नारद पुराण · अध्याय 2.4
इति श्रीबृहन्नारदीयपुराणोत्तरे भागे यमस्य ब्रह्मलोकगमनं नाम तृतीयो ऽध्यायः
यम उवाच
शृणु मे वचनं नाथ पितामह पितामह ।
मरणादधिकं देव यत्प्रतापस्य खण्डनम्
निस्पृहो नाचरेद्यस्तु नियोगं पद्मसंभव ।
अन्धकूपे निपतति स चाशु नरके ध्रुवम्
नियोगी न नियोगं यः करोति कमलासन ।
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः
यो ऽश्नाति लोभाद्वित्तानि प्रजाभ्यो वा महीपतेः ।
नियोगी नरकं याति यावत्कल्पशतत्रयम्
आत्मकार्यपरो यस्तु स्वामिनं च विलुंपति ।
भवेद्वेश्मनि मन्दात्मा आखुः कल्पशतत्रयम्
नियोगी यस्तु वै भूत्वा आत्मवेश्मनि भोक्ष्यति ।
भृत्यान्वै कर्मकरणे राज्ञो मार्जारतां व्रजेत्
सो ऽहं देव तवादेशात् प्रजा धर्मेण शासयन् ।
पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा
सम्यग्विचार्य मुनिभिर्घर्मशास्त्रादिभिर्विभो ।
कल्पादौ वर्तमानस्य यावद्यावद्दिनं तव
सो ऽहं त्वदीयेन विभो नियोगेनैव शक्नुयाम् ।
कर्तुं रुक्माङ्गदेनाद्य पराभूतो हि भूभुजा
भयाद्यस्य जगन्नाथ पृथिवी सागरांबरा ।
न भुङ्क्ते वासरे विष्णोः सर्वपापप्रणाशने
विहाय सर्वधर्मांस्तु विहाय पितृपूजनम् ।
विहाय देवपूजां च तीर्थस्नानादिकस्त्रियाम्
योगसांख्यावुभौ त्यक्त्वा ज्ञानं ज्ञेयं च मानद ।
त्यक्त्वा स्वाध्यायहोमांश्च कृत्वा पापानि भूरिशः
प्रयान्ति वैष्णवं लोकमुपोष्य हरिवासरम् ।
मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः
तेषामपीह पितरः पितॄणां पितरस्तथा ।
तथा मातामहा यान्ति मातुर्ये जनकादयः
तेषामपि जनेतारो जनितॄणां हि पूर्वजाः ।
एतद्दुःखं पुनर्देव मम मर्मविभेदनम्
प्रियायाः पितरो यान्ति मार्जयित्वा लिपिं मम ।
पितॄणां बीजतो यस्माद्धात्र्या कुक्षौ धृतो यतः
यदेकः कुरुते कर्म तदेकेनैव भुज्यते ।
ततो ऽन्यस्य कृतं ब्रह्मन्बीजं धात्रीसमुद्भवम्
तारयेत्स उभौ पक्षौ यत्पिण्डो यस्य विग्रहः ।
न भार्याया भवेद्वीजं न भार्या कुक्षिधारिणी
कथं तस्या जगन्नाथ पक्षो याति परं पदम् ।
जामातुः पुण्यमाहात्म्यत्तिन मे शिरसो रुजा
न मे प्रयोजनं देव नियोगेनेदृशेन वै ।
एकादश्युपवासी यः स मां त्यक्त्वा व्रजेद्धरिम्
कुलत्रयं समुद्धृत्य आत्मना सह पद्मज ।
त्यक्त्वा तु मामकं मार्गं प्रयाति हरिमन्दिरम्
न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः ।
न तीर्थैर्नापि दानैर्वा न व्रतैर्विष्णुवर्जितैः
न जले पावके वापि मृतः प्राप्नोति तां गतिम् ।
योगेन संप्रणष्टो वा भृगुपातेन वा विधे
तादृशीं न गतिं याति यादृशीं वैष्णवव्रती ।
गतिं मतिमतां श्रेष्ठ सत्यमेतदुदीरितम्
हरेर्दिने धातृफलाङ्गलिप्तो विमुक्तवाञ्छारसभोजनो नरः ।
प्रयाति लोके धरणीधरस्य विदुष्टकर्मापि मनुष्यजन्मा
सो ऽहं निराशो भुवि हीनकर्मा तवागतः पादसरोजयुग्मम् ।
विज्ञप्ति मात्राभयदाप्तिकालं कुरुष्व सर्गस्थितिनासहेतोः
मास्युस्तदा पापकृतो विहीना यन्मामकैर्भूतगणैर्मनुष्याः ।
नियन्त्रिताः शृङ्खलरज्जुबन्धनैः समीपगा मे वशगा भवेयुः
भग्नस्तु मार्गो रवितापयुक्तो यद्विष्णुसंघैरतितीव्रहस्तैः ।
विमुच्य कुंभीं सकलो जनौघः प्रयाति तद्धाम परात्परस्य
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0