नरसिंहपुराण · अध्याय 26
यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति
सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते ॥
ःयेन महता तपसा पुरा दिवो गङ्गा अशेषकल्मषनाशिनी चतुर्विधपुरुषार्थदायिनी भुवम् आनीता ।
ःअस्थिशर्कराभूताः कपिलमहर्षिनिर्दग्धाश् च गुरवः सगराख्या गङ्गातोयसंस्पृष्टा दिवम् आरोपिताः ।
ःभगीरथात् सौदासः सौदासात् सत्रसवः ॥
ःस तु पितृवचनाद् भ्रातृभार्यासहितो दण्डकारण्यं प्राप्य तपश् चचार ।
ःवने रावणापहृतभार्यो भ्रात्रा सह दुःखितो ऽनेककोटिवानरनायकसुग्रीवसहायो महोदधौ सेतुं निबध्य तैर् गत्वा लङ्कां रावणं देवकण्टकं सबान्धवं हत्वा सीताम् आदाय पुनर् अयोध्यां प्राप्य भरताभिषिक्तो विभीषणाय लङ्काराज्यं विमानं वा दत्त्वा तं प्रेषयाम्_अस ।
ःस तु परमेश्वरो विमानस्थो विभीषणेन नीयमानो लङ्कायाम् अपि राक्षसपुर्यां वस्तुम् अनिच्छन् पुण्यारण्यं तत्र स्थापितवान् ॥
ःरामाल् लवो लवात् पद्मः पद्माद् ऋतुपर्ण ऋटुपर्णाद् अस्त्रपाणिः ।
ःअस्त्रपाणेः शुद्धोदनः शुद्धोदनाद् बुद्धः ।
ःबुद्धाद् वंशो निवर्तते ॥
एते महीपा रविवंशजास् तव प्राधान्यतस् ते कथिता महाबलाः
पुरातनैर् यैर् वसुधा प्रपालिता यज्ञक्रियाभिश् च दिवौकसैर् नृपैः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0