भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.43

2.43.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये गुडधेनुविधिकथनं नाम द्विचत्वारिंशत्तमो ऽध्यायः
वसिष्ठ उवाच
वसोर्वचनमाकर्ण्य गङ्गामाहात्म्यसूचकम् ।
पुनः पप्रच्छ राजेन्द्रं तं विप्रं स्वपुरोहितम्

2.43.2

मोहिन्युवाच
श्रुतं विप्र मया सर्वं गोदानादि शुभावहम् ।
अधुना श्रोतुमिच्छामि गङ्गाव्रतमनुत्तमम्

2.43.3

गङ्गादीनां पूजनं च स्थापनं तत्र वा द्विज ।
किं फलं वद सर्वज्ञ त्वामहं शरणं गता

2.43.4

अधुना गतिदाता त्वं वर्जितायाश्च बन्धुभिः ।
पत्या विरहिता चाहं पुत्रहीना विदांवर

2.43.5

त्वामेव शरणं प्राप्ता पितुर्वचनगौरवात् ।
तद्भवान्प्रणताया मे गङ्गामाहात्म्यंसंयुतम् ।
देवताराधनं ब्रूहि यच्छ्रुत्वा मुच्यते ह्यघात्

2.43.6

वसिष्ठ उवाच
तच्छ्रुत्वा मोहिनीवाक्यं वसुर्विप्रः प्रतापवान् ।
सभाज्य मोहिनीं भूप प्राह वेदविदां वरः

2.43.7

वसुरुवाच
साधु पृष्टं त्वया देवि लोकानां हितकाम्यया

2.43.8

गङ्गामाहात्म्यमखिलं महापापप्रणाशनम् ।
वृषध्वजेन कथितं शिवेन दयया पुरा

2.43.9

प्रीत्या देव्याभि पृष्टेन गङ्गातीरनिवासिना ।
देवैस्तु भुक्तं पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा

2.43.10

अपराह्णे च पितृभिः शर्वर्ंयां गुह्यकादिभैः ।
सर्वा वेला अतिक्रम्य नक्तभोजनमुत्तमम्

2.43.11

उपवासाद्वारं भैक्ष्यं भैक्ष्याद्वरमयाचितम् ।
अयाचिताद्वारं नक्तं तस्मान्नक्तं समाचरेत्

2.43.12

हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ।
अग्निकार्य्यमधःशय्यां नक्ताशी षट् समाचरेत्

2.43.13

गङ्गातीरे माघमासे यः कुर्यान्नक्तभोजनम् ।
शिवायतनपार्श्वे तु कृशरं घृतसंयुतम्

2.43.14

नैवेद्यं च निवेद्यैव कृशरान्नं शिवस्य तु ।
काष्ठमौनेन भुञ्जानो जिह्वालौल्यं विवर्जयेत्

2.43.15

पलाशपत्रे भुञ्जानः शिवं स्मृत्वा जितेन्द्रियः ।
धर्मराजस्य देव्याश्च पृथक्पिण्डं प्रकल्पयेत्

2.43.16

सोपवासश्चतुर्द्दश्यां भवेदुभयपक्षयोः ।
पौर्णमास्यां तु गन्धैश्च गङ्गायाः सलिलैस्तथा

2.43.17

शिवं संस्नाप्य पयसा मध्वाज्यदधिभिः पृथक् ।
तथैव हेमपुष्पं च लिङ्गमूर्ध्नि विनिक्षिपेत्

2.43.18

ततो दद्यात्तु शक्त्यैवापूपञ्च घृतपाचितम् ।
तिलाढकं प्रगृह्याथ शिवलिङ्गोपरि क्षिपेत्

2.43.19

नीलोत्पलैश्च सर्वेशं पूजयेत्पङ्कजैरपि ।
तदलाभे तु सौवर्णैः पङ्कजैः पूजयेद्धरम्

2.43.20

पायसं चात्र मध्वक्तं घृतयुक्तं च गुग्गुलम् ।
घृतदीपं तथा चैव चन्दनाद्यैर्विलेपनम्

2.43.21

दद्याद्भक्त्या महेशाय तथा पत्रफलानि च ।
कृष्णगोमिथुनं चैव सरूपं च निवेदयेत्

2.43.22

भोजयेद्ब्राह्मणानष्टौ मासांते तु सदक्षिणान् ।
वर्जयेन्मधु मांसं च तं मासं ब्रह्मचर्यवान्

2.43.23

एवं कृत्वा यथोद्दिष्टमेकवारमिदं व्रतम् ।
यमैश्च नियमैर्युक्तः श्रद्धाभक्तिपरायणः

2.43.24

इह भोगानवाप्नोति प्रेत्य चानुत्तमां गतिम् ।
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुक्तैः

2.43.25

दिव्यरत्नमयैश्चैव दिव्यभोगसमन्वितैः ।
गत्वा शिवपुरं रम्यं सर्वस्वकुलसंयुतः

2.43.26

सुहृद्भिर्विविधैश्चैव विविधानप्यभीप्सितान् ।
भुक्त्वा भोगानशेषांश्च यावदाभूतसंप्लवम्

2.43.27

ततो भवति धर्मात्मा जंबूद्वीपपतिस्तथा ।
तत्र भुङ्क्ते समस्तांश्च भोगान्विगतकल्मषः

2.43.28

सुरूपः सुभगश्चैव तथा विहितशासनः ।
सर्वरोगविनिर्मुक्तः सो ऽप्येतत्फलभाग्भवेत्

2.43.29

वैशाखे शुक्लपक्षे वा चतुर्दश्यां समाहितः ।
शाल्यन्नं क्षीरसंयुक्तं यः कुर्यान्नक्तभोजनम्

2.43.30

शिवं संपूज्य पुष्पाद्यैर्भोज्यं तु संनिवेद्य च ।
काष्ठमौनेन भुञ्जानो वटकाष्टेन वै तथा

2.43.31

मौनेन प्रयतो भूत्वा कुर्याद्वै दन्तधावनम् ।
शिवलिङ्गसमीपे तु गङ्गातीरे निशि स्वपेत्

2.43.32

पौर्णमास्यां प्रभाते तु गङ्गायां विधिना तथा ।
स्नात्वोपवासं संकल्प्य कुर्य्याज्जागरणं निशि

2.43.33

लिङ्गं घृतेन संस्नाप्य पुष्पगन्धादिभिस्तथा ।
नैवेद्यधूपदीपैश्च संपूज्य वृषभं शुभम्

2.43.34

सुश्वेतपुष्पवस्त्राद्यैर्हारिद्रैश्चन्दनैस्तथा ।
अलङ्कृत्य विधानेन शिवाय विनिवेदयेत्

2.43.35

ब्राह्मणांश्च यथाशक्ति पायसेन तु भोजयेत् ।
एवं सकृच्च यो भक्त्या करोति श्रद्धयान्वितः

2.43.36

लभते दैवपादोनयुगानां द्विसहस्रकम् ।
तपः कृत्वा तु नियमाद्यत्पुण्यं तदसंशयम्

2.43.37

हंसकुन्दप्रभायुक्तैर्विमानैश्चन्द्रसन्निभैः ।
सुश्वेतवृषयुक्तैश्च मुक्ताजालविभूषितैः

2.43.38

स्वकीयपितृभिः सार्द्धं प्रयातीश्वरमन्दिरम् ।
नीलोत्पलसुंगन्धाभिः सुरूपाभिः समन्ततः

2.43.39

कान्ताभिर्दिव्यरूपाभिर्भुक्त्वा भोगाननेकशः ।
अनन्तकालमैश्वर्ययुक्तो भूत्वा ततो भुवि

2.43.40

जायते स महीपालः कीर्त्यैश्वर्यसमन्वितः ।
एकच्छत्रेण स महीं पालयत्याज्ञया सह

2.43.41

अन्ते वैराग्यसंपन्नो गङ्गां स लभते पुनः ।
स तया श्रद्धया युक्तो गङ्गायां मरणं लभेत्

2.43.42

तथा तत्र स्मृतिं लब्ध्वा मोक्षमाप्नोति स ध्रुवम् ।
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते

2.43.43

गङ्गातीरे तु पुरुषो नारी वा भक्तिभावतः ।
निशायां जागरं कृत्वा गङ्गां दशविधैस्ततः

2.43.44

पुष्पैर्गन्धैश्च नैवेद्यैः फलैश्च दशसंख्याया ।
तथैव दीपैस्तांबूलैः पूजयेच्छ्रद्धयान्वितः

2.43.45

स्नात्वा भक्त्या तु जाह्नव्यां दशकृत्वो विधानतः ।
दशप्रसृति कृष्णंश्च तिलान्सर्पिश्च वै जले

2.43.46

सक्तुपिण्डान्गुडपिण्डान्दद्याच्च दशसंख्यया ।
ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा

2.43.47

गङ्गायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीम् ।
पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि

2.43.48

वस्त्रस्रग्दामकण्ठस्य पूर्णकुंभस्य चोपरि ।
संस्थाप्य पूजयेद्देवीं तदलाभे मृदादि वा

2.43.49

अथ तत्राप्यशक्तश्चेल्लिखेत्पिष्टेन वै भुवि ।
चतुर्भुजां सुनेत्रां च चन्द्रायुतसमप्रभाम्

2.43.50

चामरैर्वीज्यमानां च श्वेतच्छत्रोपशिभिताम् ।
सुप्रसन्नां च वरदां करुणार्द्रनिजान्तराम्

2.43.51

सुधाप्लावितभूपृष्ठां देवादिभिरभिष्टुताम् ।
दिव्यरत्नपरीतां च दिंव्यमाल्यानुलेपनाम्

2.43.52

ध्यात्वा जले यथाप्रोक्तां तत्रार्चायां तु पूजयेत् ।
वक्ष्यमाणेन मन्त्रेण कुर्यात्पूजां विशेषतः

2.43.53

पञ्चामृतेन च स्नानमर्चायां तु विशिष्यते ।
प्रतिमाग्रे स्थण्डिले तु गोमयेनोपलेपयेत्

2.43.54

नारायणं महेशं च ब्रह्माणं भास्करं तथा ।
भगीरथं च नृपतिं हिमवन्तं नगेश्वरम्

2.43.55

गन्धपुष्पादिभिश्चैव यथाशक्ति प्रपूजयेत् ।
दशप्रस्थां स्तिलान्दद्याद्दश विप्रेभ्य एव च

2.43.56

दशप्रस्थान्यवान्दद्याद्दश गव्यैर्यथाहितान् ।
मत्स्यकच्छपमण्डूकमरादिजलेचरान्

2.43.57

कारितान्वै यथाशक्ति स्वर्णेन रजतेन वा ।
तदलाभे पिष्टमयानभ्यर्च्य कुसुमादिभिः ।
गङ्गायां प्रक्षिपेत्पूर्व्वं मन्त्रेणैव तु मन्त्रवित्

2.43.58

रथयात्रादिने तस्मिन्विभवे सति कारयेत् ।
रथारूढप्रतिकृतिं गङ्गायास्तूत्तरामुखाम्

2.43.59

भ्रमन्त्या दर्शनं लोके दुर्लभं पापकर्मणाम् ।
दुर्गाया रथयात्रास्ति तथैवात्रापि कारयेत्

2.43.60

एवं कृत्वा विधानेन वित्तशाठ्यविवर्जितः ।
दशपापैर्वक्ष्यमाणैः सद्य एव विमुच्यते

2.43.61

अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च कायिकं त्रिबिधं स्मृतम्

2.43.62

पांरुष्यमनृतं वापि पैशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश्च वाचिकं स्याच्चतुर्विधम्

2.43.63

परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्

2.43.64

एतैर्दशविधैः पापैः कोटिजन्मसमुद्भवैः ।
मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा

2.43.65

दश त्रिंशच्च तान्पूर्वान्पितॄनेव तथापरान् ।
उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता

2.43.66

ओं नमो दशहरायै नारायण्यै गङ्गायै नमः ।
इति मन्त्रेण यो मर्त्यो दिने तस्मिन्दिवानिशम्

2.43.67

जपेत्पचसहस्राणि दशधर्मफलं लभेत् ।
उद्दरेद्दश पूर्वाणि पराणि च भवार्णवात्

2.43.68

वक्ष्यमाणमिदं स्तोत्रं विधिना प्रतिगृह्य च ।
गङ्गाग्रे तद्दिने जप्यं विष्णुपूजां प्रवर्तयेत्

2.43.69

ओं नमः शिवायै गङ्गायै शिवदायै नमो ऽस्तु ते ।
नमो ऽस्तु विष्णुरूपिण्यै गङ्गायै ते नमो नमः

2.43.70

सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ।
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठे नमो ऽस्तु ते

2.43.71

स्थाणुजङ्गमसंभूतविषहन्त्रि नमो ऽस्तु ते ।
संसारविषनाशिन्यै जीवनायै नमोनमः

2.43.72

तापत्रितयहन्त्र्यै च प्राणेश्वर्यै नमोनमः ।
शान्त्यै संतापहारिण्यै नमस्ते सर्वमूर्तये

2.43.73

सर्वसंशुद्धिकारिण्यै नमः पापविमुक्तये ।
भुक्तिमुक्तिप्रदायिन्यै भोगवत्यै नमोनमः

2.43.74

मन्दाकिन्यै नमस्ते ऽस्तु स्वर्गदायै नमोनमः ।
नमस्त्रैलोक्यमूर्तायै त्रिदशायै नमोनमः

2.43.75

नमस्ते शुक्लसंस्थायै क्षेमवत्यै नमोनमः ।
त्रिदशासनसंस्थायै तेजोवत्यै नमो ऽस्तु ते

2.43.76

मन्दायै लिङ्गधारिण्यै नारायण्यै नमोनमः ।
नमस्ते विश्वमित्रायै रेवत्यै ते नमोनमः

2.43.77

बृहत्यै ते नमो नित्यं लोकधात्र्यै नमोनमः ।
नमस्ते विश्वमुख्यायै नन्दिन्यै ते नमोनमः

2.43.78

पृथ्व्यै शिवामृतायै च विरजायै नमोनमः ।
परावरगताद्यैयै तारायै ते नमोनमः

2.43.79

नमस्ते स्वर्गसंस्थायै अभिन्नायै नमोनमः ।
शान्तायै ते प्रतिष्ठायै वरदायै नमोनमः

2.43.80

उग्रायै नुखजल्पायै संजीविन्यै नमोनमः ।
ब्रह्मगायै ब्रह्मदायै दुरितघ्न्यै नमोनमः

2.43.81

प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोनमः ।
विलुषायै दुर्गहन्त्र्यै दक्षायै ते नमोनमः

2.43.82

सर्वापत्प्रतिपक्षायै मङ्गलायै नमोनमः ।
परापरे परे तुभ्य नमो मोक्षप्रदे सदा ।
गङ्गा ममाग्रतो भूयाद्गङ्गा मे पार्श्वयोस्तथा

2.43.83

गङ्गा मे सर्वतो भूयात्त्वयि गङ्गे ऽस्तु मे स्थितिः ।
आदौ त्वमन्ते मध्ये च सर्वा त्वं गाङ्गते शिवे

2.43.84

त्वमेव मूलप्रकृतिस्त्वं हि नारायणः प्रभुः ।
गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमोनमः

2.43.85

इतीदं पठति स्तोत्रं नित्यं भक्तिपरस्तु यः ।
शृणोति श्रद्धया वापि कायवाचिकसंभवैः

2.43.86

दशधा संस्थितैर्देषैः सर्वैरेव प्रमुच्यते ।
रोगी प्रमुच्यते रोगान्मुच्येतापन्न आपदः

2.43.87

द्विषभ्द्यो बन्धनाच्चापि भयेभ्यश्च विमुच्यते ।
सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते

2.43.88

इदं स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ।
नाग्निचौरभयं तत्र पापेभ्यो ऽपि भयं नहि

2.43.89

तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ।
जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः

2.43.90

सो ऽपि तत्फलमाप्नोति गङ्गां संपूज्य भक्तितः ।
पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितम्

2.43.91

यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने ।
विधिर्यो विहितः सम्यक्सो ऽपि गङ्गाप्रपूजने

2.43.92

यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा ।
उमा यथा तथा गङ्गा चात्र भेदो न विद्यते

2.43.93

विष्णुरुद्रान्तरं यश्च गगागौर्यन्तरं तथा ।
लक्ष्मीगौर्यतरं यश्च प्रब्रूते मूढधीस्तु सः

2.43.94

शुक्लपक्षे दिवा भूमौ गङ्गायामुत्तरायणे ।
धन्या देहं विमुञ्चन्ति हृदयस्थे जनार्दने

2.43.95

ये मुञ्चन्ति नरा-प्राणान् गङ्गायां विधिनं दिनि ।
ते विष्णुलोकं गच्छन्ति स्तूयमाना दिविस्थितैः

2.43.96

अर्द्धोदकेन जाह्नव्यां म्नियते ऽनशनेन यः ।
स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च

2.43.97

या गतिर्योगयुक्तस्य सात्विकस्य मनीषिणः ।
सा गेतिस्त्यजतः प्राणान् गङ्गायां तु शरीरिणः

2.43.98

अनशनं गृहीत्वा यो गङ्गातीरे मृतो नरः ।
सत्यमेव परं लोकमाप्नोति पितृभिः सह

2.43.99

गङ्गायां मरणात्प्राणान्योः प्राज्ञस्त्यक्तुमिच्छति ।
गतानि बहुजन्मानि यत्र यत्र मृतानि च

2.43.100

महांश्चापि गतः कालो यत्र तत्रापि गच्छतः ।
अत्रदूरे समीपे च सदृशं योजनद्वयम्

2.43.101

गङ्गायां मरणेनेह नात्र कार्या विचारणा ।
ज्ञानतो ऽज्ञानतो वापि कामतो ऽपि वा

2.43.102

गङ्गायां तु मृतो मर्त्यः स्वर्गं मोक्षं च विन्दति ।
प्राणेषूत्सृज्यमानेषु यो गङ्गां संस्मरेन्नरः

2.43.103

स्पृशेद्वा पापशीलो ऽपि स वै याति परां गतिम्

2.43.104

गङ्गां गत्वा यैः शरीरं विसृष्टं प्राप्ता धीरास्ते तु देवैः समत्वम् ।
तस्मात्सुर्वान्प्रोह्य मुक्तिप्रदान्वै सेवेद्गङ्गामा शरीरस्य पातम्

2.43.105

अन्तरिक्षे क्षितौ तोये पापीयानपि यो मृतः ।
ब्रह्मविष्णुशिवैः पूज्यं पदमक्षय्यमश्नुते

2.43.106

यो धर्मिश्टश्च सप्राणः प्रयतः शिष्टसंमतः ।
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्

2.43.107

यत्र तत्र मृतो वापि मरणे समुपस्थिते ।
भक्त्या गङ्गां स्मरन्याति शैवं वा वैष्णवं पुरम्

2.43.108

शंभोर्जटाकलापात्तु विनिष्क्रान्तातिकर्कशात् ।
प्लावयित्वा दिवं निन्ये या पापान्यगरात्मजान्

2.43.109

यावन्त्यस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य वै ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते

2.43.110

गगातोये तु यस्यास्थि नीत्वा प्रक्षिप्यते नरैः ।
तत्कालमादितः कृत्वा स्वर्गलोके भवेत्स्थितिः

2.43.111

गङ्गातोये तु यस्यास्थि प्राप्यते शुभकर्मणः ।
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कथञ्चन

2.43.112

दशाहाभ्यन्तरे यस्य गङ्गातोये ऽस्थि संगतम् ।
गङ्गायां मरणे यादृक्तादृक्फलमवाप्नुयात्

2.43.113

स्नात्वा ततः पञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैर्नियोज्य ।
तदस्थिपिण्डं पुटके निधाय पश्यन् दिशं प्रेतगणोपगूढाम्

2.43.114

नमो ऽस्तु धर्माय वदन्प्रविश्य जलं स मे प्रीत इति क्षिपेच्च ।
स्नात्वा ततस्तीर्थवटाक्षयं च दृष्ट्वा प्रदद्यादथ दक्षिणां तु

2.43.115

एवं कृत्वा प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्त महेन्द्रतुल्या

2.43.116

प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी नान्यः स्वामी कदाचन

2.43.117

न तत्र प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि ।
भाद्रशुक्लचतुर्दश्यां यावदाक्रमते जलम्

2.43.118

तावद्गभं विजानीयात्तद्दूरं तीरमुच्यते ।
सार्द्धहस्तशतं यावद्गर्भस्तीरं ततः परम्

2.43.119

इति केषां मतं देवि श्रुतिस्मृतिषु संमतम् ।
तीराद्गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते

2.43.120

तीरं त्यक्त्वा वसेत्क्षेत्रे तीरे वासो न चेष्यते ।
एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयात्

2.43.121

गङ्गासीमां न लघन्ति पापान्यप्यखिलान्यपि ।
तां तु दृष्ट्वा पलायन्ते यथा सिंहं वनौकसः

2.43.122

यत्र गङ्गा महाभागे रामशंभुतपोवनम् ।
सिद्धक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम्

2.43.123

तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च ।
निमित्तेषु च सर्वेषु तन्निवृत्तो भवेन्नरः

2.43.124

तीर्थे यः प्रतिगृह्णाति पुण्येष्वायतनेषु च ।
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमुच्यते

2.43.125

गङ्गाविक्रयाणाद्देवि विष्णोर्विक्रयणं भवेत् ।
जनार्दने तु विक्रीते विक्रीतं भुवनत्रयम्

2.43.126

गङ्गा तीरसमुद्भूतां म-दं मूर्घ्ना बिभर्ति यः ।
बिभर्ति रूपं सोर्ऽकस्य तमोनाशाय केवलम्

2.43.127

गङ्गापुलिनजां धूलिमास्तीर्याथ निजान् पितॄन् ।
प्रीणयन्यो नरः पिण्डान्दद्यात्तान् स्वर्नयेदपि

2.43.128

इदं ते ऽभिहितं भद्रे गङ्गामाहात्म्यमुत्तमम् ।
पठन् शृण्वन्नरो ह्येति तद्विष्णोः परमं पदम्

2.43.129

नित्यं जप्यमिदं भक्त्या प्रयतैः श्रद्धयान्वितैः ।
वैष्णवीं गतिमिच्छद्भिः शैवीं वा विधिनन्दिनि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc