भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय v17

v17.1

अक्षवर्ध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश् च पदं द्यूतसमाह्वयम् ॥

v17.2

सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्कृतम् ।
दशकं तु शतं वृद्धिस् तस्य स्याद् द्यूतकारिता ॥

v17.3

द्विरभ्यस्ताः पतन्त्य् अक्षा ग्लहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥

v17.4

कितवेष्व् एव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस् त एव च साक्षिणः ॥

v17.5

अशुद्धः कितवो नान्यद् आश्रयेद् द्यूतमण्डलम् ।
प्रतिहन्यान् न सभिकं दापयेत् तत् स्वम् इष्टतः ॥

v17.6

कूटाक्षदेविनः पापान् निर्भजेद् द्यूतमण्डलात् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc