भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.41

2.41.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये स्थलविशेषस्नानफलकथनं नाम चत्वारिंशत्तमो ऽध्यायः
वसुरुवाच
अथावगाहनादीनां कर्मणां फलमुच्यते ।
सावधाना शृणुष्व त्वं ब्रह्मपुत्रि नृपप्रिये

2.41.2

यैः पुण्यवाहिनी गङ्गा सकृद्भक्त्यावगाहिता ।
तेषां कुलानां लक्षं तु भवात्तारयते शिवा

2.41.3

सामान्यस्थानतो देवि तत्र संध्या ह्युपासिता ।
पुण्यं लक्षगुणं कर्तुं समर्था द्विजपावनी

2.41.4

दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ।
अक्षयां तु प्रकुर्वन्ति तृप्तिं मोहिनि दुर्लभाम्

2.41.5

यावन्तश्च तिला मर्त्यार्गृहीताः पितृकर्मणि ।
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः

2.41.6

पितृलोकेषु ये केचित्सर्वेषां पितरः स्थिताः ।
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः

2.41.7

य इच्छेत्सफलं जन्म संततिं वा शुभानने ।
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा

2.41.8

ये मता दुर्गता मर्त्यास्तर्पितास्तत्कुलोद्भवैः ।
कुशैस्तिलैर्गाङ्गजलैस्ते प्रयान्ति हरेः पदम्

2.41.9

स्वर्गसस्थाश्च ये केचित्पितरः पुण्यशीलिनः ।
ते तर्पिता गाङ्गजलैर्मोक्षे यान्ति विधेर्वचः

2.41.10

मासं तर्पणमात्रेण पिण्डसंपातनेन च ।
गङ्गायां पितरः सर्वे सुप्रीताः सूर्यवर्चसः

2.41.11

अप्सरो गणणसंयुक्तान्हेमरत्नविभूषितान् ।
मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान्

2.41.12

भेरीशङ्खमृदङ्गादिनिर्घोषान्स्रग्विभूषितान् ।
गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान्

2.41.13

॥
आरुह्य तु विमानाग्र्यान्ब्रह्यलोकं प्रयान्ति हि ।
गङ्गायां तु नरः स्नात्वा यो नित्यं लिङ्गमर्चयेत्

2.41.14

एकेन जन्मना मोक्षं परमान्पोति स ध्रुवम् ।
अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः

2.41.15

गङ्गायां लिङ्गपूजायाः कोट्यंशेनापि नो समाः ।
पितॄनुदिश्य वा देवान्गङ्गांभिभिः प्रसिंचयेत्

2.41.16

तृप्ताः स्युस्तस्य पितरो नरकस्थाश्च तत्क्षणात् ।
मृत्कुंभात्ताम्रकुंभैस्तु स्नानं दशगुणं स्मृतम्

2.41.17

रौप्यैः शतगुणं पुण्यं हेमैः कोटिगुणं स्मृतम् ।
एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात्

2.41.18

पात्रां तरविशेषेण फलं चैवोत्तरोत्तरम् ।
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम्

2.41.19

न स तत्कर्मफलभाग्देवद्रोही प्रकीर्त्यते ।
देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम्

2.41.20

स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ।
प्राहुर्गङ्गाजलैः स्नानं घृतस्नानसमं बुधाः

2.41.21

अर्घ्यं द्रव्यविशेषेण गङ्गातोयेन यः सकृत् ।
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च

2.41.22

देवताभ्यः प्रदद्यात्तु स्वकीयपितृभिः सह ।
पुत्रपौत्रैश्च संयुक्तः स च वै स्वर्गमाप्नुयात् ।
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु

2.41.23

रक्तानि करवीराणि तथा वै रक्तचन्दनम् ।
अष्टाङ्गैरेष युक्तोर्ऽघो भानवे परिकीर्तितः

2.41.24

विष्णोः शिवस्य सूर्य्यस्य दुर्गाया ब्रह्मणस्तथा ।
गङ्गातीरे प्रतिष्ठां तु यः करोति नरोत्तमः

2.41.25

तथैवायतनान्येषां कारयत्यपि शक्तितः ।
अन्यतीर्थेषु करणात्कोटिगुणं भवेत्

2.41.26

गङ्गातीरसमुद्भूतमृदा लिगानि शक्तितः ।
सलक्षणानि कृत्वा तु प्रतिष्ठाप्य दिने दिने

2.41.27

मन्त्रेश्च पत्रपुष्पाद्यैः पूजयित्वा च शक्तितः ।
गङ्गायां निक्षिपेन्नित्यं तस्य पुपयमनन्तकम्

2.41.28

सर्वानन्दप्रदायिन्यां गङ्गायां यो नरोत्तमः ।
अष्टाक्षरं जपेद्भक्त्य मुक्तिस्तस्य करे स्थिता

2.41.29

नमो नारायणायेति प्रणवाद्यं नियम्य च ।
षण्मासं जपतः सर्वा ह्युपतिष्ठन्ति सिद्धयः

2.41.30

नमः शिवायेति मन्त्रं सतारं विधिना तु यः ।
चतुर्विशतिलक्षं वै जपेत्साक्षात्सशङ्करः

2.41.31

पञ्चाक्षरी सिद्धविद्या शिव एव न संशयः ।
अपवित्रः पवित्रो वा जपन्निष्पातको भवेत्

2.41.32

पूजितायां तु गङ्गायां पूजिताः सर्व देवताः ।
तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम्

2.41.33

चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् ।
रत्नकुंभसितांभोजवराभयकरं शुभाम्

2.41.34

श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् ।
सुप्रसन्नां सुवदनां करुणार्द्रहृदंबुजाम्

2.41.35

सुधाप्लावितभूपृष्ठां त्रैलोक्यनमितां सदा ।
ध्यात्वा जलमयीं गङ्गां पूजयन्पुण्यभाग्भवेत्

2.41.36

मासार्द्धमपि यस्त्वेवं नैरन्तर्येण पूजयेत् ।
स एव देवसदृशो बहुकाले फलाधिकः

2.41.37

वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा ।
क्रोधात्पीता पुनस्त्यक्ता कर्णरङ्घ्रात्तु दक्षिणात्

2.41.38

तां तत्र पूजयेद्देवीं गङ्गां गगनमेखलाम् ।
अक्षयायां तु वैशाखे कार्तिके ऽपि शुभानने

2.41.39

रात्रौ जागरणं कृत्वा यवान्नैश्च तिलैस्तथा ।
विष्णुं गङ्गां च शंभुं च पूजयेद्भक्ति भावतः

2.41.40

तथा सुगन्धैः कुसुमैः कुङ्कुमागरुमन्दनैः ।
तुलसीबिल्वपत्राद्यैर्मातुलुङ्गफलादिभिः

2.41.41

धूपैर्दीपैश्च नैवेद्यैर्यथा विभवविस्तरैः ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च

2.41.42

दिव्यं विमानमास्थाय विष्णुलोके महीयते ।
ततो महीतलं प्राप्य राजा भवति धार्मिकः

2.41.43

भुक्त्वा विविधसौख्यानि रूपशीलगुणान्वितः ।
देहान्ते ज्ञानवान्भूत्वा शिवसायुज्यमाप्नुयात्

2.41.44

यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम् ।
गङ्गायां तु कृतं सर्वं कोटिकोटिगुणं भवेत्

2.41.45

यस्त्वक्षयतृतीयायां गङ्गातीरे ददाति वै ।
घृतधेनुं विधानेन तस्य पुण्यफलं शृणु

2.41.46

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
सहस्रादित्यसंकाशः सर्वकामसमन्वितः

2.41.47

हेमरत्न मये चित्रे विमाने हंसभूषिते ।
स्वकीयपितृभिः सार्द्धं ब्रह्मलोके महीयते

2.41.48

ततस्तु जायते विप्रो गङ्गातीरे धनान्वितः ।
अन्ते तु ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः

2.41.49

तथैव गोप्रदानं च विधिना कुरुते तु यः ।
गोलोमसंख्यवर्षाणि स्वर्गलोके महीयते

2.41.50

जायते च कुले पश्चाद्धनधान्यसमाकुले ।
रत्नकाञ्चनभूपूर्णे शीलविद्यायशोन्विते

2.41.51

स भुक्त्वा विपुलान्भोगान्पुत्रपौत्रसमन्वितः ।
मोक्षभागी भवेन्नृनं नात्रकार्या विचारणा

2.41.52

कपिला यदि दत्ता स्याद्विधिना वेदपारगे ।
नरकस्थान्पितॄन्सर्वान्स्वर्गं नयति वै तदा

2.41.53

भूमिं निवर्तनमितां गङ्गातीरे ददाति यः ।
भूमिरेणुप्रमाणाब्दं ब्रह्मविष्णुशिवातिगः

2.41.54

जायते च पुनर्भूमौ सप्तद्वीपपतिर्भवेत् ।
भेरीशङ्खादिनिर्घोषैर्गीतवादित्रनिःस्वनैः

2.41.55

स्तुतिभिर्मागघानां च सुप्तो ऽसौ प्रतिबुध्यते ।
सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः

2.41.56

नरकस्थान्पितॄन्सर्वान्प्रापयित्वा दिवं तथा ।
स्वर्गस्थितान्मोक्षयित्वा स्वयं ज्ञानी च मोहिनि

2.41.57

अन्ते ज्ञानासिना छित्वा अविद्यां पञ्चपर्विकाम् ।
परं वैराग्यमापन्नः परं ब्रह्माधि गच्छति

2.41.58

सप्तहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम् ।
त्रिभागहीनं गोचर्म मानमाह विधिः स्वयम्

2.41.59

ग्रामं गङ्गातटे यो वै ब्राह्मणेभ्यः प्रयच्छति ।
ब्रह्मविष्णुशिवप्रीत्ये दुर्गाया भास्करस्य च

2.41.60

सर्वदानेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम्

2.41.61

सहस्रगुणितं तत्तु विज्ञेयं ग्रामदायिनः ।
सूर्यकोटिप्रतीकाशे विमाने वैष्णवे पुरे

2.41.62

क्रीडते शाङ्करे वापि स्तुतो देवादिभिर्मुदा ।
भूमिरेण्वब्दसंख्याकं कालं स्थित्वा च तत्र सः

2.41.63

अणिमादिगुणैर्युक्ते योगिनां जायते कुले ।
अक्षयायां तु यो देवि स्वर्णं षोडशमासिकम्

2.41.64

ददाति द्विजमुख्याय सो ऽपि लोकेषु पूज्यते ।
अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः

2.41.65

ब्राह्मं रत्नप्रदानेन गोहिरण्येन वासवम् ।
गान्धर्वं स्वर्णवासोभिः कीर्तिं कन्याप्रदानतः

2.41.66

विद्यया मुक्तिदं ज्ञानं प्राप्य यायान्निरञ्जनम् ।
गंमातीरे नरो यस्तु नानावृक्षैः समन्वितम्

2.41.67

आरामं कारयेद्भक्त्या गृहं चोपवनान्वितम् ।
कदलीनारिकेरैश्च कपित्थाशोकचंपकैः

2.41.68

पनसैर्बिल्ववृक्षैश्च कदंबाश्वत्थपाटलैः ।
आम्रैस्तालैर्नागरङ्गैर्वृक्षैरन्यैश्च संयुतम्

2.41.69

जातीविजयसंयुक्तं तथा पाटलराजितम् ।
निचितं कारयित्वैवमावासं पुष्पशोभितम्

2.41.70

शिवाय विष्णवे वापि दुर्गायै भास्कराय च ।
प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च

2.41.71

तस्य पुण्यफलं वक्ष्ये संक्षेपान्नतु विस्तरात् ।
यावन्ति तेषां वृक्षाणां पुष्पमूलफलानि च

2.41.72

बीजानि च विचित्राणि तेषां मूलानि वै तथा ।
तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc