नरसिंहपुराण · अध्याय 56
सांप्रतं देवदेवस्य नरसिंह् अस्य शार्ङ्गिणः
श्रोतुम् इच्छामि सकलं प्रतिष्ठायाः परं विधिम् ॥
प्रतिष्ठाया विधिं विष्णोर् देवदेवस्य चक्रिणः
प्रवक्ष्यामि यथाशास्त्रं शृणु भूपाल पुण्यदम् ॥
कर्तुं प्रतिष्ठां यश् चात्र विष्णोर् इच्छति पार्थिव
स पूर्वं स्थिरनक्षत्रे भूमिशोधनम् आरभेत् ॥
खात्वा पुरुषमात्रं तु बाहुद्वयम् अथापि वा
पूरयेच् छुद्धमृद्भिस् तु जलाक्तैः शर्करान्वितैः ॥
अधिष्ठानं ततो बुद्ध्वा पाषाणोष्टकमृण्मयम्
प्रासादं कारयेत् तत्र वास्तुविद्याविदा नृप ॥
चतुरस्रं सूत्रमार्गे चतुःकोणं समन्ततः
शिलाभित्तिकम् उत्कृष्टं तदलाभेष्टिकामयम् ॥
तदलाभे तु मृत्कुड्यं पूर्वद्वारं सुशोभनम्
जातिकाष्ठमयैः स्तम्भैस् तल्लग्नैः फलदान्वितैः ॥
उत्पलैः पद्मपत्रैश् च पातितैश् चित्रशिल्पिभिः
इत्थं तु कारयित्वा हि हरेर् वेश्म सुशोभनम् ॥
पूर्वद्वारं नृपश्रेष्ठ सुकपाटं सुचित्रितम्
अतिवृद्धातिबालैस् तु कारयेन् नाकृतिं हरेः ॥
कुष्ठाद्युपहतैर् वापि अन्यैर् वा दीर्घरोगिभिः
विश्वकर्मोक्तमार्गेण पुराणोक्तां नृपोत्तम ॥
कारयेत् प्रतिमां दिव्यां पुष्टाङ्गेन तु धीमता
सौम्याननां सुश्रवनां सुनासां च सुलोचनाम् ॥
नाधोदृष्टिं नोर्ध्वदृष्टिं तिर्यग्दृष्टिं न कारयेत्
कारयेत् समदृष्टिं तु पद्मपत्रायतेक्षणाम् ॥
सुभ्रुवं सुललातां च सुकपोलां समां शुभाम्
बिम्बौष्ठीं सुष्ठुचिबुकां सुग्रीवां कारयेद् बुधः ॥
उपबाहुकरे देयं दक्षिणे चक्रम् अर्कवत्
नाभिसंलग्नदिव्यारं परितो नेमिसंयुतम् ॥
वामपार्श्वे इत्य् उपभुजे देयं शङ्खं शशिप्रभम्
पाञ्चजन्यम् इति ख्यातं दैत्यदर्पहरं शुभम् ॥
हारार्पितवरां दिव्यां कण्ठे त्रिवलिसंयुताम्
सुस्तनीं चारुहृदयां सुजठरां समां शुभाम् ॥
कटिलग्नवामकरां पद्मलग्नां च दक्षिणाम्
केयूरबाहुकां दिव्यां सुनाभिवलिभङ्गिकाम् ॥
सुकटीं च सुजङ्घोरूं वस्त्रमेखलभूषिताम्
एवं तां कारयित्वा तु प्रतिमां राजसत्तम ॥
सुवर्णवस्त्रदानेन तत्कर्तॄन् पूज्य सत्तम
पूर्वपक्षे शुभे काले प्रतिमां स्थापयेद् बुधः ॥
प्रासादस्याग्रतः कृत्वा यागमण्डपम् उत्तमम्
चतुर्द्वारं चतुर्दिक्षु चतुर्भिस् तोरणैर् युतम् ॥
सप्तधान्याङ्कुरैर् युक्तं शङ्खभेरीनिनादितम्
प्रतिमां क्षाल्य विद्वद्भिः षत्त्रिंशद्भिर् घटोदकैः ॥
प्रविश्य मण्डपे तस्मिन् ब्राह्मणैर् वेदपारगैः
तत्रापि स्नापयेत् पश्चात् पञ्चगव्यैः पृथक् पृथक् ॥
तथोष्णवारिणा स्नाप्य पुनः शीतोदकेन च
हरिद्राकुङ्कुमाद्यैस् तु चन्दनैश् चोपलेपयेत् ॥
पुष्पमाल्यैर् अलंकृत्य वस्त्रैर् आच्छाद्य तां पुनः
पुण्याहं तत्र कृत्वा तु ऋग्भिस् ता प्रोक्ष्य वारिभिः ॥
स्नात्वा तां ब्राह्मणैर् भक्तैः शङ्खभेरीस्वनैर् युक्तम्
वासयेत् सप्तरात्रं तु त्रिरात्रं वा नदीजले ॥
हृदे तु विमले शुद्धे तडागे वापि रक्षयेत्
अधिवास्य जले देवम् एवं पार्थिवपुंगव ॥
तत उत्थाप्य विप्रैस् तु स्थाप्यालंकृत्य पूर्ववत्
ततो भेरीनिनादैस् तु वेदघोषैश् च केशवम् ॥
आनीय मण्डपे शुद्धे पद्माकारविनिर्मिते
कृत्वा पुनस् ततः स्नाप्य विष्णुभक्तैर् अलंक्रियात् ॥
ब्राह्मणान् भोजयित्वा तु विधिवत् षोडशर्त्विजः
चतुर्भिर् अध्ययनं कार्यं चतुर्भिर् पालनं तथा ॥
चतुर्भिस् तु चतुर्दिक्षु होमः कार्यो विचक्षणैः
पूष्पाक्षतान्नमिश्रेण दद्याद् दिक्षु बलीन् नृप ॥
एकेन दापयेत् तेषाम् इन्द्राद्यः प्रीयन्ताम् इति
प्रत्येकं सायं संध्यायां मध्यरात्रे तथोषसि ॥
उदिते च ततो दद्यान् मातृविप्रगणाय वा
जपन् पुरुषसूक्तं तु एकतस् तु पुनः पुनः ॥
एकतो मनसा राजन् विष्णोर् मन्दिरमध्यगः
अहोरात्रोषितो भूत्वा यजमानो द्विजैः सह ॥
प्रविश्य प्रतिमाद्वारं शुभलग्ने विचक्षणः
देवसूक्तं द्विजैः सार्धम् उपस्थाप्य च तां दृढम् ॥
संस्थाप्य विष्णुसूक्तेन पवमानेन वा पुनः
प्रोक्षयेद् देवदेवेशम् आचार्यः कुशवारिणा ॥
तदग्रे चाग्निम् आधाय संपरिस्तीर्य यत्नतः
जुहुयाज् जातकर्मादि गायत्र्या वैष्णवेन तु ॥
चतुर्भिर् आज्याहुतिभिर् एकाम् एकां क्रियां प्रति
आचार्यस् तु स्वयं कुर्याद् अस्त्रैर् बन्धं च कारयेत् ॥
त्रातारम् इति चैन्द्र्यां तु कुर्याद् आज्यप्रणुन्नकम्
परोदिवेति याम्यायां वारुण्यां निषवेति च ॥
या ते रुद्रेति साउम्यां तु हुवेद् आज्याहुतीर् नृप
परोमात्रेति सूक्ताभ्यां सर्वत्राज्याहुतीर् नृप ॥
हुत्वा जपेच् च विधिवद् यद् अस्येति च स्विष्टकृत्
ततः स दक्षिणां दद्याद् ऋत्विग्भ्यश् च यथार्हतः ॥
वस्त्रे द्वे कुण्डले चैव गुरवे चाङ्गुलीयकम्
यजमानस् ततो दद्याद् विभवे सति काञ्चनम् ॥
कलशाष्टसहस्रेण कलशाष्टशतेन वा
एकविंशतिना वापि स्नपनं कारयेद् बुधः ॥
शङ्खदुन्दुभिनिर्घोषैर् वेदघोषैश् च मङ्गलैः
यवव्रीहियुतैः पात्रैर् उद्धृतैर् उच्छ्रिताङ्कुरैः ॥
दीपयष्टिपताकाभिश् छत्रचामरतोरणैः
स्नपनं कारयित्वा तु यथाविभवविस्तरम् ॥
तत्रापि दद्याद् विप्रेभ्यो यथाशक्त्या तु दक्षिणाम्
एवं यः कुरुते राजन् प्रतिष्ठां देवचक्रिणः ॥
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः
विमानेन विचित्रेण त्रिस्सप्तकुलजैर् वृतः ॥
पूजां संप्राप्य महतीम् इन्द्रलोकादिषु क्रमात्
बान्धवांस् तेषु संस्थाप्य विष्णुलोके महीयते ॥
तत्रैव ज्ञानम् आसाद्य वैष्णवं पदम् आप्नुयात्
प्रतिष्ठाविधिर् अयं विष्णोर् मयैवं ते प्रकीर्तितः ॥
पठतां शृण्वतां चैव सर्वपापप्रणाशनः ॥
यदा नृसिंहं नरनाथ भूमौ संस्थाप्य विष्णुं विधिना ह्य् अनेन
तदा ह्य् असौ याति हरेः पदं तु यत्र स्थितो ऽयं न निवर्तते पुनः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0