नरसिंहपुराण · अध्याय 55
मार्कण्डेय कथं शुक्रः पुरा बलिमखे गुरुः
वामनेन स विद्धाक्षः स्तुत्वा तल्लब्धवान् कथम् ॥
वामनेन स विद्धाक्षो बहुतीर्थेषु भार्गवः
जाह्नवीसलिले स्थित्वा देवम् अभ्यर्च्य वामनम् ॥
ऊर्ध्वबाहुः स देवेशं शङ्खचक्रगदाधरम्
हृदि संचिन्त्य तुष्टाव नरसिंहं सनातनम् ॥
नमामि देवं विश्वेशं वामनं विष्णुरूपिणम्
बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥
धीरं शूरं महादेवं शङ्खचक्रगदाधरम्
विशुद्धं ज्ञानसंपन्नं नमामि हरिम् अच्युतम् ॥
सर्वशक्तिमयं देवं सर्वगं सर्वभावनम्
अनादिम् अजरं नित्यं नमामि गरुडध्वजम् ॥
सुरासुरैर् भक्तिमद्भिः स्तुतो नारायणः सदा
पूजितं च हृषिकेशं तं नमामि जगद्गुरुम् ॥
हृदि संकल्प्य यद्रूपं ध्यायन्ति यतयः सदा
ज्योतीरूपम् अनौपम्यं नरसिंहं नमाम्य् अहम् ॥
न जानन्ति परं रूपं ब्रह्माद्या देवतागणाः
यस्यावताररूपाणि समर्चन्ति नमामि तम् ॥
एतत् समस्तं येनादौ सृष्टं दुष्टवधात् पुनः
त्रातं यत्र जगल् लीनं तं नमामि जनार्दनम् ॥
भक्तैर् अभ्यर्चितो यस् तु नित्यं भक्तप्रियो हि यः
तं देवम् अमलं दिव्यं प्रणमामि जगत्पतिम् ॥
दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः
तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥
इति स्तुतो जगन्नाथः पुरा शुक्रेण पार्थिव
प्रादुर् बभूव तस्याग्रे शङ्खचक्रगदाधरः ॥
उवाच शुक्रम् एकाक्षं देवो नारायणस् तदा
किमर्थं जाह्नवीतीरे स्तुतो ऽहं तद् ब्रवीहि मे ॥
देवदेव मया पूर्वम् अपराधो महान् कृतः
तद्दोषस्यापनुत्त्यर्थं स्तुतवान् अस्मि सांप्रतम् ॥
ममापराधान् नयनं नष्टम् एकं तवाधुना
संतुष्टो ऽस्मि ततः शुक्र स्तोत्रेणानेन ते मुने ॥
इत्य् उक्त्वा देवदेवेशस् तं मुनिं प्रहसन्न् इव
पाञ्चजन्येन तच्चक्षुः पस्पर्श च जनार्दनः ॥
स्पृष्टमात्रे तु शङ्खेन देवदेवेन शार्ङ्गिणा
बभूव निर्मलं चक्षुः पूर्ववन् नृपसत्तम ॥
एवं दत्त्वा मुनेश् चक्षुः पूजितस् तेन माधवः
जगामादर्शनं सद्यः शुक्रो ऽपि स्वाश्रमं ययौ ॥
इत्य् एतद् उक्तं मुनिना महात्मना प्राप्तं पुरा देववरप्रसादात्
शुक्रेण किं ते कथयामि राजन् पुनश् च मां पृच्छ मनोरथान्तः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0