नरसिंहपुराण · अध्याय 19
यैः स्तुतो नामभिस् तेन सविता विश्वकर्मणा
तान्य् अहं श्रोतुम् इच्छामि वद सूत विवस्वतः ॥
तानि मे शृणु नामानि यैः स्तुतो विश्वकर्मणा
सविता तानि वक्ष्यामि सर्वपपहराणि ते ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्
तिमिरोन्मथनः शंभुस् त्वष्टा मार्तण्ड आशुगः ॥
हिरण्यगर्भः कपिलस् तपनो भास्करो रविः
अग्निगर्भो ऽदितेः पुत्रः शंभुस् तिमिरनाशनः ॥
अंशुमान् अंशुमाली च तमोघ्नस् तेजसां निधिः
आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥
हरिर् विश्वो महातेजाः सर्वरत्नप्रभाकरः
अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥
प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः
यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥
अमित्रहा शिवो हंसो नायकः प्रियदर्शनः
शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥
धर्मरश्मिः पतङ्गश् च विशालो विश्वसंस्तुतः
दुर्विज्ञेयगतिः शूरस् तेजोराशिर् महायशाः ॥
भ्राजिष्णुर् ज्योतिषाम् ईशो विजिष्णुर् विश्वभावनः
प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥
आदित्यो विश्वदृग् यज्ञ कर्ता नेता यशस्करः
विमलो वीर्यवान् ईशो योगज्ञो योगभावनः ॥
अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः
धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥
तरणिः शाश्वतः शास्ता शास्त्रज्ञस् तपनः शयः
वेदगर्भो विभुर् वीरः शान्तः सावित्रिवल्लभः ॥
ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः
महेन्द्रो वरुणो धाता विष्णुर् अग्निर् दिवाकरः ॥
एतैस् तु नामभिः सूर्यः स्तुतस् तेन महात्मना
उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥
भ्रमिम् आरोप्य माम् अत्र मण्डलं मम शातय
त्वद्बुद्धिस्थं मया ज्ञातम् एवम् औष्ण्यं शमं व्रजेत् ॥
इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज
शान्तोष्णः सविता तस्य दुहितुर् विश्वकर्मणः ॥
संज्ञायाश् चाभवद् विप्र भानुस् त्वष्टारम् अब्रवीत्
त्वया यस्मात् स्तुतो ऽहं वै नाम्नाम् अष्टशतेन च ॥
वरं वृणीष्व तस्मात् त्वं वरदो ऽहं तवानघ
इत्युक्तो भानुना सो ऽथ विश्वकर्माब्रवीद् इदम् ॥
वरदो यदि मे देव वरम् एतं प्रयच्छ मे
एतैस् तु नामभिस् यस् त्वां नरः स्तोष्यति नित्यशः ॥
तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥
तेनैवम् उक्तो दिनकृत् तथेति त्वष्टारम् उक्त्वा विरराम भास्करः
संज्ञां विशङ्कां रविमण्डलस्थितां कृत्वा जगामाथ रविं प्रसाद्य ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0