नरसिंहपुराण · अध्याय 25
कथं स्तुतो गणाध्यक्षस् तेन राज्ञा महात्मना
यथा तेन तपस् तप्तं तन् मे वद महामते ॥
चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज
रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥
सुरक्तकुसुमैर् हृद्यैर् विनायकम् अथार्चयत्
रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ॥
विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत्
ततो ऽसौ दत्तवान् धूपम् आज्ययुक्तं सचन्दनम्
नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ॥
एवं सुविधिना पूज्य विनायकम् अथास्तवीत् ॥
नमस्कृत्य महादेवं स्तोष्ये ऽहम् तं विनायकम् ॥
महागणपतिं शूरम् अजितं ज्ञानवर्धनम्
एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥
त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम्
आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ॥
आरक्तं दण्डिनं चैवम् वह्निवक्त्रं हुतप्रियम्
अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥
तं नमामि गणाध्यक्षं भीमम् उग्रम् उमासुतम्
मदमत्तं विरूपाक्षं भक्तविघ्ननिवारकम् ॥
सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम्
बद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् ॥
नमो ऽस्तु गजवक्त्राय गणानां पतये नमः
मेरुमन्दररूपाय नमः कैलासवासिने ॥
विरूपाय नमस् ते ऽस्तु नमस् ते ब्रह्मचारिणे
भक्तस्तुताय देवाय नमस् तुभ्यं विनायक ॥
त्वया पुराण पूर्वेषां देवानां कार्यसिद्धये
गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥
ऋषीणां देवतानां च नायकत्वं प्रकाशितम्
यतस् ततः सुरैर् अग्रे पूज्यसे त्वं भवात्मज ॥
त्वाम् आराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम्
कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥
रक्ताम्बरधरो भूत्वा चतुर्थ्याम् अर्चयेज् जपेत्
त्रिकालं एककालं वा पूजयेन् नियताशनः ॥
राजानं राजपुत्रं वा राजमन्त्रिणम् एव वा
राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् ॥
अविघ्नं तपसो मह्यं कुरु नौमि विनायक
मयेत्थं संस्तुतो भक्त्या पूजितश् च विशेषतः ॥
यत् फलं सर्वतीर्थेषु सर्वयज्ञेषु यत् फलम्
तत् फलं पूर्णम् आप्नोति स्तुत्वा देवं विनायकम् ॥
विषमं न भवेत् तस्य न च गच्छेत् पराभवम्
न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ॥
य इदं पठते स्तोत्रं षड्भिर् मासैर् वरं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥
एवं स्तुत्वा पुरा राजा गणाध्यक्षं द्विजोत्तम
तापसं वेषम् आस्थाय तपश् चर्तुम् गतो वनम् ॥
उत्सृज्य वस्त्रं नागत्वक् सदृशं बहुमूल्यकम्
कठिनां तु त्वचं वार्क्षीं कट्यां धत्ते नृपोत्तमः ॥
तथा रत्नानि दिव्यानि वलयानि निरस्य तु
अक्षसूत्रम् अलंकारं फलैः पद्मस्य शोभनम् ॥
तथोत्तमाङ्गे मुकुटं रत्नहाटकशोभितम्
त्यक्त्वा जटाकलापं तु तपोर्थे बिभृयान् नृपः ॥
कृत्वेत्थं स तपोवेषं वसिष्ठोक्तं तपोवनम्
प्रविश्य च तपस् तेपे शाकमूलफलाशनः ॥
ग्रीष्मे पञ्चाग्निमध्यस्थो ऽतपत् काले महातपाः
वर्षाकाले निरालम्बो हेमन्ते च सरोजले ॥
इन्द्रियाणि समस्तानि नियम्य हृदये पुनः
मनो विष्णौ समावेश्य मन्त्रं वै द्वादशाक्षरम् ॥
जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः
आविर् बभूव भगवान् ब्रह्मा लोकपितामहः ॥
तम् आगतम् अथालोक्य पद्मयोनिं चतुर्मुखम्
प्रणम्य भक्तिभावेन स्तुत्या च पर्यतोषयत् ॥
नमो हिरण्यगर्भाय जगत्स्रष्ट्रे महात्मने
वेदशास्त्रार्थविदुषे चतुर्वक्त्राय ते नमः ॥
इति स्तुतो जगत्स्रष्टा ब्रह्मा प्राह नृपोत्तमम् ॥
तपस्य् अभिरतं शान्तं त्यक्तराज्यं महासुखम् ॥
लोकप्रकाशको राजन् सूर्यस् तव पितामहः ॥
मुनीनाम् अपि सर्वेषां सदा मान्यो मनुः पिता
कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ ॥
किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम
तपः करोषि घोरं त्वं समाचक्ष्व महामते ॥
इत्युक्तो ब्रह्मणा राजा तं प्रणम्याब्रवीद् वचः
दृष्टुम् इच्छंस् तपश्चर्या बलेन मधुसूदनम् ॥
करोम्य् एवं तपो ब्रह्मन् शङ्खचक्रगदाधरम्
इत्युक्तः प्राह राजानं पद्मजन्मा हसन्न् इव ॥
न शक्यस् तपसा द्रष्टुं त्वया नारायणो विभुः
मादृशैर् अपि नो दृश्यः केशवः क्लेशनाशनः ॥
पुरातनीं पुण्यकथां कथयामि निबोध मे
निशान्ते प्रलये लोकान् निनीय कमलेक्षणः ॥
अनन्तभोगशयने योगनिद्रां गतो हरिः
सनन्दनाद्यैर् मुनिभिः स्तूयमानो महामते ॥
तस्य सुप्तस्य नाभौ तु महत् पद्मम् अजायत
तस्मिन् पद्मे शुभे राजन् जातो ऽहं वेदवित् पुरा ॥
ततो भूत्वा त्व् अधोदृष्टिर् दृष्टवान् कमलेक्षणम्
अनन्तभोगपर्यङ्के भिन्नाञ्जननिभं हरिम् ॥
अतसीकुसुमाभासं शयानं पीतवाससम्
दिव्यरत्नविचित्राङ्गं मुकुटेन विराजितम् ॥
कुन्देन्दुसदृशाकारम् अनन्तं च महामते
सहस्रफणमध्यस्थैर् मणिभिर् दीप्तिमत्तरम् ॥
क्षणमात्रं तु तं दृष्ट्वा पुनस् तत्र न दृष्टवान्
दुःखेन महताविष्टो बभूवाहं नृपोत्तम ॥
ततो न्व् अवातरं तस्मात् पद्मनालं समाश्रितः
कौतूहलेन तं द्रष्टुं नारायणम् अनामयम् ॥
ततस् त्व् अन्विष्य राजेन्द्र सलिलान्ते न दृष्टवान्
श्रीशं पुनस् तम् एवाहं पद्मम् आश्रित्य चिन्तयन् ॥
तद् रूपं वासुदेवस्य द्रष्टुं तेपे महत् तपः
ततो माम् अन्तरिक्षस्था वाग् उवाचाशरीरिणी ॥
वृथा किं क्लिश्यते ब्रह्मन् सांप्रतं कुरु मे वचः
न दृश्यो भगवान् विष्णुस् तपसा महतापि ते ॥
सृष्टिं कुरु तदाज्ञप्तो यदि द्रष्टुम् इहेच्छसि
शुद्धस्फटिकसंकाश नागपर्यङ्कशायिनम् ॥
यद् दृष्टं शार्ङ्गिणो रूपं भिन्नाञ्जनसमप्रभम्
प्रतिभानियतं रूपं विमानस्थं महामते ॥
भज नित्यम् अनालस्यस् ततो द्रक्ष्यसि माधवम्
तयेत्थं चोदितो राजंस् त्यक्त्वा तप्तम् अनुक्षणम् ॥
सृष्टवान् लोकभूतानां सृष्टिं सृष्ट्वा स्थितस्य च
आविर् बभूव मनसि विश्वकर्मा प्रजापतिः ॥
अनन्तकृष्णयोस् तेन द्वे रूपे निर्मिते शुभे
विमानस्थो यथापूर्वं मया दृष्टो जले नृप ॥
तथैव तं ततो भक्त्या संपूज्याहं हरिं स्थितः
तत्प्रसादात् तपः श्रेष्ठं मया ज्ञानम् अनुत्तमम् ॥
लब्ध्वा मुक्तिं च पश्यामि अविकारक्रियासुखम्
तद् अहं ते प्रवक्ष्यामि हितं नृपवरेश्वर ॥
विसृज्यैतत् तपो घोरं पुरीं व्रज निजां नृप
प्रजानां पालनं धर्मस् तपश् चैव महीभृताम् ॥
विमानं प्रेषयिष्यामि सिद्धद्विजगणान्वितम्
तत्राराधय देवेशं बाह्यार्थैर् अखिलैः शुभैः ॥
नारायणम् अनन्ताख्ये शयानं क्रतुभिर् यजन्
निष्कामो नृपशार्दूल प्रजा धर्मेण पालय ॥
प्रसादाद् वासुदेवस्य मुक्तिस् ते भविता नृप
इत्य् उक्त्वा तं जगामाथ ब्रह्मलोकं पितामहः ॥
इक्ष्वाकुश् चिन्तयन्न् आस्ते पद्मयोनिवचो द्विज
आविर् बभूव पुरतो विमानं तन् महीभृतः ॥
ब्रह्मदत्तं द्विजयुतं माधवानन्तयोः शुभम्
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥
ऋषीन् प्रणम्य विप्रांश् च तद् आदाय ययौ पुरीम्
पौरैर् जनैश् च नारीभिर् दृष्टः शोभासमन्वितैः ॥
लाजा विनिक्षिपद्भिश् च नीतो राजा स्वकं गृहम्
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥
संस्थाप्याराधयाम्_अस तैर् द्विजैर् अर्चितं हरिम्
महिष्यः शोभना यास् तु पिष्ट्वा तु हरिचन्दनम् ॥
मालां कृत्वा सुगन्धाढ्यां प्रीतिस् तस्य ववर्ध ह
पौराः कर्पूरं श्रीखण्डं कुङ्कुमाद्य् अगुरुं तथा ॥
कृत्स्नं विशेषतो वस्त्रं महिषाख्यं च गुग्गुलम्
पुष्पाणि विष्णुयोग्यानि ददुर् आनीय भूपतेः ॥
विमानस्थं हरिं पूज्य गन्धपुष्पादिभिः क्रमात्
त्रिसंध्यं परया भक्त्या जपैः स्तोत्रैश् च वैष्णवैः ॥
गीतैः कोलाहलैः शब्दैः शङ्खवादित्रनादितैः
प्रेक्षणैर् अपि शास्त्रोक्तैः प्रीतैश् च निशि जागरैः ॥
कारयाम्_अस सुचिरम् उत्सवं परमं हरेः
यागैश् च तोषयित्वा तं सर्वदेवमयं हरिम् ॥
निष्कामो दानधर्मैश् च परं ज्ञानम् अवाप्तवान्
यजन् यज्ञं महीं रक्षन् स कुर्वन् केशवार्चनम् ॥
उत्पाद्य पुत्रान् पित्रर्थं ध्यानात् त्यक्त्वा कलेवरम्
ध्यायन् वै केवलं ब्रह्म प्राप्तवान् वैष्णवं पदम् ॥
अजं विशोकं विमलं विशुद्धं शान्तं सदानन्दचिदात्मकं ततः
विहाय संसारम् अनन्तदुःखं जगाम तद् विष्णुपदं हि राजा ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0