भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.42

2.42.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये दानादिविधिवर्णनं नामैकचत्वारिंशत्तमो ऽध्यायः
मोहिन्युवाच
धन्याहं कृतकृत्याहं सफलं जीवितं मम ।
यच्छ्रुतं त्वन्मुखांभोजाद्गामाहात्म्यमुत्तमम्

2.42.2

अहो गङ्गासमं तीर्थं नास्ति किञ्चिद्धरा तले ।
यस्याः संदर्शनादीनामीदृशं पुण्यमीरितम्

2.42.3

गुडधेन्वादिधेनूनां विधानं च यथाक्रमम् ।
तथा कथयविप्रेन्द्र भक्ताहं तव सर्वदा

2.42.4

वसिष्ठ उवाच
तच्छ्रुत्वा मोहिनीवाक्यं वसुस्तस्याः पुरोहितः ।
वेदागमानां तत्त्वज्ञः स्मयमान उवाच ह

2.42.5

वसुरुवाच
शृणु मोहिनि वक्ष्यामि यत्पृष्टं हि त्वया मम ।
गुडधेनुविधानं च यथा शास्त्रे प्रकीर्तितम्

2.42.6

कृष्णाजिनं चतुर्ग्रीवं विन्यसेद्भुवि ।
गोमयेनोपलिप्तायां कुशानास्तीर्य यत्नतः

2.42.7

प्रङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकाम् ।
उत्तमा गुडधेनुस्तु चतुर्भारैः प्रकीर्तिता

2.42.8

वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ।
अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु

2.42.9

चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः ।
प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तयेत्

2.42.10

न सांपरायिकं तस्य दुर्मतेर्जायते फलम् ।
धेनुवत्सौ घृतस्यैतौ सितश्लक्ष्णांबरावृतौ

2.42.11

शुक्तिकर्णाविक्षुपादौ शुद्धमुक्तालेक्षणौ ।
सितसूत्रशिरालौ च सितकंबलकंबलौ

2.42.12

ताम्रगण्डूकपृष्ठौ तौ सितचामरलोमकौ ।
विद्रुमक्रमगो पेतौ नवनीतस्तनान्वितौ

2.42.13

कांस्यदोहाविन्द्रनीलमणिकल्पिततारकौ ।
सुवर्णशृङ्गाभरणौ शुद्धरौप्यखुरावुभौ

2.42.14

नानाफलं समायुक्तौ घ्राणगन्धकरण्डकौ ।
इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत्

2.42.15

या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता ।
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु

2.42.16

देहस्था या च रुद्राणां शङ्करस्य सदा प्रिया ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु

2.42.17

विष्णोर्वक्षसि या लक्ष्मीः स्वाहारूपा विभावसोः ।
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये

2.42.18

चतुर्मुखस्य या लक्ष्मीर्लक्ष्मीर्या धनदस्य च ।
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे

2.42.19

स्वधा या पितृमुख्यानां स्वाहा यज्ञमुजा च या ।
सर्वपापहरा धेनुः सा मे शान्तिं प्रयच्छतु

2.42.20

एवमांमत्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ।
विधानमेतद्धेनूनां सर्वासामिह पठ्यते

2.42.21

यास्तु पापर्विनाशिन्यः कीर्तिता दशधेनवः ।
तासां स्वरूपं वक्ष्यामि शास्त्रोकं शृणु मोहिनि

2.42.22

प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा ।
तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिता

2.42.23

पञ्चमी क्षीरधेनुश्च षष्ठी मधुमयी स्मृता ।
सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी

2.42.24

रत्नधेनुश्च नवमी दशमी तु स्वरूपतः ।
कुंभाः स्युर्द्रवधेनूनां चेतरासां तु राशयः

2.42.25

सुर्वणधेनुमप्यत्र केचिदिच्छन्ति सूरयः ।
नवनीतेन तैलेन तथा के ऽपि महर्षयः

2.42.26

एतदेव विधानं स्यादेत एव ह्युपस्कराः ।
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि

2.42.27

यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ।
अनेकयज्ञफलदाः सर्वपापहराः शुभाः

2.42.28

अयने विषुवे पुण्ये व्यतीपाते ऽथवा पुनः ।
युगादौ चैव मन्वादौ चोपरागादिपर्वसु

2.42.29

गुडधेन्वादयो देया भक्तिश्रद्धासमन्वितैः ।
तीर्थेषु स्वगृहे वापि गङ्गातीरे विशेषतः

2.42.30

एवं दत्वा विधानेन धेनुं द्विजवराय च ।
प्रदक्षिणीकृत्य विप्रं दक्षिणाभिः प्रतोष्य च

2.42.31

ऋत्विजः प्रीतिसंयुक्तो नमस्कृत्य विसर्जयेत् ।
ततः संपूजयेद्गङ्गां विधिना सुसमाहितः

2.42.32

अष्टमूर्तिधरां देवीं दिव्यरूपां निरीक्ष्य च ।
शालितन्दुलप्रस्थेन द्विप्रस्थपयसा तथा

2.42.33

पायसं कारयित्वा च दत्वा मधु घृतं तथा ।
प्रत्येकं पलमात्रं च भक्तिभावेन संयुतः

2.42.34

तत्पायसमपूपांश्च मोदका मण्डलानि च ।
तथा गुञ्जार्द्धमात्रं च सुवर्णं रूप्यमेव च

2.42.35

चन्दनागरुकर्पूरकुङ्कुमानि च गुग्गुलम् ।
बिल्वपत्राणि दूर्वाश्च रोचना सितचन्दनम्

2.42.36

नीलोत्पलानि चान्यानि पुष्पाणि सुरभीणि च ।
यथाशक्ति महाभक्त्या गङ्गायां चैव निक्षिपेत्

2.42.37

मन्त्रेणानेन सुभगे पुराणोक्तेन चापि हि ।
ओङ्गङ्गायै नारायण्यै शिवायै च नमोनमः

2.42.38

एतदेव विधानं तु मासि मासि च मोहिनि ।
पौर्णमास्यामपायां वा कार्यं प्रातः समाहितैः

2.42.39

वर्षं यस्तु नरो भक्त्या यथा शक्त्यर्चयन्मुदा ।
हविष्याशी मिताहारो ब्रह्मचर्यसमन्वितः

2.42.40

दिने वापि तथा रात्रा नियमेन च मोहिनि ।
संवत्सरान्ते तस्येषा गङ्गा दिव्यवपुर्द्धरा

2.42.41

दिव्यमाल्यांबरा चैव दिव्यरत्नविभूषिता ।
प्रत्यक्षरूपा पुरतस्तिष्टत्येव वरप्रदा

2.42.42

एवं प्रत्यक्षरूपां तां गङ्गां दिव्यवपुर्द्धराम् ।
दृष्ट्वा स्व चक्षुषा मर्त्यः कृतकृत्यो भवेच्छुभे

2.42.43

यान्यान्कामयते मर्त्यः कामांस्तांस्तानवाप्नुयात् ।
निष्कामस्तु लभेन्मोक्षं विप्रस्तेनैव जन्मना

2.42.44

एतद्धिधानं च मयोदितं ते पृष्टं हि सर्वं गुडधेनुपूर्वम् ।
गङ्गार्चनं मुक्तिकरं व्रतं त्त सांवत्सरं श्रीपतितुष्टिदं हि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc