भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 39

39.1

अतःपरं हरेः पुण्यं प्रादुर्भावं नराधिप
वाराहं ते प्रवक्ष्यामि समाहितमनाः शृणु ॥

39.2

आबन्तप्रलये प्राप्ते ब्रह्मणस् तु दिनक्षये
त्रैलोक्यम् अखिलं व्याप्य तिष्ठन्त्य् अम्भांसि सत्तम ॥

39.3

त्रैलोक्ये ऽखिलसत्त्वानि यानि राजेन्द्र तानि वै
ग्रस्त्वा विष्णुस् ततः शेते तस्मिन्न् एकार्णवे जले ॥

39.4

अनन्तभोगशयने सहस्रफणशोभिते
रात्रिं युगसहस्रान्तां ब्रह्मरूपी जगत्पतिः ॥

39.5

दितेः पुत्रो महान् आसीत् कश्यपाद् इति नः श्रुतम्
हिरण्याक्ष इति ख्यातो महाबलपराक्रमः ॥

39.6

पाताले निवसन् दैत्यो देवान् उपरुरोध सः
यज्विनाम् अपाकाराय यतते स तु भूतले ॥

39.7

अथ भूम्युपरि स्थित्वा मर्त्या यक्ष्यन्ति देवताः
तेन तेषां बलं वीर्यं तेजश् चापि भविष्यति ॥

39.8

इति मत्वा हिरण्याक्षः कृतसर्गं तु ब्रह्मणा
भूमेर् या धारणाशक्तिस् तां नीत्वा स महासुरः ॥

39.9

विवेश तोयमध्ये तु रसातलतलं नृप
विना शक्त्या च जगती प्रविवेश रसातलम् ॥

39.10

निद्रावसाने सर्वात्मा क्व स्थिता मेदिनीति वै
संचिन्त्य ज्ञात्वा योगेन रसातलतलं गताम् ॥

39.11

अथ वेदमयं रूपं वाराहं वपुर् आस्थितम्
वेदपादं यूपदंष्ट्रं केतुवक्त्रं नराधिप ॥

39.12

व्यूढोरस्कं महाबाहु पृथुवक्त्रं नराधिप
अग्निजिह्वं स्रुचं तुण्डं चन्द्रार्कनयनं महत् ॥

39.13

पूर्तेष्टधर्मश्रवणं दिव्यं तत् सामनिःस्वनम्
प्राग्वंशकायं हविर्नासं कुशदर्भतनूरुहम् ॥

39.14

सर्ववेदमयं तच् च पुण्यसूक्तमहासटम्
नक्षत्रताराहारं च प्रलयावर्तभूषणम् ॥

39.15

इत्थं कृत्वा तु वाराहं प्रविवेश वृषाकपिः
रसातलं नृपश्रेष्ठ सनकाद्यैर् अभिष्टुतः ॥

39.16

प्रविश्य च हिरण्याक्षं युद्धे जित्वा वृषाकपिः
दंष्ट्राग्रेण ततः पृथ्वीम् समुद्धृत्य रसातलात् ॥

39.17

स्तूयमानो ऽमरगणैः स्थापयाम्_अस पूर्ववत्
संस्थाप्य पर्वतान् सर्वान् यथास्थानम् अकल्पयत् ॥

39.18

विहाय रूपं वाराहं तीर्थे कोकेति विश्रुते
वैष्णवानां हितार्थाय क्षेत्रं तद् गुप्तम् उत्तमम् ॥

39.19

ब्रह्मरूपं समास्थाय पुनः सृष्टिं चकार सः
विष्णुः पाति जगत् सर्वम् एवंभूतो युगे युगे
हन्ति चान्ते जगत् सर्वं रुद्ररूपी जनार्दनः ॥

39.20

वेदान्तवेद्यः पुरुषो वृषाकपेः कथाम् इमां यश् च शृणोति मानवः
दृढां मतिं यज्ञतनौ विवेश्य वै विहाय पापं च नरो हरिं व्रजेत् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc