भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 54

54.1

अतःपरं प्रवक्ष्यामि शृणु राजन् समाहितः
प्रादुर्भावं हरेः पुण्यं कल्क्याख्यं पापनाशनम् ॥

54.2

कलिकालेन राजेन्द्र नष्टे धर्मे महीतले
वृद्धिं गते तथा पापे व्याधिसंपीडिते जने ॥

54.3

देवैः संप्रार्थितो विष्णुः क्षीराब्धौ स्तुतिपूर्वकम्
साम्भलाख्ये महाग्रामे नानाजनसमाकुले ॥

54.4

नाम्ना विष्णुयशःपुत्रः कल्की राजा भविष्यति
अश्वम् आरुह्य खड्गेन म्लेच्च्छान् उत्सादयिष्यति ॥

54.5

म्लेच्छान् समस्तान् क्षितिनाशभूतान् हत्वा स कल्की पुरुषोत्तमांशः
कृत्वा च यागं बहुकाञ्चनाख्यं संस्थाप्य धर्मं दिवम् आरुरोह ॥

54.6

दशावताराः कथितास् तवैव हरेर् मया पार्थिव पापहन्तुः
इमं सदा यस् तु नृसिंहभक्तः शृणोति नित्यं स तु याति विष्णुम् ॥

54.7

तव प्रसादाद् विप्रेन्द्र प्रादुर्भावाः श्रुता मया
नारायणस्य देवस्य शृण्वतां कल्मषापहाः ॥

54.8

कलिं विस्तरतो ब्रूहि त्वं हि सर्वविदां वर
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तम ॥

54.9ab

किमाहाराः किमाचारा भविष्यन्ति कलौ युगे ॥

54.9cd

शृणुध्वम् ऋषयः सर्वे भरद्वाजेन संयुताः ॥

54.10

सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वम् आगते
तस्मात् कलिर् महाघोरः सर्वपापस्य साधकः ॥

54.11

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः
घोरे कलियुगे प्राप्ते द्विजदेवपराङ्मुखाः ॥

54.12

व्याजधर्मरताः सर्वे दम्भाचारपरायणाः
असूयानिरताश् चैव वृथाहंकारदूषिताः ॥

54.13

सर्वैः संक्षिप्यते सत्यं नरैः पण्डितगर्वितैः
अहम् एवाधिक इति सर्व एव वदन्ति वै ॥

54.14

अधर्मलोलुपाः सर्वे तथान्येषां च निन्दकाः
अतः स्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे ॥

54.15

अल्पायुष्ट्वान् मनुष्याणां न विद्याग्रहणं द्विजाः
विद्याग्रहणशून्यत्वाद् अधर्मो वर्तते पुनः ॥

54.16

ब्राह्मणाद्यास् तथा वर्णाः संकीर्यन्ते परस्परम्
कामक्रोधपरा मूढा वृथा संतापपीडिताः ॥

54.17

बद्धवैरा भविष्यन्ति परस्परवधेप्सवः
ब्राह्मणाः क्षत्रिया वैश्याः सर्वे धर्मपराङ्मुखाः ॥

54.18

शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः
उत्तमा नीचतां यान्ति नीचाश् चोत्तमतां तथा ॥

54.19

राजानो द्रव्यनिरतास् तथा लोभपरायणाः
धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ॥

54.20

घोरे कलियुगे प्राप्ते सर्वाधर्मसमन्विते
यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति ॥

54.21

पितॄन् पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश् च कर्मसु
पतीन् पुत्रान् वञ्चयित्वा गमिष्यन्ति स्त्रियो ऽन्यतः ॥

54.22

पुरुषाल्पं बहुस्त्रीकं श्वबाहुल्यं गवां क्षयः धनानि श्लघनीयानि सतां वृत्तम् अपूजितम्
खण्डवर्षी च पर्जन्यः पन्थानस् तस्करावृताः सर्वः सर्वं च जानाति वृद्धान् अनुपसेव्य च ॥

54.23

न कश्चिद् अकविर् नाम सुरापा ब्रह्मवादिनः
किंकराश् च भविष्यन्ति शूद्राणां च द्विजातयः ॥

54.24

द्विषन्ति पितरं पुत्राः गुरुं शिष्या द्विषन्ति च
पतिं च वनिता द्वेष्टि कलौ घोरे समागते ॥

54.25

लोभाभिभूतमनसः सर्वे दुष्कर्मशीलिनः
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः ॥

54.26

परस्त्रीनिरताः सर्वे परद्रव्यपरायणाः
घोरे कलियुगे प्राप्ते नरं धर्मपरायणम् ॥

54.27

असूयानिरताः सर्वे उपहासं प्रकुर्वते
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः ॥

54.28

न यक्ष्यन्ति न होष्यन्ति हेतुवादैर् विकुत्सिताः
द्विजाः कुर्वन्ति दम्भार्थं पितृयज्ञादिकाः क्रियाः ॥

54.29

न पात्रेष्व् एव दानानि कुर्वन्ति न नरास् तथा
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ॥

54.30

बध्नन्ति च द्विजान् एव धनार्थं राजकिंकराः
दानयज्ञजपादीनां विक्रीणन्ते फलं द्विजाः ॥

54.31

प्रतिग्रहं प्रकुर्वन्ति चण्डालादेर् अपि द्विजाः
कलेः प्रथमपादे ऽपि विनिन्दन्ति हरिं नराः ॥

54.32

युगान्ते च हरेर् नाम नैव कश्चित् स्मरिष्यति
शूद्रस्त्रीसङ्गनिरता विधवासङ्गलोलुपाः ॥

54.33

शूद्रान्नभोगनिरता भविष्यन्ति कलौ द्विजाः
न च द्विजातिशूस्रूषां न स्वधर्मप्रवर्तनम् ॥

54.34

करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनो ऽधमाः
सुखाय परिवीताश् च जटिला भस्मधूर्धराः ॥

54.35

शूद्रा धर्मान् प्रवक्ष्यन्ति कूटबुद्धिविशारदाः
एते चान्ये च बहवः पाषण्डा विप्रसत्तमाः ॥

54.36

ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति कलौ युगे
गीतवाद्यरता विप्रा वेदवादपराङ्मुखाः ॥

54.37

भविष्यन्ति कलौ प्राप्ते शूद्रमार्गप्रवर्तिनः
अल्पद्रव्या वृथालिङ्गा वृथाहंकारदूषिताः ॥

54.38

हर्तारो न च दातारो भविष्यन्ति कलौ युगे
प्रतिग्रहपरा नित्यं द्विजाः सन्मार्गशीलिनः ॥

54.39

आत्मस्तुतिपराः सर्वे परनिन्दापरास् तथा
विश्वासहीनाः पुरुषा देववेदद्विजातिषु ॥

54.40

असंश्रुतोक्तिवक्तारो द्विजद्वेषरतास् तथा
स्वधर्मत्यागिनः सर्वे कृतघ्ना भिन्नवृत्तयः ॥

54.41

याचकाः पिशुनाश् चैव भविष्यन्ति कलौ युगे
परापवादनिरता आत्मस्तुतिपरायणाः ॥

54.42

परस्वहरणोपाय चिन्तकाः सर्वदा जनाः
अत्याह्लादपरास् तत्र भुञ्जानाः परवेश्मनि ॥

54.43

तस्मिन्न् एव दिने प्रायो देवतार्चनतत्पराः
तत्रैव निन्दानिरता भुक्त्वा चैकत्र संस्थिताः ॥

54.44

द्विजाश् च क्षत्रिया वैश्याः शूद्राश् चान्ये च जातयः
अत्यन्तकामिनश् चैव संकीर्यन्ते परस्परम् ॥

54.45

न शिष्यो न गुरुः कश्चिन् न पुत्रो न पिता तथा
न भार्या न पतिश् चैव भविता तत्र संकरे ॥

54.46

शूद्रवृत्त्यैव जीवन्ति द्विजा नरकभोगिनः
अनावृष्टिभयप्राया गगनासक्तदृष्टयः ॥

54.47

भविष्यन्ति जनाः सर्वे तदा क्षुद्भयकातराः
अन्नोपाधिनिमित्तेन शिष्यान् गृह्णन्ति भिक्षवः ॥

54.48

उभाभ्याम् अपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः
कुर्वन्त्यो गुरुभर्तृणाम् आज्ञा भेत्स्यन्ति ता हिताः ॥

54.49

यदा यदा न यक्ष्यन्ति न होष्यन्ति द्विजातयः
तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः ॥

54.50ab

सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत् ॥

54.50cd

एवं कलेः स्वरूपं तत् कथितं विप्रसत्तमाः ॥

54.51

हरिभक्तिपरान् एवं न कलिर् बाधते द्विजाः
तपः परं कृतयुगे त्रेतायां ध्यानम् एव हि ॥

54.52

द्वापरे यज्ञम् एवाहुर् दानम् एकं कलौ युगे
यतते दशभिर् वर्षैस् त्रेतायां हायनेन तत् ॥

54.53

द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन् ॥

54.54

यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम्
समस्तजगदाधारं परमार्थस्वरूपिणम् ॥

54.55

घोरे कलियुगे प्राप्ते विष्णुं ध्यायन् न सीदति
अहो ऽतीव महाभाग्याः सकृद् ये केशवार्चकाः ॥

54.56

घोरे कलियुगे प्राप्ते सर्वकर्मबहिष्कृते
न्यूनातिरिक्तता न स्यात् कलौ वेदोक्तकर्मणाम् ॥

54.57

हरिस्मरणम् एवात्र संपूर्णफलदायकम्
हरे केशव गोविन्द वासुदेव जगन्मय ॥

54.58

जनार्दन जगद्धाम पीताम्बरधराच्युत
इतीरयन्ति ये नित्यं न हि तान् बाधते कलिः ॥

54.59

अहो हरिपरा ये तु कलौ सर्वभयंकरे
ते सभाग्या महात्मानस् तत्संगतिरता अपि ॥

54.60

हरिनामपरा ये च हरिकीर्तनतत्पराः
हरिपूजारता ये च ते कृतार्था न संशयः ॥

54.61

इत्य् एतद् वः समाख्यातं सर्वदुःखनिवारणम्
समस्तपुण्यफलदं कलौ विष्णोः प्रकीर्तनम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc