नरसिंहपुराण · अध्याय 18
इति श्रुत्वा कथाः पुण्याः सर्वपापप्रणाशिनीः
नानाविधा मुनिश्रेष्ठाः कृष्णद्वैपायनात् पुनः ॥
शुकः पूर्वं महाभागो भरद्वाजो महामते
सिद्धैर् अन्यैश् च सहितो नारायणपरो ऽभवत् ॥
एवं ते कथिता विप्र मार्कण्डेयादिकाः कथाः
मया विचित्राः पापघ्न्यः किं भूयः श्रोतुम् इच्छसि ॥
वस्वादीनां तथा प्रोक्ता मम सृष्टिस् त्वया पुरा
अश्विनोर् मरुतां चैव नोक्तोत्पत्तिस् तु तां वद ॥
मरुतां विस्तरेणोक्ता वैष्णवाख्ये महामते
पुराणे शक्तिपुत्रेण पुरोत्पतिश् च वायुना ॥
अश्विनोर् देवयोश् चैव सृष्टिर् उक्ता सुविस्तरात्
संक्षेपात् तव वक्ष्यामि सृष्टिम् एतां शृणुष्व मे ॥
ःदक्षकन्यादितिः ।
ःअदितेर् आदित्यः पुत्रः ।
ःतस्मै त्वष्टा दुहितरं संज्ञां नाम कन्यां दत्तवान् ॥
एवं वः कथिता विप्रा अश्विनौत्पत्तिर् उत्तमा
पुण्या पवित्रा पापघ्नी भरद्वाज महामते ॥
आदित्यपुत्रौ भिषजौ सुराणां दिव्येन रूपेण विराजमानौ
श्रुत्वा तयोर् जन्म नरः पृथिव्यां भवेत् सुरूपो दिवि मोदते च ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0