नारद पुराण · अध्याय 2.5
इति श्रीबृहन्नारदीयपुराणोत्तरभागे यमवाक्यं नाम चतुर्थो ऽध्यायः
यम उवाच
घृष्टतां समनुप्राप्तः पन्था देवस्य चक्रिणः ।
अच्छिद्रैर्गम्यनानैश्च नरैस्त्रिभुवनार्चित
अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पते ।
यो न पूर्यति लोकैघैः सर्वसत्वसरोरुहैः
माधवावसथैनैव समस्तेन पितामह ।
स्वकर्मस्था विकर्मस्थाः शुचयो ऽशुचयो ऽपि वा
उपोष्य वासरं विष्णोर्लोकं यान्ति नृपाज्ञया ।
सो ऽस्माकं हि महान् शत्रुर्भवतां च विशेषतः
निग्राह्यो जगतांनाथ भवेन्नास्त्यत्र संशयः ।
तेन वर्षसहस्रेण शासितं क्षितिमण्डलम्
अप्रमेयो जनो नीतो वैष्णवं हरिवल्लभम् ।
आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम्
पीतवस्त्रसुसंवीतं स्रग्विणं चारुलोपनम् ।
यदि स्थास्यति देवेश माधव्यां माधवप्रियः
समस्तं नेष्यते लोकं विष्णोः पदमनामयम् ।
एष दण्डः पटो ह्येष तव पद्भ्यां विसर्जितः
लोकपालत्वमतुलं मार्जित तेन भूभुजा ।
रुक्माङ्गदेन देवेश धन्या सा स धृतो यया
सर्वदुःखविनाशाय मात्रृजातो गुणाधिकः ।
किमपत्येन जातेन मातुः क्लेशकरेण हि
यो न तापयते शत्रून् ज्येष्ठे मासि यथा रविः ।
वृथाशूला हि जननी जाता देव कुपुत्रिणी
यस्य न स्फुरते कीर्तिर्घनस्थेव शतह्रदा ।
यः पितुर्नोद्धरेत्पक्षं विद्यया वा बलेन वा
मातुर्जठरजो रोगः स प्रसूतो धरातले ।
धर्मे चार्थे च कामे च प्रतीपो यो भवेत्सुतः
मातृहा प्रोच्यते सद्भिर्वृथा तस्यैव जीवितम् ।
एका हि वीरसूरेव विरञ्चे नात्र संशयः
यया रुक्माङ्गदो जातो मल्लिपेमर्ज्जनाय वै ।
नेदं व्यवस्थितं देव क्षितौ केनापि भूभुजा
पुराणे ऽपि जगन्नाथ न श्रुतं पटमार्जनम् ।
सो ऽहं न जां मि कदाचिदाश दृष्ट्वा क्षिरीशं हरिसेवने स्थितम् ।
प्रवादमानं पटहं सुघोरं प्रलोपमानं ममविश्ममार्गम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0