भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.40

2.40.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते गङ्गास्नानमाहात्म्यं नामैकोनचत्वारिंशो ऽध्यायः
वसुरुवाच
अथ कालविशेषे तु गङ्गास्नानस्य ते फलम् ।
कीर्तयिष्यामि वामोरु सावधाना निशामय

2.40.2

नैरन्तर्येण गङ्गाया माघे स्नाति च यो नरः ।
सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः

2.40.3

ततो ब्रह्मपुरं याति कल्पकोटिशतायुतैः ।
नैरन्तर्येण विधिवद्गङ्गायां स्नाति यो नरः

2.40.4

षण्मास मेककालाशी सकृदेवोत्तरायणे ।
सो ऽपि विष्णुपदं याति कुलानां शतमुद्धरन्

2.40.5

संक्रान्तिषु तु सर्वासु स्नात्वा गङ्गाजले नरः ।
विमानेनार्कवर्णेन स व्रजेद्विष्णुमन्दिरम्

2.40.6

विषुवे ऽयनसंक्रान्तौ विशेषात्फलमीरितम् ।
तपःसमं कार्तिके ऽपि गङ्गास्नाने फलं विदुः

2.40.7

मेषप्रवेशार्ककाले कार्तिक्यां वापि मोहिनि ।
माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः

2.40.8

संवत्सरस्नानजन्यं फलमक्षयके तिथौ ।
कार्तिके वापि वैशाखे इति प्राह पिता तव

2.40.9

मन्वादौ च युगादौ यत्प्रोक्तं गङ्गाजले फलम् ।
स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम्

2.40.10

द्वादश्यां श्रवणर्क्षे च अष्टभ्यां पुष्ययोगतः ।
आर्द्रायां च चतुर्दश्यां गङ्गास्नानं सुदुर्लभम्

2.40.11

पूर्णिमा माधवे पुण्या तथा कार्तिकमाघयोः ।
अमावस्यास्तथैतेषां गङ्गास्नाने सुदुर्लभाः

2.40.12

कृष्णाष्टम्यां सहस्रं तु शतं स्यात्सर्वपर्वसु ।
अमायां च तथाष्टम्यां माघासितदले सति

2.40.13

अर्धोदयं तदा पर्वकिञ्चिन्न्यूनं महोदयः ।
महोदये शतगुणं लक्षमर्द्धोदये स्मृतम्

2.40.14

स्नानं गङ्गाजले देवि ग्रहणाच्चन्द्रसूर्ययोः ।
मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः

2.40.15

जन्मर्क्षे तु कृते स्नाने गङ्गायां भक्तिभावतः ।
जन्मप्रभृति पापं वै संचितं हि विनश्यति

2.40.16

चतुर्दश्यां माघकृष्णे व्यतीपातश्च दुर्लभः ।
कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले

2.40.17

माघं सकलमेवापि नरो यो विधिपूर्वकम् ।
अरुणोदयके स्नायी स तु जातिस्मरो भवेत्

2.40.18

सर्वशास्त्रार्थविज्ज्ञानी नीरोगश्च भवेद्भ्रुवम् ।
संक्रान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययोः

2.40.19

गङ्गास्नातो नरः कामाद्ब्रह्मणः सदनं लभेत् ।
इन्दोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः

2.40.20

गङ्गातीरे तु संप्राप्ता इन्दोः कोटी रवेर्दश ।
वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा

2.40.21

ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलादवतरदसौ जाह्नवी मर्त्यलोकम् ।
पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगङ्गा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च

2.40.22

महापातकसंघानि यानि पापानि संति मे ।
गोविन्दद्वादशीं प्राप्य तानि मे हन जाह्नवि

2.40.23

मघासंज्ञेन ऋक्षेण चन्द्रः संपूर्णमण्डलः ।
गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम्

2.40.24

गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ।
अथ देशविशेषेण स्नानस्य फलमुच्यते

2.40.25

कुरुक्षेत्राद्दशगुणा यत्र तत्रावगाहिता ।
कुरुक्षेत्राच्छतगुणा यत्र विन्ध्येन संयुता

2.40.26

विन्ध्याच्छतगुणा प्रोक्ता काशीपुर्यां तु जाह्नवी ।
सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु चाधिका

2.40.27

गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ।
एषु स्नाता दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः

2.40.28

गङ्गाद्वारे कुशावर्ते स्नाने पुण्यफलं शृणु ।
सप्तानां राजसूयानां फलं स्यादश्वमेधयोः

2.40.29

उषित्वा तत्र मासार्द्धं षण्णां विश्वजितां फलम् ।
दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः

2.40.30

सरोत्तमे ऽथ गोविन्दं रुद्रं कनखले स्थितम् ।
स्नात्वा वाप्येषु गङ्गायां पुण्यमक्षयमाप्नुयात्

2.40.31

तीर्थं च सौकरं नाम महापुण्यं शुभे शृणु ।
यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः

2.40.32

शतस्याग्निचितां पुण्यं ज्योतिष्टोमद्वयस्य च ।
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः

2.40.33

तत्रैव ब्रह्मणस्तीर्थे ज्योतिष्टोमायुतस्य च ।
अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः

2.40.34

कुब्जाख्यं तीर्थमनघं यत्र च व्याधयो ऽखिलाः ।
नश्यन्ति सर्वजन्मोत्थं पातकं चापि मोहिनि

2.40.35

अत्रान्यत्कापिलं तीर्थं यत्र स्नातो नरः शुभे ।
कपिलाष्टायुतस्यापि दानतुल्यफलं लभेत्

2.40.36

गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।
तीर्थे कनखले स्नात्वा धूतपापो व्रजेद्दिवम्

2.40.37

पवित्रार्थं ततस्तीर्थं सर्वतीर्थोत्तमोत्तमम् ।
द्वयोर्विश्वजितोस्तत्र स्नानात्पुण्यं लभेन्नरः

2.40.38

वेणीराज्यं ततस्तीर्थं सरयूर्यत्र गङ्गया ।
सुपुण्यया महापुण्या स्वसा स्वस्रेव संगता

2.40.39

हरेर्दक्षिणपादाब्जक्षालनादमरापगा ।
वामपादोद्भवा वापि सरयूर्मानसप्रसूः

2.40.40

तीर्थे तत्रार्चयन् रुद्रं विष्णुं विष्णुत्वमाप्नुयात् ।
पञ्चाश्वमेधफलदं स्नानं तत्र प्रकीर्तितम्

2.40.41

ततस्तु गाण्डवं तीर्थं गण्डकी यत्र संगता ।
गोसहस्रस्य दानं च तत्र स्नानं समं द्वयम्

2.40.42

रामतीर्थं ततः पुण्यं वैकुण्ठं यत्र सन्निधौ ।
सोमतीर्थं ततः पुण्यं यत्रासौ नकुलो मुनिः

2.40.43

समभ्यर्च्य शिवं ध्यायन्गणतां तु समाययौ ।
चंपकाख्यं पुण्यतीर्थं यद्गङ्गोत्तरवाहिनी

2.40.44

मणिकर्णिकया तुल्यं महापातकनाशनम् ।
कलशाख्यं ततस्तीर्थं कलशादुत्थितो मुनिः

2.40.45

अगस्त्यः पूजयन्यत्र रुद्रं मुनिवरो ऽभवत् ।
सोमद्वीपं महापुण्यं तीर्थं वाराणसीसमम्

2.40.46

सोमो यत्रार्चयन्नीशं रुद्रेण शिरसा धृतः ।
विश्वामित्रस्य भगिनी गङ्गया यत्र संगता

2.40.47

तत्राप्लुतो नरो भूयाद्वासवस्य प्रियो ऽतिथिः ।
जह्नुह्रदे महातीर्थे स्नातो मर्त्यो हि मोहिनि

2.40.48

एकविंशतिकुल्यानां तारको भवति ध्रुवम् ।
तस्माददितितीर्थं च यत्रावापादितिर्हरिम्

2.40.49

कश्यपात्तत्र सुभगे स्नानमाहुर्महोदयम् ।
शिलोच्चयं महातीर्थं यत्र तप्त्वा तपः प्रजाः

2.40.50

तृणादिभिः सह स्वर्गं यान्ति तीर्थगणाश्रयात् ।
इन्द्राणीनामतीर्थं स्याद्यत्रेन्द्राणी तु वासवम्

2.40.51

तपस्तप्त्वा पतिं लेभे सेव्यमेतत्प्रयागवत् ।
पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन्

2.40.52

यत्र ब्रह्मर्षितां लेभे क्षत्त्रियस्तीर्था सेवया ।
प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः

2.40.53

प्रद्युम्ननामा पुत्रो ऽभूत्परं तत्र महोदयम् ।
ततो दक्षप्रयागं तु गङ्गातो यमुनागत

2.40.54

स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc