नारदस्मृति · अध्याय m2
सुनिश्चितबलाधानस् त्व् अर्थी स्वार्थप्रचोदितः ।
लेखयेत् पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥
पूर्वपक्षश्रुतार्थस् तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ॥
श्वो लेखनं वा स लभेत् त्र्यहं सप्ताहम् एव वा ।
अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ॥
मिथ्या संप्रतिपत्तिर् वा प्रत्यवस्कन्दम् एव वा ।
प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच् चतुर्विधम् ॥
मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल एवं मिथ्या चतुर्विधा ॥
मिथ्या च विपरीतं च पुनः शब्दसमागमम् ।
पूर्वपक्षार्थसंबन्धम् उत्तरं स्याच् चतुर्विधम् ॥
भाषाया उत्तरं यावत् प्रत्यर्थी न निवेशयेत् ।
अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥
अन्यार्थम् अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यं हीनाधिकं भ्रष्टं भाषादोषास् तूदाहृताः ॥
लब्धव्यं येन यद् यस्मात् स तत् तस्माद् अवाप्नुयात् ।
न त्व् अन्यो ऽन्यद् अथान्यस्माद् इत्य् अन्यार्थम् इदं त्रिधा ॥
मनसाहम् अपि ध्यातस् त्वन्मित्रेणेह शत्रुवत् ।
अतो ऽन्यथा महाक्षान्त्या त्वम् इहावेदितो मया ॥
द्रव्यप्रमाणहीनं यत् फलोपाश्रयवर्जितम् ।
प्रमाणवर्जितं नाम लेख्यदोषं तद् उत्सृजेत् ॥
आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् ।
एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ॥
बिन्दुमात्रापदवर्णेष्व् एकाविधिष्टया (?) ।
हीनाधिका भवेद् व्यर्था तां यत्नेन विवर्जयेत् ॥
भ्रष्टं तु दुःस्थितं यत् स्याज् जलतैलादिभिर् हतम् ।
भाषायां तद् अपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ॥
सत्या भाषा न भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भ्रश्यते धर्मान् नियताद् व्यवहारिकात् ॥
गन्धमादनसंस्थस्य मयास्यासीत् तद् अर्पितम् ।
व्यवहारिकधर्मस्य बाह्यम् एतन् न सिध्यति ॥
अन्याक्षरनिवेशेन अन्यार्थगमनेन च ।
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥
रागादीनां यद् एकेन कोपितः करणे वदेत् ।
तद् आदौ तु लिखेत् सर्वं वादिनः फलकादिषु ॥
निराकुलावबोधाय धर्मस्थैः सुविचारितम् ।
तस्माद् अन्यद् व्यपोह्यं स्याद् वादिनः फलकादिषु ॥
वादिभ्याम् अभ्यनुज्ञातं शेषं च फलके स्थितम् ।
ससाक्षिकं लिखेयुस् ते प्रतिपत्तिं च वादिनोः ॥
वादिभ्यां लिखिताच् छेषं यत् पुनर् वादिना स्मृतम् ।
तत् प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥
अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥
यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारे ऽपि विब्रुवन् ॥
पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।
वादसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥
सर्वेष्व् अपि विवादेषु वाक्छले नापहीयते ।
पशुस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥
अभियुक्तो ऽभियोगस्य यदि कुर्याद् अपह्नवम् ।
अभियोक्ता दिशेद् देश्यं प्रत्यवस्कन्दितो न चेत् ॥
पूर्वपादे हि लिखितं यथाक्षरम् अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥
क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां धटादिर् दैविकी स्मृता ॥
दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा ।
संभवे साक्षिणां चैव दिव्या न भवति क्रिया ॥
अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥
कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते ।
अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥
पलायते य आहूतो मौनी साक्षिपराजितः ।
स्वयम् अभ्युपपन्नश् च अवसन्नश् चतुर्विधः ॥
अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
मणयः पद्मरागाद्या दीनारादि हिरण्मयम् ।
मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ॥
गन्धमाल्यम् अदत्तं तु भूषणं वास एव वा ।
पादुकेति राजोक्तं तद् आक्रामन् वधम् अर्हति ॥
पण्यमूल्यं भृतिर् न्यासो दण्डो यच् चावहारकम् ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥
मिथ्याभियोगिनो ये स्युर् द्विजानां शूद्रयोनयः ।
तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ॥
आज्ञा लेखः पट्टकः शासनं वा आधिः पत्त्रं विक्रयो वा क्रयो वा ।
राज्ञे कुर्यात् पूर्वम् आवेदनं यस् तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ॥
साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात् साक्ष्यं विशोधयेत् ॥
साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥
स्वयम् अभ्युपपन्नो ऽपि स्वचर्यावसितो ऽपि सन् ।
क्रियावसन्नो ऽप्य् अर्हेत परं सभ्यावधारणम् ॥
पक्षान् उत्सार्य कार्यस् तु सभ्यैः कार्यविनिश्चयः ।
अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ॥
सभैर् एव जितः पश्चाद् राज्ञा शास्यः स्वशास्त्रतः ।
जयिने चापि देयं स्याद् यथावज् जयपत्रकम् ॥
व्यवहारमुखं चैतत् पूर्वम् उक्तं स्वयंभुवा ।
मुखशुद्धौ हि शुद्धिः स्याद् व्यवहारस्य नान्यथा ॥
मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0