भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 16

16.1

संसारवृक्षम् आरुह्य द्वंद्वपाशशतैर् दृढैः
बध्यमानः सुतैश्वर्यैः पतितो योनिसागरे ॥

16.2

यः कामक्रोधलोभैस् तु विषयैः परिपीडितः
बद्धः स्वकर्मभिर् गौणैः पुत्रदारैषणादिभिः ॥

16.3

स केन निस्तरत्य् आशु दुस्तरं भवसागरम्
पृच्छाम् आख्याहि मे तात तस्य मुक्तिं कथं भवेत् ॥

16.4

शृणु वत्स महाप्राज्ञ यज् ज्ञात्वा मुक्तिम् आप्नुयात्
तच् च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥

16.5

नरके रौरवे घोरे धर्मज्ञानविवर्जिताः
स्वकर्मभिर् महादुःखं प्राप्ता यत्र यमालये ॥

16.6

महापापकृतं घोरं संप्राप्ताः पापकृज्जनाः
आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥

16.7

गङ्गाधरं महादेवं शंकरं शूलपाणिनम्
प्रणम्य विधिवद् देवं नारदः परिपृच्छति ॥

16.8

यः संसारे महाद्वंद्वैः कामभोगैः शुभाशुभैः
शब्दादिविषयैर् बद्धः पीड्यमानः षडूर्मिभिः ॥

16.9

कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात्
भगवन् ब्रूहि मे तत्त्वं श्रोतुम् इच्छामि शंकर ॥

16.10

तस्य तद् वचनं श्रुत्वा नारदस्य त्रिलोचनः
उवाच तम् ऋषिं शंभुः प्रसन्नवदनो हरः ॥

16.11

ज्ञानामृतं च गुह्यं च रहस्यम् ऋषिसत्तम
वक्ष्यामि शृणु दुःखघ्नं सर्वबन्धभयापहम् ॥

16.12

तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम्
चराचरं जगत् सर्वं प्रसुप्तं यस्य मायया ॥

16.13

तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते
स निस्तरति संसारं देवानाम् अपि दुस्तरम् ॥

16.14

भोगैश्वर्यमदोन्मत्तस् तत्त्वज्ञानपराङ्मुखः
संसारसुमहापङ्के जीर्णा गौर् इव मज्जति ॥

16.15

यस् त्व् आत्मानं निबध्नाति कर्मभिः कोशकारवत्
तस्य मुक्तिं न पश्यामि जन्मकोटिशतैर् अपि ॥

16.16

तस्मान् नारद सर्वेशं देवानां देवम् अव्ययम्
आराधयेत् सदा संयग् ध्यायेद् विष्णुं समाहितः ॥

16.17

यस् तं विश्वम् अनाद्यन्तम् आद्यं स्वात्मनि संस्थितम्
सर्वज्ञम् अमलं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.18

निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम्
वासुदेवम् अजं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.19

निरञ्जनं परं शान्तम् अच्युतं भूतभावनम्
देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.20

सर्वपापविनिर्मुक्तम् अप्रमेयम् अलक्षणम्
निर्वाणम् अनघं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.21

अमृतं परमानन्दं सर्वपापविवर्जितम्
ब्रह्मण्यं शंकरं विष्णुं सदा संकीर्त्य मुच्यते ॥

16.22

योगेश्वरं पुराणाख्यम् अशरीरं गुहाशयम्
अमात्रम् अव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.23

शुभाशुभविनिर्मुक्तम् ऊर्मिषट्कपरं विभुम्
अचिन्त्यम् अमलं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.24

सर्वद्वंद्वविनिर्मुक्तं सर्वदुःखविवर्जितम्
अप्रतर्क्यम् अजं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.25

अनामगोत्रम् अद्वैतं चतुर्थं परमं पदम्
तं सर्वहृद्गतं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.26

अरूपं सत्यसंकल्पं शुद्धम् आकाशवत् परम्
एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥

16.27

सर्वात्मकं स्वभावस्थम् आत्मचैतन्यरूपकम्
शुभ्रम् एकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.28

अनिर्वाच्यम् अविज्ञेयम् अक्षरादिम् असंभवम्
एकं नूत्नं सदा विष्णुं सदा ध्यायन् विमुच्यते ॥

16.29

विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम्
स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.30

सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम्
सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.31

ब्रह्मादिदेवगन्धर्वैर् मुनिभिः सिद्धचारणैः
योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.32

विष्णौ प्रतिष्ठितं विश्वं विष्णुर् विश्वे प्रतिष्ठितः
विश्वेश्वरम् अजं विष्णुं कीर्तयन्न् एव मुच्यते ॥

16.33

संसारबन्धनान् मुक्तिम् इच्छन् कामम् अशेषतः
भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥

16.34

नारदेन पुरा पृष्ट एवं स वृषभध्वजः
यद् उवाच तदा तस्मै तन् मया कथितं तव ॥

16.35

तम् एव सततं ध्याहि निर्बीजं ब्रह्म केवलम्
अवाप्स्यसि ध्रुवं तात शाश्वतं पदम् अव्ययम् ॥

16.36

श्रुत्वा सुरऋषिविष्णोः प्राधान्यम् इदम् ईश्वरात्
स विष्णुं संयग् आराध्य परां सिद्धिम् अवाप्तवान् ॥

16.37

यश् चैनं पठते चैव नृसिंहकृतमानसः
शतजन्मकृतं पापम् अपि तस्य प्रणश्यति ॥

16.38

विष्णोः स्तवम् इदं पुण्यं महादेवेन कीर्तितम्
प्रातः स्नात्वा पठेन् नित्यम् अमृतत्वं स गच्छति ॥

16.39

ध्यायन्ति ये नित्यम् अनन्तम् अच्युतं हृत्पद्ममध्येष्व् अथ कीर्तयन्ति ये
उपासकानां प्रभुम् ईश्वरं परं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc