भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.6

2.6.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमविलापनं नाम पञ्चमो ऽध्यायः
ब्रह्मोवाच
किमाश्चर्यं त्वया दृष्टं कथं वा खिद्यते भवान् ।
सद्गुणेषु च संतापः स तापो मरणान्तिकः

2.6.2

यस्योच्चारणमात्रेण प्राप्यते परमं पदम् ।
तमुपोष्य कथं सौरे न गच्छति नरस्त्विति

2.6.3

एको हि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कष्णप्रणामी न पुनर्भवाय

2.6.4

कुरुक्षेत्रेण किं तस्य किं काश्या विरजेन वा ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्

2.6.5

ब्राह्मणः श्वपचीं गच्छन् विशेषेण रजस्वलाम् ।
अन्नमश्नन्सुरापक्वं मरणे यो हरिं स्मरेत्

2.6.6

अभक्ष्यागम्ययोर्जातं विहाय पापसंचयम् ।
स याति विष्णुसायुज्यं विमुक्तो भवबन्धनैः

2.6.7

यन्नामोच्चारणान्मोक्षः कथं न तदुपोषणे ।
यस्मिन्संगीयते सो ऽपि चिन्त्यते पुरुषोत्तमः

2.6.8

लीलया चोच्चरेद्देवं शृणुयाच्च जनार्दनम् ।
गङ्गांभः पूतपुण्यत्वे स नरः समतां व्रजेत्

2.6.9

अस्माकं जगतांनाथो जन्मदः पुरुषोत्तमः ।
कथं शासति दुर्मेधास्तस्य वासरसेविनम्

2.6.10

यस्त्वं न चूर्णितस्तैस्तु यस्त्वं बद्धो न तैर्दृढम् ।
तदस्माकं कृतं मानं मे तत्त्वं नावबुध्यसे

2.6.11

यो नियोगी न जानाति नृपभक्तान्वरान् क्षितौ ।
कृत्स्नायासेन संयुक्तः स तैर्निग्राह्यते पुनः

2.6.12

राजेष्टा न नियोक्तव्याः सापराधा नियोगिना ।
स्वामिप्रसादात्सिद्धास्ते विनिन्युर्व्वै नियोगिनम्

2.6.13

एवं हि पापकर्तारः प्रणता ये जनार्दने ।
कथं संयमिता तेषां बाल्याद्भास्करनन्दन

2.6.14

शैवैर्भास्करभक्तैर्वा मद्भक्तैर्वा दिवाकरे ।
करोमि तव साहाय्यं हरिभक्तैर्न भास्करे

2.6.15

सर्वेषामेव देवानामादिस्तुपुरुषोत्तमः

2.6.16

मधुसूदनभक्तानां निग्रहो नोपपद्यते ।
व्याजेनापि कृता यैस्तु द्वादशी पक्षयोर्द्वयोः

2.6.17

तैः कृते अवमाने तु तव नाहं सहायवान् ।
कृते सहाये तव सूर्यसूनो भवेदनीतिर्मम देहघातिनी ।
विपर्ययो ब्रह्मपदात्सुपुण्यात्कृतेव मार्गे सह विष्णुभक्तैः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc