नारद पुराण · अध्याय 2.31
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलाचरितं नाम त्रिंशत्तमो ऽध्यायः
वसिष्ठ उवाच
तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते ।
सन्ध्यावली नाम भृशं तामुवाच ह सादरम्
त्वद्वाक्याद्विस्मयो जातः काष्ठीले सांप्रतं मम ।
कथं दृष्टा मया त्वं च यास्यन्ती कुत्सितां गतिम्
कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः ।
तन्मे वद विशालाङ्गे त्वां दृष्ट्वा दुःखिता ह्यहम्
मांसपिण्डोपमं श्लक्ष्णं नवनीतोपमं शुभे ।
शरीरं तव संवीक्ष्य तया मे जायते हृदि
काष्ठीलोवाच
पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते ।
तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः
येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात् ।
तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय
यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः ।
यस्मिन् क्रोशन्ति पापानि ब्रह्महत्यादिकानि च
दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम् ।
दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम्
दुर्लभो वासरो विष्णोर्विधिना समुपोषितः ।
देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले
तस्माज्जलं माघमासे पावनं हि विशेषतः ।
नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा
यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः ।
सरित्तडागवापीषु स्नाने सत्तममीरितम्
कूपभाण्डजलैर्मध्यं जघन्यं वह्नितापितैः ।
न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत्
धर्म्मसेवार्थकं स्नानं नाङ्गनैर्मल्यहेतुकम् ।
होमार्थं सेवनं वह्नेर्न च शीतादिहानये
यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते ।
आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत्
अभावे सरिदादीनां नवकुंभस्थितं जलम् ।
वायुना ताडितं रात्रौ स्नाने गङ्गासमं विदुः
माघस्नायी वरारोहे दुर्गतिं नैव पश्यति ।
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत्
अग्निप्रवेशादधिकं माघोषस्येव मज्जनम् ।
जीवता भुज्यते दुःखं मृतेन बहुलं सुखम्
एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते ।
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः
मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे ।
यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः
माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम् ।
सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः
वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत् ।
त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः
भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः ।
तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित्
स्रोतोमुखः सरिति चान्यत्र भास्करसंमुखः ।
स्नायादावाह्य तीर्थानि गङ्गादीन्य कर्मण्डलात्
यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम् ।
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा
दिवाकर जगन्नाथ प्रभाकर नमो ऽस्तु ते ।
परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत
तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः ।
तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम्
माघस्य धवले पक्षे भवेदेकादशी तु या ।
रविवारेण संयुक्ता महापातकनाशिनी
विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम् ।
विनिर्दहति पापानि कुनृपो विषयं यथा
कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा ।
अधर्मस्तु यथा धर्मं कुमन्त्री नृपतिं यथा
अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा ।
यथा हन्त्यनृतं सत्यं वादस्संवादमेव च
उष्णं हिममनर्थोर्ऽथं पापं कीर्तिं स्मयस्तपः ।
यथा रसा महारोगाञ्छ्राद्धं संकेत एव च
तथा दुरितसंघं तु द्वादशी हन्ति साधिता ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम् ।
समवेतानि चैतानि न शामयति पुष्करम्
न चापि नैमिषारण्यं न क्षेत्रं कुरुसंज्ञितम् ।
प्रभासो न गया देवि न रेवा न सरस्वती
न गगा यमुना चैव प्रयागो न च देवका ।
न सरांसि नदाश्चान्ये होमदानतपांसि च
न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम् ।
पापसंघविनाशाय मुक्त्वैकं हरिवासरम्
उपोषणात्सकृद्देवि विनश्यन्त्यघराशयः ।
एकतः पृथिवीदानमेकतो हरिवासरम्
न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम् ।
तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम्
घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे ।
सर्वबीजान्विते चैव सितवस्त्रावगुण्ठिते
सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके ।
विधिना पूजयित्वा चकुर्याज्जागरणं व्रती
प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुंबिने ।
तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम्
पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः ।
एवं कृते वरारोहे न भूयो जायते क्वचित्
बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत् ।
तत्सर्वं नाशमायाति तमः सूर्योदये यथा
यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे ।
या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि
यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति ।
भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी
तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात् ।
तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम्
वित्ताह्रुतिजं पापं यद्भूतं मम सुंदरि ।
तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे
जीवितेनापि वित्तेन भर्तारं वञ्चयेत्तु या ।
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा
सुरतं याचमानाय पत्ये वित्तं च मानिनि ।
या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम्
तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम् ।
तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा
एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने ।
पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च
यत्कृतं हि मया पूर्वमेकादश्या मुपोषणम् ।
तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम्
पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम् ।
एवमुक्ते तु वचने मया विद्युत्समप्रभा
दृष्टा दिव्यविमानस्था गच्छन्ती वैष्णवं पदम् ।
पतिर्हि दैवतं लोके वञ्चनीयो न भार्यया
देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम् ।
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम्
वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने ।
किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना
तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने ।
कल्पकोटिशतं साग्रं विष्णुलोके महीयते
अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा ।
पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा
एतन्मया दुष्टमनङ्गयष्टि कौमारभावे पितृवेश्मवासे ।
ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0