भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय v18

v18.1

प्रकीर्णके पुनर् ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥

v18.2

पुरप्रदानं संभेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणी गणधर्मविपर्ययाः ॥

v18.3

पितृपुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश् च कोप आश्रमिणाम् अपि ॥

v18.4

वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा ।
न दृष्टं यच् च पूर्वेषु तत् सर्वं स्यात् प्रकीर्णके ॥

v18.5

राजा त्व् अवहितः सर्वान् आश्रमान् परिपालयेत् ।
उपायैः शास्त्रविहितैश् चतुर्भिः प्रकृतैस् तथा ॥

v18.6

यो यो वर्णो ऽवहीयेत यो वोद्रेकम् अनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥

v18.7

अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् ॥

v18.8

श्रुतिस्मृतिविरुद्धं च जनानाम् अहितं च यत् ।
न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥

v18.9

न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं च यत् ।
तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥

v18.10

राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
दण्ड्यः स पापो वध्यश् च लोपयन् राजशासनम् ॥

v18.11

आयुधान्य् आयुधीयानां वाह्यादीन् वाह्यजीविनाम् ।
वेश्यास्त्रीणाम् अलंकारं वाद्यातोद्यानि तद्विदाम् ॥

v18.12

यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणे ऽप्य् एतान् न राजा हर्तुम् अर्हति ॥

v18.13

अनादिश् चाप्य् अनन्तश् च द्विपदां पृथिवीपतिः ।
दीप्तिमत्वाच् छुचित्वाच् च यदि न स्यात् पथश् च्युतः ॥

v18.14

यदि राजा न सर्वेषां वर्णानां दण्डधारणम् ।
कुर्यात् पथो व्यपेतानां विनश्येयुर् इमाः प्रजाः ॥

v18.15

ब्राह्मण्यं ब्राह्मणो जह्यात् क्षत्रियः क्षात्रम् उत्सृजेत् ।
स्वकर्म जह्याद् वैश्यस् तु शूद्रः सर्वान् विशेषयेत् ॥

v18.16

राजानश् चेन् नाभविष्यन् पृथिव्यां दण्डधारणम् ।
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥

v18.17

सताम् अनुग्रहो नित्यम् असतां निग्रहस् तथा ।
एष धर्मः स्मृतो राज्ञाम् अर्थश् चामित्रपीडनात् ॥

v18.18

न लिप्यते यथा वह्निर् दहञ् छश्वद् इमाः प्रजाः ।
न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् ॥

v18.19

आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
ते यद् ब्रूयुर् असत् सद् वा स धर्मो व्यवहारिणाम् ॥

v18.20

राजा नाम चरत्य् एष भूमौ साक्षात् सहस्रदृक् ।
न तस्याज्ञाम् अतिक्रम्य संतिष्ठेरन् प्रजाः क्वचित् ॥

v18.21

रक्षाधिकाराद् ईशत्वाद् भूतानुग्रहदर्शनात् ।
यद् एव राजा कुरुते तत् प्रमाणम् इति स्थितिः ॥

v18.22

निर्गुणो ऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां विगुणो ऽप्य् एवं पूज्य एव नराधिपः ॥

v18.23

तपःक्रीताः प्रजा राज्ञा प्रभुर् आसां ततो नृपः ।
ततस् तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥

v18.24

पञ्च रूपाणि राजानो धारयन्त्य् अमितौजसः ।
अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च ॥

v18.25

कारणाद् अनिमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस् तदाग्निर् अभिधीयते ॥

v18.26

यदा तेजः समालम्ब्य विजिगीषुर् उदायुधः ।
अभियाति परान् राजा तदेन्द्रः स उदाहृतः ॥

v18.27

विगतक्रोधसंतापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्य् उच्यते तदा ॥

v18.28

धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतः यमः ॥

v18.29

यदा त्व् अर्थिगुरुप्राज्ञ भृत्यादीन् अवनीपतिः ।
अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥

v18.30

तस्मात् तं नावजानीयान् नाक्रोशेन् न विशेषयेत् ।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमात् ॥

v18.31

तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणाम् आत्मनश् चाभिरक्षणम् ॥

v18.32

ब्राह्मणान् उपसेवेत नित्यं राजा समाहितः ।
संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥

v18.33

ब्राह्मणस्यापरीहारो राजन्यासनम् अग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेभ्यश् चाभिवादनम् ॥

v18.34

अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्षहेतोः परागारे प्रवेशस् त्व् अनिवारितः ॥

v18.35

समित्पुष्पोदकादानेष्व् अस्तेयं सपरिग्रहात् ।
अनाक्षेपः परेभ्यश् च संभाषश् च परस्त्रिया ॥

v18.36

नदीष्व् अवेतनस् तारः पूर्वम् उत्तरणं तथा ।
तरेष्व् अशुल्कदानं च न चेद् वाणिज्यम् अस्य तत् ॥

v18.37

वर्तमानो ऽध्वनि श्रान्तो गृह्णन्न् अनिवसन् स्वयम् ।
ब्राह्मणो नापराध्नोति द्वाव् इक्षू पञ्च मूलकान् ॥

v18.38

नाभिशस्तान् न पतितान् न द्विषो न च नास्तिकात् ।
न सोपधान् नानिमित्तं न दातारं प्रपीड्य च ॥

v18.39

अर्थानां भूरिभावाच् च देयत्वाच् च महात्मनाम् ।
श्रेयान् प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणाद् ऋते ॥

v18.40

ब्राह्मणश् चैव राजा च द्वाव् अप्य् एतौ धृतव्रतौ ।
नैतयोर् अन्तरं किंचित् प्रजाधर्माभिरक्षणात् ॥

v18.41

धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतो ऽशुचीन् ।
मेध्यम् एव धनं प्राहुस् तीक्ष्णस्यापि महीपतेः ॥

v18.42

शुचीनाम् अशुचीनां च संनिपातो यथाम्भसाम् ।
समुद्रे समतां याति तद्वद् राज्ञो धनागमः ॥

v18.43

यथा चाग्नौ स्थितं दीप्ते शुद्धिम् आयाति काञ्चनम् ।
एवम् एवागमा सर्वे शुद्धिम् आयान्ति राजसु ॥

v18.44

य एव कश्चित् स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।
तद् राज्ञाप्य् अनुमन्तव्यम् एष धर्मः सनातनः ॥

v18.45

अन्यप्रकाराद् उचिताद् भूमेः षड्भागसंज्ञितात् ।
बलिः स तस्य विहितः प्रजापालनवेतनम् ॥

v18.46

शक्यं तत् पुनर् आदातुं यद् अब्राह्मणसात्कृतम् ।
ब्राह्मणाय तु यद् दत्तं न तस्य हरणं पुनः ॥

v18.47

दानम् अध्ययनं यज्ञस् तस्य कर्म त्रिलक्षणम् ।
याजनाध्यापने वृत्तिस् तृतीयस् तु प्रतिग्रहः ॥

v18.48

स्वकर्मणि द्विजस् तिष्ठेद् वृत्तिम् आहारयेत् कृताम् ।
नासद्भ्यः प्रतिगृह्णीयाद् वर्णेभ्यो नियमे ऽसति ॥

v18.49

अशुचिर् वचनाद् यस्य शुचिर् भवति पुरुषः ।
शुचिश् चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥

v18.50

विदुर् य एव देवत्वं राज्ञो ह्य् अमिततेजसः ।
तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः ॥

v18.51

लोके ऽस्मिन् मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः ।
हिरण्यं सर्पिर् आदित्य आपो राजा तथाष्टमः ॥

v18.52

एतानि सततं पश्येन् नमस्येद् अर्चयेच् च तान् ।
प्रदक्षिणं च कुर्वीत तथा ह्य् आयुर् न हीयते ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc