भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 1

1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥

1.2

तप्तहाटककेशान्त ज्वलत्पावकलोचन
वज्राधिकनखस्पर्श दिव्यसिंह नमो ऽस्तु ते ॥

1.3

पान्तु वो नरसिंहस्य नखलाङ्गूलकोटयः
हिरण्यकशिपोर् वक्षः क्षेत्रासृक्कर्दमारुणाः ॥

1.4

हिमवद्वासिणः सर्वे मुनयो वेदपारगाः
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥

1.5

ये ऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः
महेन्द्राद्रिरता ये च ये च विन्ध्यनिवासिनः ॥

1.6

धर्मारण्यरता ये च दण्डकारण्यवासिनः
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥

1.7

कौमारपर्वते ये च ये च पम्पानिवासिनः
एते चान्ये च बहवः सशिष्या मुनयो ऽमलाः ॥

1.8

माघमासे प्रयागं तु स्नातुं तीर्थं समागताः
तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम् ॥

1.9

नत्वा तु माधवं देवं कृत्वा च पितृतर्पणम्
दृष्ट्वा तत्र भरद्वाजं पुण्यतीर्थनिवासिनम् ॥

1.10

तं पूजयित्वा विधिवत् तेनैव च सुपूजिताः
आसनेषु विचित्रेषु वृष्यादिषु यथाक्रमम् ॥

1.11

भरद्वाजेन दत्तेषु आसीनास् ते तपोधनाः
कृष्णाश्रिताः कथाः सर्वे परस्परम् अथाब्रुवन् ॥

1.12

कथान्तेषु ततस् तेषां मुनीनां भावितात्मनाम्
आजगाम महातेजास् तत्र सूतो महामतिः ॥

1.13

व्यासशिष्यः पुराणज्ञो लोमहर्षणसंज्ञकः
तान् प्रणम्य यथान्यायं स च तैश् चाभिपूजितः ॥

1.14

उपविष्टो यथायोग्यं भरद्वाजमतेन सः
व्यासशिष्यं सुखासीनं ततस् तं लोमहर्षणम्
स पप्रच्छ भरद्वाजो मुनीनाम् अग्रतस् तदा ॥

1.15

शौनकस्य महासत्त्रे वाराहाख्या तु संहिता
त्वत्तः श्रुता पुरा सूत एतैर् अस्माभिर् एव च ॥

1.16

सांप्रतं नारसिंहाख्यां त्वत्तः पौराणसंहिताम्
श्रोतुम् इच्छाम्य् अहं सूत श्रोतुकामा इमे स्थिताः ॥

1.17

अतस् त्वां परिपृच्छामि प्रश्नम् एतं महामुने
ऋषीणाम् अग्रतः सूत प्रातर् ह्य् एषां महात्मनाम् ॥

1.18

कुत एतत् समुत्पन्नं केन वा परिपाल्यते
कस्मिन् वा लयम् अभ्येति जगद् एतच् चराचरम् ॥

1.19

किं प्रमाणं च वै भूमेर् नृसिंहः केन तुष्यति
कर्मणा तु महाभाग तन् मे ब्रूहि महामते ॥

1.20

कथं च सृष्टेर् आदिः स्याद् अवसानं कथं भवेत्
कथं युगस्य गणना किं वा स्यात् तु चतुर्युगम् ॥

1.21

को वा विशेषस् तेष्व् अत्र का वावस्था कलौ युगे
कथम् आराध्यते देवो नरसिंहो ऽप्य् अमानुषैः ॥

1.22

क्षेत्राणि कानि पुण्यानि के च पुण्याः शिलोच्चयाः
नद्यश् च काः पराः पुण्या नृणां पापहराः शुभाः ॥

1.23

देवादीनां कथं सृष्टिः मनोर् मन्वन्तरस्य तु
तथा विद्याधरादीनां सृष्टिर् आदौ कथं भवेत् ॥

1.24

यज्वानः के च राजानः के च सिद्धिं परां गताः
एतत् सर्वं महाभाग कथयस्व यथाक्रमम् ॥

1.25

व्यासप्रसादाज् जानामि पुराणानि तपोधनाः
तं प्रणम्य प्रवक्ष्यामि पुराणं नारसिंहकम् ॥

1.26

पाराशर्यं परमपुरुषं विश्वदेवैकयोनिं विद्यावन्तं विपुलमतिदं वेदवेदाङ्गवेद्यम्
शश्वच्छान्तं शमितविषयं शुद्धतेजो विशालम् वेदव्यासं विगतशमलं सर्वदाहं नमामि ॥

1.27

नमो भगवते तस्मै व्यासायामिततेजसे
यस्य प्रसादाद् वक्ष्यामि वासुदेवकथाम् इमाम् ॥

1.28

सुनिर्णीतो महान् प्रश्नस् त्वया यः परिकीर्तितः
विष्णुप्रसादेन विना वक्तुं केनापि शक्यते ॥

1.29

तथापि नरसिंहस्य प्रसादाद् एव ते ऽधुना
प्रवक्ष्यामि महापुन्यं भारद्वाज शृणुष्व मे ॥

1.30

शृण्वन्तु मुनयः सर्वे सशिष्यास् त्व् अत्र ये स्थिताः
पुराणं नरसिंहस्य प्रवक्ष्यामि यथातथा ॥

1.31

नारायणाद् इदं सर्वं समुत्पन्नं चराचरम्
तेनैव पाल्यते सर्वं नरसिंहादिमूर्तिभिः ॥

1.32

तथैव लीयते चान्ते हरौ ज्योतिःस्वरूपिणि
यथैव देवः सृजति तथा वक्ष्यामि तच् छृणु ॥

1.33

पुराणानां हि सर्वेषाम् अयं साधारणः स्मृतः
श्लोको यस् तं मुने श्रुत्वा निःशेषं त्वं ततः शृणु ॥

1.34

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥

1.35

आदिसर्गो ऽनुसर्गश् च वंशो मन्वन्तराणि च
वंशानुचरितं चैव वक्ष्याम्य् अनुसमासतः ॥

1.36

आदिसर्गो महांस् तावत् कथयिष्यामि वै द्विजाः
यस्माद् आरभ्य देवानां राज्ञां चरितम् एव च ॥

1.37

ज्ञायते सरहस्यं च परमात्मा सनातनः
प्राक् सृष्टेः प्रलयाद् ऊर्ध्वं नासीत् किंचिद् द्विजोत्तम ॥

1.38

ब्रह्मसंज्ञम् अभूद् एकं ज्योतिष्मत् सर्वकारणम्
नित्यं निरञ्जनं शान्तं निर्गुणं नित्यनिर्मलम् ॥

1.39

आनन्दसागरं स्वच्छं यं काङ्क्षन्ति मुमुक्षवः
सर्वज्ञं ज्ञानरूपत्वाद् अनन्तम् अजम् अव्ययम् ॥

1.40

सर्गकाले तु संप्राप्ते ज्ञात्वासौ ज्ञातृनायकः
अन्तर्लीनं विकारं च तत् स्रष्टुम् उपचक्रमे ॥

1.41

तस्मात् प्रधानम् उद्भूतं ततश् चापि महान् अभूत्
सात्त्विको राजसश् चैव तामसश् च त्रिधा महान् ॥

1.42

वैकारिकस् तैजसश् च भूतादिश् चैव तामसः
त्रिविधो ऽयम् अहंकारो महत्तत्त्वाद् अजायत ॥

1.43

यथा प्रधानं हि महान् महता स तथावृतः
भूतादिस् तु विकुर्वाणः शब्दतन्मात्रकं ततः ॥

1.44

ससर्ज शब्दतन्मात्राद् आकाशं शब्दलक्षणम्
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ॥

1.45

आकाशस् तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह
बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः ॥

1.46

आकाशं शब्दतन्मात्रं स्पर्शमात्रं तथावृणोत्
ततो वायुर् विकुर्वाणो रूपमात्रं ससर्ज ह ॥

1.47

ज्योतिर् उत्पद्यते वायोस् तद् रूपगुणम् उच्यते
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ॥

1.48

ज्योतिश् चापि विकुर्वाणं रसमात्रं ससर्ज ह
संभवन्ति ततो ऽम्भांसि रसाधाराणि तानि तु ॥

1.49

रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत्
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ॥

1.50

तस्माज् जाता मही चेयं सर्वभूतगुणाधिका
संघातो जायते तस्मात् तस्य गन्धगुणो मतः ॥

1.51

तस्मिंस् तस्मिंस् तु तन्मात्रा तेन तन्मात्रता स्मृता
तन्मात्राण्य् अविशेषाणि विशेषाः कर्मशो ऽपराः ॥

1.52

भूततन्मात्रसर्गो ऽयम् अहंकारात् तु तामसात्
कीर्तितस् ते समासेन भरद्वाज मया तव ॥

1.53

तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश
एकादशं मनश् चात्र कीर्तितं तत्र चिन्तकैः ॥

1.54

बुद्धीन्द्रियाणि पञ्चात्र पञ्च कर्मेन्द्रियाणि च
तानि वक्ष्यामि तेषां च कर्माणि कुलपावन ॥

1.55

श्रवणे च दृशौ जिह्वा नासिका त्वक् च पञ्चमी
शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पञ्च वै ॥

1.56

पायूपस्थे हस्तपादौ वाग् भरद्वाज पञ्चमी
विसर्गानन्दशिल्पी च गत्युक्ती कर्म तत् स्मृतम् ॥

1.57

आकाशवायुतेजांसि सलिलं पृथिवी तथा
शब्दादिभिर् गुणैर् विप्र संयुक्तान्य् उत्तरोत्तरैः ॥

1.58

नानावीर्याः पृथग्भूतास् ततस् ते संहतिं विना
नाशक्नुवन् प्रजां स्रष्टुम् असमागम्य कृत्स्नशः ॥

1.59

समेत्यान्योन्यसंयोगं परस्परसमाश्रयात्
एकसंघातलक्ष्याश् च संप्राप्यैक्यम् अशेषतः ॥

1.60

पुरुषाधिष्ठितत्वाच् च प्रधानानुग्रहेण च
महदाद्या विशेषान्तास् त्व् अण्डम् उत्पादयन्ति ते ॥

1.61

तत् क्रमेण विवृद्धं तु जलबुद्बुदवत् स्थितम्
भूतेभ्यो ऽण्डं महाबुद्धे बृहत् तद् उदकेशयम् ॥

1.62

प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम्
तत्राव्यक्तस्वरूपो ऽसौ विष्णुर् विश्वेश्वरः प्रभुः ॥

1.63

ब्रह्मस्वरूपम् आस्थाय स्वयम् एव व्यवस्थितः
मेरुर् उल्बम् अभूत् तस्य जरायुश् च महीधराः
गर्भोदकं समुद्राश् च तस्याभूवन् महात्मनः ॥

1.64

अद्रिद्वीपसमुद्राश् च सज्योतिर् लोकसंग्रहः
तस्मिन्न् अण्डे ऽभवत् सर्वं सदेवासुरमानुषम् ॥

1.65

रजोगुणयुतो देवः स्वयम् एव हरिः परः
ब्रह्मरूपं समास्थाय जगत्सृष्टौ प्रवर्तते ॥

1.66

सृष्टं च पात्य् अनुयुगं यावत् कल्पविकल्पना
नरसिंहादिरूपेण रुद्ररूपेण संहरेत् ॥

1.67

ब्राह्मेण रूपेण सृजत्य् अनन्तो जगत् समस्तं परिपातुम् इच्छन्
रामादिरूपं स तु गृह्य पाति भूत्वाथ रुद्रः प्रकरोति नाशम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc