भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय m1

m1.1

धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः ।
तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ॥

m1.2

नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते ।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥

m1.3

लिखितं साक्षिणश् चात्र द्वौ विधी संप्रकीर्तितौ ।
संदिग्धार्थविशुद्ध्यर्थं द्वयोर् विवदमानयोः ॥

m1.4

सोत्तरो ऽनुत्तरश् चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥

m1.5

विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते ।
स पणं स्वकृतं दाप्यो विनयं च पराजये ॥

m1.6

सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥

m1.7

कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥

m1.8

स चतुष्पाच् चतुःस्थानश् चतुःसाधन एव च ।
चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥

m1.9

अष्टाङ्गो ऽष्टादशपदः शतशाखस् तथैव च ।
त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ॥

m1.10

धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥

m1.11

तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥

m1.12

सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते ।
चतुर्णाम् आश्रमाणां च रक्षणात् स चतुर्हितः ॥

m1.13

कर्तॄन् अथो साक्षिणश् च सभ्यान् राजानम् एव च ।
व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥

m1.14

धर्मस्यार्थस्य यशसो लोकपक्तेस् तथैव च ।
चतुर्णां करणाद् एषां चतुष्कारी प्रकीर्तितः ॥

m1.15

राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गः स उदाहृतः ॥

m1.16

ऋणादानं ह्य् उपनिधिः संभूयोत्थानम् एव च ।
दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥

m1.17

वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥

m1.18

समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ।
स्त्रीपुंसयोश् च संबन्धो दायभागो ऽथ साहसम् ॥

m1.19

वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ।
द्यूतं प्रकीर्णकं चैवेत्य् अष्टादशपदः स्मृतः ॥

m1.20

एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं स्मृतम् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥

m1.21

कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयम् एतद् विवादकृत् ॥

m1.22

द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ॥

m1.23

पक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः ।
पूर्ववादस् तयोः पक्षः प्रतिपक्षस् तदुत्तरम् ॥

m1.24

भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥

m1.25

तत्र शिष्टं छलं राजा मर्षयेद् धर्मसाधनः ।
भूतम् एव प्रपद्येत धर्ममूला यतः श्रियः ॥

m1.26

धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः ।
संभवन्ति गुणाः सप्त सप्त वह्नेर् इवार्चिषः ॥

m1.27

धर्मश् चार्थश् च कीर्तिश् च लोकपक्तिर् उपग्रहः ।
प्रजाभ्यो बहुमानश् च स्वर्गे स्थानं च शाश्वतम् ॥

m1.28

तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥

m1.29

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद् व्यवहारान् अनुक्रमात् ॥

m1.30

आगमः प्रथमं कार्यो व्यवहारपदं ततः ।
विवित्सा निर्णयश् चैव दर्शनं स्याच् चतुर्विधम् ॥

m1.31

धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन मार्गतः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥

m1.32

यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् ।
कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥

m1.33

यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आचारेत् ॥

m1.34

धर्मशास्त्रविरोधे तु युक्तियुक्तो ऽपि धर्मतः ।
व्यवहारो हि बलवान् धर्मस् तेनावहीयते ॥

m1.35

सूक्ष्मो हि भगवान् धर्मः परोक्षो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥

m1.36

यात्य् अचौरो ऽपि चौरत्वं चौरश् चायात्य् अचौरताम् ।
अचौरश् चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥

m1.37

स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्य् अरातिषु ।
व्यवहारः कृतो ऽप्य् एषु पुनः कर्तव्यताम् इयात् ॥

m1.38

गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥

m1.39

गोभूहिरण्यस्त्रीस्तेय पारुष्यात्ययिकेषु च ।
साहसेष्व् अभिशापे च सद्य एव विवादयेत् ॥

m1.40

अनावेद्य तु यो राज्ञे संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चास्यार्थो न सिध्यति ॥

m1.41

वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥

m1.42

स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥

m1.43

नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥

m1.44

आसेधकाल आसिद्ध आसेधम् यो व्यतिक्रमेत् ।
स विनेयो ऽन्यथा कुर्वन्न् आसेद्धा दण्डभाग् भवेत् ॥

m1.45

निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥

m1.46

गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः ।
शिल्पिनः चापि तत्कालम् आयुधीयाश् च विग्रहे ॥

m1.47

अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थश् च नासेध्यो न चैनान् आह्वयेन् नृपः ॥

m1.48

नाभियुक्तो ऽभियुञ्जीत तम् अतीर्त्वार्थम् अन्यतः ।
न चाभियुक्तम् अन्येन न विद्धं वेद्धुम् अर्हति ॥

m1.49

यम् अर्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
नान्यत् पक्षान्तरं गच्छेद् गच्छन् पूर्वात् स हीयते ॥

m1.50

न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।
यस् तत्र विनयः प्रोक्तः सो ऽभियोक्तारम् आव्रजेत् ॥

m1.51

सापदेशं हरन् कालम् अब्रुवंश् चापि संसदि ।
उक्त्वा वचो विब्रुवंश् च हीयमानस्य लक्षणम् ॥

m1.52

पलायते य आहूतः प्राप्तश् च विवदेन् न यः ।
विनेयः स भवेद् राज्ञा हीन एव स वादतः ॥

m1.53

निर्णिक्तव्यवहारेषु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥

m1.54

यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥

m1.55

अभूतम् अप्य् अभिहितं प्राप्तकालं परीक्ष्यते ।
यत् तु प्रमादान् नोच्येत तद् भूतम् अपि हीयते ॥

m1.56

तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥

m1.57

दुर्दृष्टे व्यवहारे तु सभ्यास् तं दण्डम् आप्नुयुः ।
न हि जातु विना दण्डं कश्चिन् मार्गे ऽवतिष्ठते ॥

m1.58

रागाद् अज्ञानतो वापि लोभाद् वा यो ऽन्यथा वदेत् ।
सभ्यो ऽसभ्यः स विज्ञेयस् तं राजा विनयेद् भृशम् ॥

m1.59

किंतु राज्ञा विशेषेण स्वधर्मम् अनुरक्षता ।
मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥

m1.60

पुरुषाः सन्ति ये लोभात् प्रब्रूयुः साक्ष्यम् अन्यथा ।
सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥

m1.61

अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥

m1.62

असत्याः सत्यसंकाशाः सत्याश् चासत्यदर्शनाः ।
दृश्यन्ते विविधा भावास् तस्माद् युक्तं परीक्षणम् ॥

m1.63

तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥

m1.64

तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम् ।
परीक्ष्य ज्ञापयन् अर्थान् न धर्मात् परिहीयते ॥

m1.65

एवं पश्यन् सदा राजा व्यवहारान् समाहितः ।
वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc