुं पुरुषं पुरातनम् ॥

10.9

जगत्पतिं क्षीरसमुद्रमन्दिरं तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम्
श्रियः पतिं श्रीधरम् ईशम् ईश्वरं नमामि गोविन्दम् अनन्तवर्चसम् ॥

10.10

अजं वरेण्यं जनदुःखनाशनं गुरुं पुराणं पुरुषोत्तमं प्रभुम्
सहस्रसूर्यद्युतिमन्तम् अच्युतं नमामि भक्त्या हरिम् आद्यमाधवम् ॥

10.11

पुरस्कृतं पुण्यवतां परां गतिं क्षितीश्वरं लोकपतिम् प्रजापतिम्
परं पराणाम् अपि कारणं हरिं नमामि लोकत्रयकर्मसाक्षिणम् ॥

10.12

भोगे त्व् अनन्तस्य पयोदधौ सुरः पुरा हि शेते भगवान् अनादिकृत्
क्षीरोदवीचीकणिकाम्बुनोक्षितं तं श्रीनिवासं प्रणतो ऽस्मि केशवम् ॥

10.13

यो नारसिंहं वपुर् आस्थितो महान् सुरो मुरारिर् मधुकैटभान्तकृत्
समस्तलोकार्तिहरं हिरण्यकं नमामि विष्णुं सततं नमामि तम् ॥

10.14

अनन्तम् अव्यक्तम् अतीन्द्रियं विभुं स्वे स्वे हि रूपे स्वयम् एव संस्थितम्
योगेश्वरैर् एव सदा नमस्कृतं नमामि भक्त्या सततं जनार्दनम् ॥

10.15

आनन्दम् एकं विरजं विदात्मकं वृन्दालयं योगिभिर् एव पूजितम्
अणोर् अणीयांसम् अवृद्धिम् अक्षयं नमामि भक्तप्रियम् ईश्वरं हरिम् ॥

10.16

इति स्तोत्रावसाने तं वाग् उवाचाशरीरिणी
मार्कण्डेयं महाभागं तीर्थे ऽनु तपसि स्थितम् ॥

10.17

किमर्थं क्लिश्यते ब्रह्मंस् त्वया यो नैव दृश्यते
माधवः सर्वतीर्थेषु यावन् न स्नानम् आचरेः ॥

10.18

इत्युक्तः सर्वतीर्थेषु स्नात्वोवाच महामतिः
कृत्वा कृत्वा सर्वतीर्थे स्नानं चैव कृतं भवेत्
तद् वद त्वं मम प्रीत्या यो ऽसि सो ऽसि नमो ऽस्तु ते ॥

10.19

स्तोत्रेणानेन विप्रेन्द्र स्तुहि नारायणं प्रभुम्
नान्यथा सर्वतीर्थानां फलं प्राप्स्यसि सुव्रत ॥

10.20

तद् एवाख्याहि भगवन् स्तोत्रं तीर्थफलप्रदम्
येन जप्तेन सकलं तीर्थस्नानफलं लभेत् ॥

10.21

जय जय देवदेव जय माधव केशव
जय पद्मपलाशाक्ष जय गोविन्द गोपते ॥

10.22

जय जय पद्मनाभ जय वैकुण्ठ वामन
जय पद्म हृषीकेश जय दामोदराच्युत ॥

10.23

जय पद्मेश्वरानन्त जय लोकगुरो जय
जय शङ्खगदापाणे जय भूधरसूकर ॥

10.24

जय यज्ञेश वाराह जय भूधर भूमिप
जय योगेश योगज्ञ जय योगप्रवर्त्तक ॥

10.24

जय योगप्रवर्त्तक जय धर्मप्रवर्त्तक
कृतप्रिय जय जय यज्ञेश यज्ञाङ्ग जय ॥

10.26

जय वन्दित सद्द्विज जय नारदसिद्धिद
जय पुण्यवतां गेह जय वैदिकभाजन ॥

10.27

जय जय चतुर्भुज जयदेव जय दैत्यभयावह
जय सर्वज्ञ सर्वात्मन् जय शंकर शाश्वत ॥

10.28

जय विष्णो महादेव जय नित्यम् अधोक्षज
प्रसादं कुरु देवेश दर्शयाद्य स्वकां तनुम् ॥

10.29

इत्य् एवं कीर्तिते तेन मार्कण्डेयेन धीमता
प्रादुर् बभूव भगवान् पीतवासा जनार्दनः ॥

10.30

शङ्खचक्रगदापाणिः सर्वाभरणभूषितः
तेजसा द्योतयन् सर्वा दिशो विष्णुः सनातनः ॥

10.31

तं दृष्ट्वा सहसा भूमौ चिरप्रार्थितदर्शनम्
प्रयातः शिरसा वश्यो भक्त्या स भृगुनन्दनः ॥

10.32

निपत्योत्पत्य च पुनः पुनः साङ्गं महामनाः
प्रबद्धसंपुटकरो गोविन्दं पुरतः स्तुवन् ॥

10.41

इत्य् उदीरितम् आकर्ण्य भगवांस् तु जनार्दनः
देवदेवः प्रसन्नात्मा मार्कण्डेयम् उवाच ह ॥

10.42

तुष्टो ऽस्मि भवतो वत्स तपसा महता पुनः
स्तोत्रैर् अपि महाबुद्धे नष्टपापो ऽसि सांप्रतम् ॥

10.43

वरं वरय विप्रेन्द्र वरदो ऽहं तवाग्रतः
नातप्ततपसा ब्रह्मन् द्रष्टुं साध्यो ऽहम् अञ्जसा ॥

10.44

कृतकृत्यो ऽस्मि देवेश सांप्रतं तव दर्शनात्
त्वद्भक्तिम् अचलाम् एकां मम देहि जगत्पते ॥

10.45

यदि प्रसन्नो भगवन् मम माधव श्रीपते
चिरायुष्यं हृषीकेश येन त्वां चिरम् अर्चये ॥

10.46

मृत्युस् ते निर्जितः पूर्वे चिरायुस् त्वं च लब्धवान्
भक्तिर् अस्त्व् अचला ते मे वैष्णवी मुक्तिदायिनी ॥

10.47

इदं तीर्थं महाभाग त्वन्नाम्ना ख्यातिम् एष्यति
पुनस् त्वं द्रक्ष्यसे मां वै क्षीराब्धौ योगशायिनम् ॥

10.48

इत्य् उक्त्वा पुण्डरीकाक्षस् तत्रैवान्तर् अधीयत
मार्कण्डेयो ऽपि धर्मात्मा चिन्तयन् मधुसूदनम् ॥

10.49

अर्चयन् देवदेवेशं जपन् शुद्धं नमन्न् अपि
वेदशास्त्राणि पुण्यानि पुराणान्य् अखिलानि च ॥

10.50

मुनीनां भावयाम् आस गाथाश् चैव तपोधनः
इतिहासानि पुण्यानि पितृतत्त्वं च सत्तमः ॥

10.51

ततः कदाचित् पुरुषोत्तमोक्तं वचः स्मरन् शास्त्रविदां वरिष्ठः
भ्रमन् समुद्रं स जगाम द्रष्टुं हरिं सुरेशं मुनिर् उग्रतेजाः ॥

10.52

श्रमेण युक्तश् चिरकालसंभ्रमाद् भृगोः स पौत्रो हरिभक्तिम् उद्वहन्
क्षीराब्धिम् आसाद्य हरिं सुरेशं नागेन्द्रभोगे कृतनिद्रम् ऐक्षत ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc