भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.30

2.30.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने राक्षसीचरिते काशीवर्णनं नाम एकोनत्रिंशो ऽध्यायः
काष्ठीलोवाच
भार्यायास्तद्वचः श्रुत्वा राक्षस्या धर्मसंमितम् ।
पृष्ठात्करोणुरूपिण्याः सकन्यो ऽवातरद्द्विजः

2.30.2

अवतीर्णे द्विजे साभूत्सुरूपा प्रमदा पुनः ।
क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी

2.30.3

सा कुमारी ततः प्राप्य नगरं स्वपितुः शुभम् ।
बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह

2.30.4

गच्छ त्वं नृपतेः पार्श्वं पितुर्मम पुराधिप ।
ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम्

2.30.5

रत्नावलिं रत्नभूतां सुद्युम्नस्य महीक्षितुः ।
तल्पस्था रक्षसा रात्रौ स्वपुरस्था हृता द्विज

2.30.6

पुनः सा समनुप्राप्ता जीवमानाक्षता पितः ।
समाश्वसिहि शोकं त्वं मा कृथा मत्कृते क्वचित्

2.30.7

अविप्लुतास्मि राजेन्द्र गाङ्गा आप इवामलाः ।
तव कीर्तिकरी तद्वन्मातुः सौशील्यसूचिका

2.30.8

तत्कुमारीवचः श्रुत्वा पुरापालस्त्वरान्वितः ।
अबाहुरिति विख्यातः प्राप्तः सुद्युम्रसन्निधौ

2.30.9

कृतप्रणामः संपृष्टः प्राह राजानमादरात् ।
राजन्नुपागता नष्टा दिहिता तव मानद

2.30.10

रत्नावलीति विख्याता सस्त्रीकद्विदजसंयुता ।
पुरबाह्ये स्थिता दृष्टा मया ज्ञाता न चाभवत्

2.30.11

तयाहं प्रेरितः प्रागां त्वां विज्ञापयितुं प्रभो ।
अविप्लुताहं वदति मां जानातु समागताम्

2.30.12

पितरं मम सत्कृत्यै नात्र कार्या विचारणा ।
तदद्भुतं वचः श्रुत्वा पुरपालस्य तत्क्षणात्

2.30.13

सामात्यः सकलत्रस्तु सद्विजो निर्ययौ नृपः ।
स तु गत्वा पुराद्ब्राह्ये गङ्गातीरे व्यवस्थिताम्

2.30.14

अपश्यद्भास्कराकारां सस्त्रीकद्विजसंयुताम् ।
सहजे नैव वेषेण भूषितां भूषणप्रियाम्

2.30.15

अम्लानकुसुमप्रख्यां तत्पकाञ्चनसुप्रभाम् ।
दूराद्दृष्ट्वान्तिकं गत्वा पर्यष्वजत भूपतिः

2.30.16

पितरं सापि संहृष्टा समाश्लिष्य ननाम ह ।
ततश्च मात्रा संगम्य हृष्टया हर्षितान्तरा

2.30.17

प्राह वाक्यं विशालाक्षी संबोध्य पितरं नृपम् ।
सुप्ताहं रत्नशालायां सखीभिः परिवारिता

2.30.18

उदकूकृत्वा शिरस्ताताधौताङ्घ्रिर्मञ्चकोपरि ।
चिन्तयत्नी भर्तृयोगं निशीथे रक्षसा हृता

2.30.19

स मां गृहीत्वा स्वपुरं प्रागादर्णवगे गिरौ ।
नानारत्नमये तत्र गुहायां स्थापिता ह्यहम्

2.30.20

स तत्रोद्वहनोपायचिन्तयान्तर्व्यवस्थितः ।
तस्य भार्या त्वियं सुभ्रूर्या तिष्ठति सुमध्यमा

2.30.21

बिभ्रती मानुषं रूपं राक्षसी राक्षसप्रिया ।
अनया बुद्धियोगेन शक्त्या शक्रस्य भूपते

2.30.22

घातितो विप्रहस्तेन क्रूरकर्मा पतिः स्वकः ।
पुरैव मम तं शैलं प्राप्तो देवेन भूसुरः

2.30.23

इयं तु राक्षसी दृष्ट्वा पतिं स्वं धर्मदूषकम् ।
विप्रेण संविदं कृत्वा दांपत्ये निजकर्मणा

2.30.24

रूपेणाप्यस्य संमुग्धा घातयामास राक्षसम् ।
एवं कृत्वा पतिं विप्रं हस्तिनीरूपधारिणी

2.30.25

गृहीत्वा वास्तुकं वित्तं पृष्ठमारोप्य मामपि ।
समायातात्र भूपाल मामत्तुं तव मन्दिरम्

2.30.26

अनया रक्षिता राजन् राक्षस्याराक्षसात्ततः ।
तस्मादिमां पूजयस्व सत्कृत्याग्रजसंयुताम्

2.30.27

अस्या एवामुमत्या मां देह्यस्मै ब्राह्मणाय हि ।
अनेनैकासनगता जाता भर्ता स मे भवत्

2.30.28

येनैकासनगा नारी भवेद्भर्ता स एव हि ।
नान्य इत्थं पुराणेषु श्रूयते ह्यागमेष्वपि

2.30.29

अस्याः पृष्ठे निविष्टाहं प्रीत्या सह द्विजन्मना ।
धर्मत स्तेन मद्भर्ता भवेदेषा मतिर्मम

2.30.30

तस्मादिमां सांत्वयित्वा शास्त्रागमविधानतः ।
देहि विप्राय मां तात पितमन्यं वृणे न च

2.30.31

तच्छ्रुत्वा दुहितुर्वाक्यं सुद्युम्नो भूपतिस्तदा ।
सांत्वयामास तन्वङ्गीं राक्षसीं प्रश्रयानतः

2.30.32

सुतैषा धर्मभीता मे त्वामेव शरणं गता ।
यदर्थं निहतः कान्तस्त्वया पूर्वतरः सति

2.30.33

त्वदधीना ततो भद्रे जातेयं मत्सुता किल ।
इममिच्छति भर्तारं यो ऽयं भर्ता कृतस्त्वया

2.30.34

मया प्रणामदानाभ्यां याचिता त्वं निशाचरि ।
अनुमोदय साहाय्ये सुतां मम सुलोचने

2.30.35

त्वद्वाक्याद्भवतु प्रेष्या मत्सुता ब्राह्मणस्य तु ।
सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय

2.30.36

सुताया मम भार्याया मद्बलस्य जनस्य च ।
पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः

2.30.37

तव वाक्ये स्थिता ह्येषा सदैवापि भविष्यति ।
एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी

2.30.38

अन्वमोदत शुद्धेन चेतसा सहचारिणी ।
उवाच च धरापालं प्रदानाय कृतोद्यमम्

2.30.39

यदर्थं प्रणतस्त्वं मां सद्भावेन नृपोत्तम ।
तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः

2.30.40

अहं च भवता पूज्या कृत्वार्चां देवमन्दिरे ।
सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले

2.30.41

सप्ताहमुत्सवः कार्यो ह्यष्टम्या आचतुर्दशीम् ।
नटनर्तकयुक्तेन गीतवाद्येन भूरिणा

2.30.42

मैरेयमांसरक्तादिबलिभिश्चापि पूजया ।
एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम्

2.30.43

भवेयं नृपशार्दूल स्वं वचः प्रतिपालय ।
तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा

2.30.34

अङ्गीचकार तत्सर्वं यदुक्तं प्रीतया तया ।
प्रतिपन्ने तु वचसि राज्ञा तुष्टा तु राक्षसी

2.30.45

उवाच ब्राह्मणं प्रेम्णा कुरु भार्यामिमामपि ।
राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम्

2.30.46

ईर्ष्यां त्यक्त्वा विशालाक्ष्या भवाम्येषा सहोदरी ।
राक्षस्या वचनेनेह परिणीय नृपात्मजाम्

2.30.47

बहुवित्तयुतां विप्रो महोदयपुरं ययौ ।
आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः

2.30.48

ततो मया श्रुतं देवि भर्ता ते समुपागतः ।
धनरत्नसमायुक्तो भार्याद्वयसमन्वितः

2.30.49

ततो ऽहं बन्धुवर्गेण पितृभ्यां च सखीगणैः ।
बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः

2.30.50

कथं यास्यसि भर्तारं धनलुब्धे श्रिया वृतम् ।
यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत्

2.30.51

चञ्चलानीह वित्तानि पित्र्याणि किल योषिताम् ।
कान्तार्जितानि सुभगे स्थिराणीति निगद्यते

2.30.52

परुषैर्वचनैर्यस्तु क्षिप्तस्तद्भाषणं कथम् ।
भविष्यति प्रवेशो ऽपि दुष्करस्तस्य वेश्मनि

2.30.53

गताया अपि ते तत्र शयनं पतिना सह ।
भविष्यति दुराचारे सुखदं न कदाचन

2.30.54

लोकापवादाद्यदि चेद्ग्रहीष्यति पतिस्तव ।
त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति

2.30.55

नेदृशं दुःखदं किञ्चिद्यादृशं दूरचित्तयोः ।
दंपकत्योर्मिलनं लोके वैकल्यकरणं महत्

2.30.56

एवं बहुविधा वाचः शृण्वाना बन्धुभाषिताः ।
अधोमुख्यस्रुपूर्णाक्षी बभूवाहं सुदुःखिता

2.30.57

चेतसार्चितयं चाहं पूर्वलोभेन मुह्यती ।
न दत्तं कङ्कणं पाणेर्न दत्तं कटिसूत्रकम्

2.30.58

न चापि नूपुरे दत्ते येन तुष्टिं व्रजेत्पतिः ।
धनजीवितयोः स्वामी भर्ता लोकेषु गीयते

2.30.59

तन्मयापहृतं वित्तं भवित्री का गतिर्मम ।
कथं यास्यामि तद्वेश्म कथं संभाषये पुनः

2.30.60

यो मया दुष्टया त्यक्तः स प्रत्येति कथं हि माम् ।
एवं विचिंये यादद्धृदयेन विदूयता

2.30.61

वेष्टिता बन्धुवर्गेण तावद्दोला समागता ।
छत्रेण शशिवर्णेन शोभमाना सुकोमला

2.30.62

आस्तृता राङ्कवैः पीनैः पुरुषोर्विधृतांसकैः ।
ते समागत्य पुरुषाः प्रोचुर्मामसकृच्छभे

2.30.63

आकारितासि पत्या ते व्रज शीघ्रं मुदान्विता ।
धनरत्नयुतो भर्ता सद्धिभार्यः समागतः

2.30.64

प्रविष्टमात्रेण गृहे त्वामानेतुं वरानने ।
प्रेषिताः सत्वरं पत्या संस्थितां पितृवेश्मनि

2.30.65

ततो ऽहं व्रीडिता देवि भर्तुस्तद्वीक्ष्य चेष्टितम् ।
नैवोत्तरमदां तेभ्यः किञ्चिन्मौनं समास्थिता

2.30.66

ततो ऽहं बन्धुवर्गेण भूयोभूयः प्रबोधिता ।
आहूता स्वामिना गच्छ सम्मानेन तदन्तिकम्

2.30.67

स्वामिनाकारिता पत्नी या न याति तदन्तिकम् ।
सा तु ध्वाङ्क्षी भवेत्पुत्रि जन्मानि दश पञ्च च

2.30.68

एवमुक्त्वा समाश्वास्य मां गृहीत्वा त्वरान्विताः ।
दोलामारोप्य गच्छेति प्रोचुः स्निग्धा मुहुर्मुर्हुः

2.30.69

ततस्ते पुरुषा दोलां निधायांसेषु सत्वरम् ।
जग्मुर्महोदयपुरं यत्र तिष्ठति मे पतिः

2.30.70

दृष्टं मया गृहं तस्य सर्वतः काञ्चनावृतम् ।
आसनीयैश्च भोज्यैश्च धनैर्वस्त्रैर्युतं ततः

2.30.71

अथ सा राक्षसी देवी सा चापि नृपनन्दिनी ।
प्रीत्या च भक्त्या कुरुतां प्रणतिं मम सुन्दरि

2.30.72

ततस्ताभ्याममहं प्रेम्णा यथार्हमभिपूजिता ।
भर्तृवाक्येन संप्रीता स्नात्वाभुजं तथाहृता

2.30.73

ततो ऽस्तसमयात्पश्चाद्भर्ता चाहूय सत्वरम् ।
परिष्वज्य चिरं दोर्भ्यां पर्यङ्के संन्यवेशयत्

2.30.74

ततो निशाचरीं राजपुत्रीं चाहूय सो ऽब्रवीत् ।
भक्त्या युवाभ्यां कर्तव्यमस्याश्चरणसेवनम्

2.30.75

इयं प्राक्कालिकी भार्या ज्येष्ठा च युवयोर्द्भुवम् ।
पत्युर्वाक्यात्ततस्ताभ्यां गृहीतौ चरणौ मम

2.30.76

सापत्नभावजामीर्ष्यां परित्यज्य सुलोचने ।
ततः प्रेष्यान्समाहूय भर्ता मे वाक्यमब्रवीत्

2.30.77

यत्किञ्चिद्रक्षसः पार्श्वान्मया प्राप्तं पुरा वसु ।
सुतामुद्वहतो राज्ञो यच्च लब्धं मयाखिलम्

2.30.78

तत्सर्वं भक्तिभावेन समानयत मा चिरम् ।
इयं हि स्वामिनी प्राप्ता तस्य वित्तस्य किङ्कराः

2.30.79

तद्वाक्यात्सहसा प्रेष्यैः समानीतं धनं शुभे ।
भर्ता समर्पयामास प्रीत्या युक्तो ऽखिलं तदा

2.30.80

सत्कृत्य भूषणैर्वस्त्रैख्यलीकेन चेतसा ।
उभयोस्तत्र पश्यन्त्यो राक्षसीराजकन्ययोः

2.30.81

पर्यङ्कस्थां परिष्वज्य मां चुञ्चुबाधरे शुभे ।
तद्दृष्ट्वा चाद्भुतं भर्तुर्देहवित्तसमर्पणम्

2.30.82

उल्लासकरण वाक्यं करेण कुचपीडनम् ।
छिन्ना गौरिव खङ्गेन गताः प्राणा ममाभवन्

2.30.83

ततो ऽहं यमनिर्द्दिष्टां प्राप्ता नरकयातनाम् ।
तामतीत्य सुदुःखार्ता काष्ठीला चाभवं शुभे

2.30.84

यास्यामि पुनरेवाहं तिर्यग्योनिं सहस्रशः ।
या भर्तुर्नापयेद्वित्तं जीवितं च शुभानने

2.30.85

सापीदृशीमवस्था वै यास्यत्येव न संशयः ।
एवं ज्ञात्वानिशं रक्षेत्पत्युर्वित्तं च जीवितम्

2.30.86

पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः

2.30.87

प्रयाति नारी बहुभिः सुपुण्यैः सहैव भर्त्रा स्वशरीरदाहात् ।
विष्णोः पदं वित्तशरीरलुब्धा प्रयाति यामीं च कुयोनिपीडाम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc