भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.7

2.7.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे ब्रह्मवाक्यं नाम षष्ठो ऽध्यायः
प्राप्तं तात मया सार्द्धं वेदाङ्घ्रिनमने हितम् ।
नाहं गच्छामि योगान्तं पुनरेव जगत्पते

2.7.2

प्रशासति महीं भूपेहाटकाङ्गदसंज्ञके ।
तमेकं देवताश्रेष्ठं संप्राप्ते हरिवासरे

2.7.3

यदि चालयसे धैर्यात्ततो ऽहं तव किङ्करः ।
स मे शत्रुर्महान्देव तेन लुप्तः पटो मम

2.7.4

तमेकं भोजयित्वा तु कार्ष्णे ऽहनि महीपतिम् ।
कृतकृत्यो भविष्यामि गयापिण्डप्रदो यथा

2.7.5

अद्य प्रभृति देवेशोयैर्नरैः संस्मृतो हरिः ।
उपोषितः स्तुतोवापि न नियम्या मया हि ते

2.7.6

हरिरिति सहसा ये संगृणन्तिच्छलेन जननिजठरमार्गात्ते विमुक्ते विमुक्ता हि मर्त्याः ।
मम पटविलिपिं ते नो विशन्ति प्रवीणा दिविचरवरसंघैस्ते नमस्या भवन्ति ।
सौतिरुवाच

2.7.7

वैवस्वतस्य कार्येण तत्सम्मानचिकीर्षयया ।
र्चितयामास देवेशो विरिञ्चिः कुशलाञ्छनः

2.7.8

चिन्तयित्वा क्षणं देवः सर्वभूतैश्च भूषितः ।
भूतत्रासनमात्रं तु रूपं स जगृहे विभुः

2.7.9

तस्मिन्नुत्पादयामास प्रमदां लोकमोहिनीम् ।
सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ

2.7.10

सा बभूवाग्रतस्तस्य सर्वालङ्कारभीषिता ।
दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम्

2.7.11

प्राहेमान् पश्यतो ह्येतां स्वकान्वै काममोहितान् ।
प्रत्यवायभयाद्ब्रह्या चक्षुषी संन्यमीलयत्

2.7.12

सरागेणेह मनसा सरागेणेह चक्षुषा ।
चिन्तयेद्वीक्षयेद्वापि जननीं वा सुतामपि

2.7.13

वधूं वा भ्रातृजायां वा गुरोभार्यां नृपस्त्रियम् ।
स याति नरकं घोरं संचिन्त्य श्वपचीमपि

2.7.14

दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः ।
तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा

2.7.15

प्रसंगे दशसाहस्रं पुण्यमायाति संक्षयम् ।
पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम्

2.7.16

तस्मान्न चिन्तये त्प्राज्ञो ह्येता रागेण चक्षुषा ।
जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः

2.7.17

सुतैस्त्वभ्यङ्गकरणे पुनर्यौवनसंस्थितैः ।
षष्ट्यतीतां सुतो ऽभ्यङ्गे नियुञ्जीत विचक्षणः

2.7.18

वृद्धो वापि युवा वापि न पादौ धावयेद्वधूम् ।
उभयोः पतनं प्रोक्तं रौरवे ऽङ्गारसंचये

2.7.19

या वधूर्दर्शयेदङ्गं विवृतं श्वशुरस्य हि ।
पाणिपादाहता राजन् क्रिमिभक्ष्या भवेत्तु सा ।
वधूहस्तेन यः पापः पादशौचं करोति हि

2.7.20

स्नानं वाप्यथवाभ्यङ्गं तस्याप्येवंविधा गतिः ।
सूचीमुखैः कृष्णवक्त्रोर्भुज्यते कल्पसंस्थितिम्

2.7.21

तस्मान्न वीक्षयेन्नारीं सुतां वापि वधूं नरः ।
साभिलाषेण मनसा तत्क्षणात्पतते नरः

2.7.22

एवं संचिन्तयित्वा च सूक्ष्मां दृष्टिं चकार ह ।
यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम्

2.7.23

अस्थिपञ्जरमेतद्धि चर्ममांसावृतं त्विति ।
वसा मेदो ऽथ नयने सोज्वले स्त्रीषु संस्थिते

2.7.24

अत्युच्छ्रितमिदं मांसं स्तनयोः समवस्थितम् ।
निम्नांशतां दर्शयति त्रिवली जठरस्थिता

2.7.25

पुनरेवाधिकं क्षिप्तं मांसं जघनवत्मनि ।
मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम्

2.7.26

अपानवायुना जुष्टं सदैव प्रतिकुत्सितम् ।
भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि

2.7.27

कृतं यद्विद्द्विधा काष्ठं तद्वज्जङ्घा द्विधा ध्रुवम् ।
शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत्

2.7.28

मांसमेदोवसासारे किं सारं देहिनां वद ।
विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः

2.7.29

एवं विचार्य बहुधा विरिञ्चिर्ज्ञानचक्षुषा ।
धैर्यं कृत्वा व नारीं तामुवाच गजगामिनीम्

2.7.30

यथाहि मनसा सृष्टा मया त्वं वरवर्णिनी ।
तथा भूतासि चार्वङ्गि मानसोन्मादकारिणी

2.7.31

तमुवाच तदा सा तु प्रणम्य चतुराननम् ।
पश्य मूच्छान्वतनाथ जगत्स्थावरजङ्गमम्

2.7.32

मोहितं मम रूपेण सयोगि यदकल्मषम् ।
स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात्

2.7.33

भवन्त मादितः कृत्वा न क्षोभं याति पद्मज ।
आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता

2.7.34

स्तवनान्नरकं याति विशुद्धो ऽपि च मानवः ।
तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना

2.7.35

साहं सृष्टा त्वया ब्रह्मन् कस्यचित्क्षोभणाय वै ।
तमादिश जगन्नाथ क्षोभयिष्ये न संशयः

2.7.36

मां दृष्ट्वापि क्षितौ देव भूधरश्चापि मुह्यति ।
किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति

2.7.37

तथा चोक्तं पुराणेषु नारीवीक्षणवर्णनम् ।
उन्मादकरणं नॄणां दुश्चरव्रतनाशनम्

2.7.38

सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालंबते तावदेव ।
भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति

2.7.39

धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति ।
भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के

2.7.40

पीतं हि मद्यं मनुजेन नाथ करोति मोहं सुविचक्षणस्य ।
स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि

2.7.41

मोहनार्थं त्वया सृष्टा नराणां प्रपितामह ।
तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम्

2.7.42

ब्रह्मोवाच
सत्यमुक्तं त्वया देवि नासाध्यं भुवनत्रये ।
नागनासोरु सुभगे मत्तमातङ्गगामिनि

2.7.43

या त्वं दूषयसे चेतो ममापि वरवर्णिनि ।
तन्मया सुगृहीतं तु कृतं ज्ञानाङ्कुशेन हि

2.7.44

सा त्वं कथं न लोकानां चेतांस्यपहरिष्यसि ।
सत्यमेतद्विशालाक्षि तव रूपं विमोहनम्

2.7.45

सामरं हि जगत्सर्वं निश्चेष्टमपि लक्षये ।
यन्निमित्तं मया सृष्टा तत्साधय वरानने

2.7.46

वैदिशे नगरे राजा नाम्ना रुक्माङ्गदः क्षितौ ।
यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे

2.7.47

यस्यां धर्माङ्गदो जातो पितुरत्यधिकः सुतः ।
दशनागायु तबलः प्रतापेन रविर्यथा

2.7.48

यः क्षान्त्या धरया तुल्यो गांभीर्ये सांगरोपमः ।
तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः

2.7.49

त्यागे वैरौचनिर्यद्वद्गतौ हि पवनोपमः ।
सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा

2.7.50

जीवभार्गवयोस्तुल्यो यो नीतौ राजनन्दनः ।
पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने

2.7.51

धर्माङ्गदेन द्वीपानि संजितान्यपराण्यपि ।
पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम्

2.7.52

स्वयं प्राप्ताः परित्यक्ता येन भार्याः सहस्रशः ।
यो न वाक्याद्विचलते सहैव हि पितुर्गृहे

2.7.53

यस्य वै त्रीणि सुभगे मातॄणां चारुहासिनि ।
शतानि कनकाभासे त्वविशेषेण पश्यति

2.7.54

चस्य धर्मप्रधानस्य पुत्ररत्नाञ्चितस्य च ।
समीपं गच्छ चार्वङ्गि मन्दरे पर्वतोत्तमे

2.7.55

तत्र वत्स्यति राजा वै तुरगेणातिवाहितः ।
तव गीतेन चार्वङ्गि मोहितो ऽश्वं विहाय चकत

2.7.56

अधिरुह्य गिरेः पृष्ठं स संगं यास्यति त्वया ।
तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह

2.7.57

अहं भार्या भविष्यामि तव राजन्न संशयः ।
यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम्

2.7.58

मोहितस्तव रूपेण तथैव प्रतिपद्यते ।
यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै

2.7.59

वाच्यः कतिपयैः सुभ्रु दिनैरपगतैस्त्विति ।
सुरते तव चार्वङ्गि यदा मुग्धो हि लक्ष्यते

2.7.60

तदा प्रहस्य राज्ञो वै स्मारणीयं पुरा वचः ।
यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने

2.7.61

तत्पालयमहीपाल मन्ये ऽहं समयस्त्विति ।
एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात्

2.7.62

पालयामि न संदेहो ब्रूहि किं ते ददाम्यहम् ।
एवमुक्ते तु वचने त्वया वाच्यो वरानने

2.7.63

रुक्माङ्गदो महीपालो धर्माङ्गदपिता शुभे ।
नोपवासस्त्वया कार्यो जातु वै हरिवासरे

2.7.64

सुरतस्रं सकारी मे ह्युपवासो भवेत्प्रिय ।
सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते

2.7.65

पर्वापेक्षी दुराचारः स याति नरकं ध्रुवम् ।
त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात्

2.7.66

नाहं निमेषमप्येकं स्थातुं शक्ता त्वया विना ।
श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल

2.7.67

याचते संगमं भार्या यदि भोग्या तदैव सा ।
एवं संबोध्यमानो ऽपि यदा राजा वचस्तव

2.7.68

न करिष्यति चार्वङ्गि तदा वाच्यं परं वचः ।
यदि न त्यजसे राजन्नुपवासं हरेर्दिने

2.7.69

स्वहस्तेन शिरश्च्छित्वा स्वपुत्रस्य वरासिना ।
धर्माङ्गदस्य राजेन्द्र ममोत्संगेक्षिप स्वयम्

2.7.70

यद्येतन्मत्प्रियं त्वं हि न करोषि महीपते ।
धर्मक्षीणो भवान् गन्ता नरके नात्र संशयः

2.7.71

श्रुत्वा त्वदीयं वचनं वराङ्गने न हिंस्यते प्राणसमं च पुत्रम् ।
संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरे ऽसौ

2.7.72

ततो जनो यास्यति पूर्ववच्च यमान्तिकं किङ्करपाशबद्धः ।
लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि

2.7.73

अथ यदि निहन्ति तनयं राजा सत्येन संयुतः श्रीमान् ।
निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc