भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 15

15.1

श्रोतुम् इच्छाम्य् अहं तात सांप्रतं मुनिभिः सह
संसारवृक्षं सकलं येनेदं परिवर्तते ॥

15.2

वक्तुम् अर्हसि मे तात त्वयैतत् सूचितं पुरा
नान्यो वेत्ति महाभाग संसारोच्चारलक्षणम् ॥

15.3

स पुत्रेणैवम् उक्तस् तु शिष्याणां मध्यगेन च
कृष्णद्वैपायनः प्राह संसारतरुलक्षणम् ॥

15.4

शृण्वन्तु शिष्याः सकला वत्स त्वं शृणु भावितः
संसारवृक्षं वक्ष्यामि येन चेदं समावृतम् ॥

15.5

अव्यक्तमूलप्रभवस् तस्माद् अग्रे तथोत्थितः
बुद्धिस्कन्धमयश् चैव इन्द्रियाङ्करकोटरः ॥

15.6

महाभूतविशाखश् च विशेषैः पत्त्रशाखवान्
धर्माधर्मसुपुष्पश् च सुखदुःखफलोदयः ॥

15.7

आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः
एतद् ब्रह्म परं चैव ब्रह्म वृक्षस्य तस्य तत् ॥

15.8

इत्य् एवं कथितं वत्स संसारवृक्षलक्षणम्
वृक्षं एनं समारूढा मोहम् आयान्ति देहिनः ॥

15.9

संसरन्तीह सततं सुखदुःखसमन्विताः
प्रायेण प्राकृता मर्त्या ब्रह्मज्ञानपराङ्मुखाः ॥

15.10

छित्त्वैनं कृतिनो यान्ति नो यान्ति ब्रह्मज्ञानिनः
कर्मक्रिये महाप्राज्ञ नैनं छिन्दन्ति दुष्कृताः ॥

15.11

एनं छित्त्वा च भित्त्वा च ज्ञानेन परमासिना
ततो ऽमरत्वं ते यान्ति यस्मान् नावर्तते पुनः ॥

15.12

देहदारमयैः पाशैर् दृढं बद्धो ऽपि मुच्यते
ज्ञानम् एव परं पुंसां श्रेयसाम् अभिवाञ्छितम्
तोषणं नरसिंहस्य ज्ञानहीनः पशुः पुमान् ॥

15.13

आहारनिद्राभयमैथुनानि समानम् एतत् पशुभिर् नराणाम्
ज्ञानं नराणाम् अधिकं हि लोके ज्ञानेन हीनाः पशुभिः समानाः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc