नरसिंहपुराण · अध्याय 17
किं जपन् मुच्यते तात सततं विष्णुतत्परः
संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥
अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रम् उत्तमम्
यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥
हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम्
एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज् जपं द्विजः ॥
एकान्ते निर्जनस्थाने विष्ण्वग्रे वा जलान्तिके
जपेद् अष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥
अष्टाक्षरस्य मन्त्रस्य ऋषिर् नारायणः स्वयम्
छन्दश् च दैवी गायत्री परमात्मा च देवता ॥
शुक्लवर्णं च ओंकारं नकारं रक्तम् उच्यते
मोकारं वर्णतः कृष्णं नाकारं रक्तम् उच्यते ॥
राकारं कुङ्कुमाभं तु यकारं पीतम् उच्यते
णाकारम् अञ्जनाभं तु यकारं बहुवर्णकम् ॥
ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः
वेदानां प्रणयेनैष सिद्धो मन्त्रः सनातनः ॥
सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः
एनम् अष्टाक्षरं मन्त्रं जपन् नारायणं स्मरेत् ॥
संध्यावसाने सततं सर्वपापैः प्रमुच्यते
एष एव परो मन्त्र एष एव परं तपः ॥
एष एव परो मोक्ष एष स्वर्ग उदाहृतः
सर्ववेदरहस्येभ्यः सार एष समुद्धृतः ॥
विष्णुना वैष्णवानां हि हिताय मनुजां पुरा
एवं ज्ञात्वा ततो विप्रो ह्य् अष्टाक्षरम् इमं स्मरेत् ॥
स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये
जपे दाने च होमे च गमने ध्यानपर्वसु ॥
जपेन् नारायणं मन्त्रं कर्मपूर्वे परे तथा
जपेत् सहस्रं नियुतं शुचिर् भूत्वा समाहितः ॥
मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः
स्नात्वा शुचिर् जपेद् यस् तु नमो नारायणं शतम् ॥
स गच्छेत् परमं देवं नारायणम् अनामयम्
गन्धपुष्पादिभिर् विष्णुम् अनेनाराध्य यो जपेत् ॥
महापातकयुक्तो ऽपि मुच्यते नात्र संशयः
हृदि कृत्वा हरिं देवं मन्त्रम् एनं तु यो जपेत् ॥
सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम्
प्रथमेन तु लक्षेण आत्मशुद्धिर् भविष्यति ॥
द्वितीयेन तु लक्षेण मनुसिद्धिम् अवाप्नुयात्
तृतीयेन तु लक्षेण स्वर्गलोकम् अवाप्नुयात् ॥
चतुर्थेन तु लक्षेण हरेः सामिप्यम् आप्नुयात्
पञ्चमेन तु लक्षेण निर्मलं ज्ञानम् आप्नुयात् ॥
तथा षष्ठेन लक्षेण भवेद् विष्णौ स्थिरा मतिः
सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते ॥
अष्टमेन तु लक्षेण निर्वाणम् अधिगच्छति
स्वस्वधर्मसमायुक्तं जपं कुर्याद् द्विजोत्तमः ॥
एतत् सिद्धिकरं मन्त्रम् अष्टाक्षरम् अतन्द्रितः
दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः ॥
जापिनं नोपसर्पन्ति चौरक्षुद्राधयस् तथा
एकाग्रमनसाव्याग्रो विष्णुभक्तो दृढव्रतः ॥
जपेन् नारायणं मन्त्रम् एतन् मृत्युभयापहम्
मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् ॥
गुह्यानां परमं गुह्यम् ओंकाराद्यक्षराष्टकम्
आयुष्यं धनपुत्रांश् च पशून् विद्यां महद् यशः ॥
धर्मार्थकाममोक्षांश् च लभते च जपन् नरः
एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् ॥
एतत् सिद्धिकरं नॄणां मन्त्ररूपं न संशयः
ऋषयः पितरो देवाः सिद्धास् त्व् असुरराक्षसाः ॥
एतद् एव परं जप्त्वा परां सिद्धिम् इतो गताः
ज्ञात्वा यस् त्व् आत्मनः कालं शास्त्रान्तरविधानतः
अन्तकाले जपन्न् एति तद् विष्णोः परमं पदम् ॥
नारायणाय नम इत्य् अयम् एव सत्यं संसारघोरविषसंहरणाय मन्त्रः
शृण्वन्तु भव्यमतयो मुदितास् त्वरागा उच्चैस् तराम् उपदिशाम्य् अहम् ऊर्ध्वबाहुः ॥
भूत्वोर्ध्वबाहुर् अद्याहं सत्यपूर्वं ब्रवीम्य् अहम्
हे पुत्र शिष्याः शृणुत न मन्त्रो ऽष्टाक्षरात् परः ॥
सत्यं सत्यं पुनः सत्यम् उत्क्षिप्य भुजम् उच्यते
वेदाच् छास्त्रं परं नास्ति न देवः केशवात् परः ॥
आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः
इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
इत्य् एतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम्
कथाश् च विविधाः प्रोक्ता मया भज जनार्दनम् ॥
अष्टाक्षरम् इमं मन्त्रं सर्वदुःखविनाशनम्
जप पुत्र महाबुद्धे यदि सिद्धिम् अभीप्ससि ॥
इदं स्तवं व्यासमुखात् तु निस्सृतं संध्यात्रये ये पुरुषाः पठन्ति
ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरम् अपेतभयास् तरन्ति ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0