भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 38

38.1

पुरा देवासुरे युद्धे देवा दैत्यैः पराजिताः
सर्वे ते शरणं जग्मुः क्षीराब्धितनयापतिम् ॥

38.2

स्तोत्रेण तुष्टुवुः सर्वे समाराध्य जगत्पतिम्
कृताञ्जलिपुटा राजन् ब्रह्माद्या देवतागणाः ॥

38.3

नमस् ते देवदेवाय लोकनाथाय शार्ङ्गिणे
नमस् ते पद्मनाभाय लोकनाथाय शार्ङ्गिणे ॥

38.4

नमस् ते पद्मनाभाय सर्वदुःखापहारिणे
नमस् ते विश्वरूपाय सर्वदेवमयाय च ॥

38.5

मधुकैटभनाशाय केशवाय नमो नमः ॥

38.6

दैत्यैः पराजिता देव वयं युद्धे बलान्वितैः
जयोपायं हि नो ब्रूहि करुणाकर ते नमः ॥

38.7

इति स्तुतो तदा दैवैर् देवदेवो जनार्दनः
तान् अब्रवीद् धरिर् देवान् तेषाम् एवाग्रतः स्थितः ॥

38.8

गत्वा तत्र सुराः सर्वे संधिं कुरुत दानवैः
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥

38.9

सर्वौषधीः समानीय प्रक्षिप्याब्धौ त्वरान्विताः
दानवैः सहिता भूत्वा मन्थध्वं क्षीरसागरम् ॥

38.10

अहं च तत्र साहाय्यं करिष्यामि दिवौकसः
भविष्यत्य् अमृतं तत्र तत्पानाद् बलवत्तराः ॥

38.11

भविष्यन्ति क्षणाद् देवा अमृतस्य प्रभावतः
यूयं सर्वे महाभागास् तेजिष्ठा रणविक्रमाः ॥

38.12

इन्द्राद्यास् तु महोत्साहास् तल् लब्ध्वामृतम् उत्तमम्
ततो हि दानवाञ् जेतुं समर्था नात्र संशयः ॥

38.13

इत्युक्ता देवदेवेन देवाः सर्वे जगत्पतिम्
प्रणम्यागत्य निलयं संधिं कृत्वाथ दानवैः ॥

38.14

क्षीराब्धेर् मन्थने सर्वे चक्रुर् उद्योगम् उत्तमम्
बलिना चोद्धृतो राजन् मन्दराख्यो महागिरिः ॥

38.15

क्षीराब्धौ क्षेपितश् चैव तेनैकेन नृपोत्तम
सर्वौषधींश् च प्रक्षिप्य देवदैत्यैः पयोनिधौ ॥

38.16

वासुकिश् चागतस् तत्र राजन् नारायणाज्ञया
सर्वे देवहितार्थाय विष्णुश् च स्वयम् आगतः ॥

38.17

तत्र विष्णुं समासाद्य ततः सर्वे सुरासुराः
सर्वे ते मैत्रभावेन क्षीराब्धेस् तटम् आश्रिताः ॥

38.18

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाथ वासुकिम्
ततो मथितुम् आरब्धं नृपते तरसामृतम् ॥

38.19

विष्णुना मुखभागे तु योजिता दानवास् तदा
देवताः पुच्छभागे तु मथनाय नियोजिताः ॥

38.20

एवं च मथनात् तत्र मन्दरो ऽधः प्रविश्य च
आधारेण विना राजन् तं दृष्ट्वा सहसा हरिः ॥

38.21

सर्वलोकहितार्थाय कूर्मरूपम् आधारयत्
आत्मानं संप्रविश्याथ मन्दरस्य गिरेर् अधः ॥

38.22

प्रविश्य धृतवान् शैलं मन्दरं मधुसूदनः
उपर्य् आक्रान्तवान् शैलं पृथग्रूपेण केशवः ॥

38.23

चकर्ष नागराजं च देवैः सार्धं जनार्दनः
सुरैर् अदृश्यरूपेण दैत्यमध्ये जनार्दनः
ततस् ते त्वरया युक्ता ममन्थुः क्षीरसागरम् ॥

38.24

यावच्छक्त्या नृपश्रेष्ठ बलवन्तः सुरासुराः
मथ्यमानात् ततस् तस्मात् क्षीराब्धेर् अभवन् नृप ॥

38.25

कालकूटम् इति ख्यातं विषम् अत्यन्तदुःसहम्
तं नागा जगृहुः सर्वे तच्छेषं शंकरो ऽग्रहीत् ॥

38.26

नारायणाज्ञया तेन नीलकण्ठत्वम् आप्तवान्
ऐरावतश् च नागेन्द्रो हरिश् चोच्चैःश्रवाः पुनः ॥

38.27

द्वितीयावर्तनाद् राजन्न् उत्पन्नाव् इति नः श्रुतम्
तृतीयावर्तनाद् राजन्न् अप्सराश् च सुशोभना
चतुर्थात् परिजातश् च उत्पन्नः स महाद्रुमः ॥

38.28

पञ्चमाद् धि हिमांशुस् तु प्रोत्थितः क्षीरसागरात्
तं भवः शिरसा धत्ते नारीवत् स्वस्तिकं नृप ॥

38.29

नानाविधानि दिव्यानि रत्नान्य् आभरणानि च
क्षीरोदधेर् उत्थिताश् च गन्धर्वाश् च सहस्रशः ॥

38.30

एतान् दृष्ट्वा तथोत्पन्नान् अत्याश्चर्यसमन्वितान्
अभवन् जातहर्षास् ते तत्र सर्वे सुरासुराः ॥

38.31

देवपक्षे ततो मेघाः स्वल्पं वर्षन्ति संस्थिताः
कृष्णाज्ञया च वायुश् च सुखं वाति सुरान् प्रति ॥

38.32

विषनिःश्वासवातेन वासुकेश् चापरे हताः
निस्तेजसो ऽभवन् दैत्या निर्वीर्याश् च महामते ॥

38.33

ततः श्रीर् उत्थिता तस्मात् क्षीरोदाद् धृतपङ्कजा
विभ्राजमाना राजेन्द्र दिशः सर्वाः स्वतेजसा ॥

38.34

ततस् तीर्थोदकैः स्नाता दिव्यवस्त्रैर् अलंकृता
दिव्यगन्धानुलिप्ताङ्गी सुमनोभिः सुभूषणैह् ॥

38.35

देवपक्षं समासाद्य स्थित्वा क्षणम् अरिंदम
हरिवक्षःस्थलं प्राप्ता ततः सा कमलालया ॥

38.36

ततो ऽमृतघटं पूर्णं दुग्ध्वा तु पयसो निधेः
धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप ॥

38.37

दैत्याः श्रिया परित्यक्ता दुःखितास् ते ऽभवन् नृप
नीत्वामृतघटं पूर्णं ते च जग्मुर् यथासुखम् ॥

38.38

ततः स्त्रीरूपम् अकरोद् विष्णुर् देवहिताय वै
आत्मानं नृपशार्दूल सर्वलक्षणसंयुतम् ॥

38.39

ततो जगाम भगवान् स्त्रीरूपेणासुरान् प्रति
दिव्यरूपां तु तां दृष्ट्वा मोहितास् ते सुरद्विषः ॥

38.40

सुधापूर्णघटं ते तु मोहैः संस्थाप्य सत्तम
कामेन पीडिता ह्य् आसन्न् असुरास् तत्र तत्क्षणात् ॥

38.41

मोहयित्वा तु तान् एवम् असुरान् अवनीपते
अमृतं तु समादाय देवेभ्यः प्रददौ हरिः ॥

38.42

तत् पीत्वा तु ततो देवा देवदेवप्रसादतः
बलवन्तो महावीर्या रणे जग्मुस् ततो ऽसुरान् ॥

38.43

जित्वा रणे ऽसुरान् देवाः स्वानि राज्यानि चक्रिरे
एतत् ते कथितं राजन् प्रादुर्भावो हरेर् अयम् ॥

38.44

कूर्माख्यः पुण्यदो नॄणां शृण्वतां पठताम् अपि
आविस्कृतं कौर्मम् अनन्तवर्चसं नारायणेनाद्भुतकर्मकारिणा
दिवौकसानां तु हिताय केवलं रूपं परं पावनम् एव कीर्तितम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc