भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.20

2.20.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रणयवर्णनं नामैकोनविंशो ऽध्यायः
वसिष्ठ उवाच
एवं सुरतमूढस्य राज्ञो रुक्माङ्गदस्य च ।
त्रीणि पञ्च च वर्षाणि व्यतीतानि सुखेन वै

2.20.2

संप्राप्ते नवमे वर्षे पुत्रो धर्माङ्गदो बली ।
जित्वा विद्याधरान्पञ्च मलये पर्वतोत्तमे

2.20.3

आजहार मणीन्पञ्च सर्वकामप्रदान् शुभान् ।
एकं काञ्चनदातारं कोटिकोटिगुणं शुभम्

2.20.4

द्वितीयं वस्त्रभूषादिलक्षकोटिप्रदं तथा ।
तृतीयममृतस्रावि पुनर्यौवनकारकम्

2.20.5

सभागृहप्रकर्तारं चतुर्थं चान्नसाधकम् ।
पञ्चमं व्योभगतिदं त्रैलोक्यपरिसर्पणम्

2.20.6

तान्मणीन्गृह्य मनसा विद्याधरसमन्वितः ।
स्त्रीभिर्विद्याधराणां च साश्रुनेत्राभिरावृतः

2.20.7

ववन्दे चरणौ मातुः पितू रुक्माङ्गदस्य च ।
मणीन्पञ्च समर्प्याथ पादयोः प्राह संनतः

2.20.8

इमे जिता मया तात पञ्च विद्याधरा रणे ।
मलये भूधरश्रेष्ठे वैष्णवास्त्रेण भूपते

2.20.9

इमे ते भृत्यतां प्राप्ताः सस्त्रीका नृपसत्तम ।
मणीन्प्रयच्छ मोहिन्यै भुजभूषणहेतवे

2.20.10

सर्वकामप्रदा ह्येते पुनर्यौवनकारिणः ।
जीर्णदन्ताः पुनर्बाला भवन्ति मणिधारणात्

2.20.11

वस्त्रहर्म्यसुवर्णानां स्वर्गतेरमृतस्य च ।
दातारो मासयुद्धेन साधितास्तव तेजसा

2.20.12

साधितानि मया कृच्छ्रात्सप्तद्वीपानि भूपते ।
करदानिसमस्तानि कृतानि तव तेजसा

2.20.13

समुद्रे च प्रविष्टस्य गतः संवत्सरो मम ।
जिता भोगवती तात मया नागसमावृता

2.20.14

आहृता नागकन्याश्च मया चायुतसंख्यकाः ।
तत्रापि हाररत्नानि सुबहून्याहृतानि च

2.20.15

पुनश्चाहं गतस्तात दानवानां पुरं महत् ।
तान्निर्जित्यं च कन्यानां सुरूपाणां सुवर्चसाम्

2.20.16

आहृतानि मया त्रीणि सहस्राणि च पञ्च च ।
दशकोट्यस्तु रत्नानां दीपकर्म निशागमे

2.20.17

कुर्वतां ते महीपाल आनीतास्तव मन्दिरे ।
ततो ऽहं वारुणं लोकं रसातलतलस्थितम्

2.20.18

गतो वीर्यबलोत्सिक्तस्त्वदङ्घ्रियुगसेवकः ।
तत्रोक्तो वरुणो देवः स्थीयतां मत्पिन्तुर्वशे

2.20.19

रुक्माङ्गदस्य नृपतेर्यदि जीवितुमिच्छसि ।
कुपितो मम वाक्येन वरुणो योद्धुमागतः

2.20.20

तेन संवत्सरं युद्धं घोरं जातं रसातले ।
जितो नारायणास्त्रेण मया स जलनायकः

2.20.21

न हतः प्रमदावाक्यैस्तस्य जीवितरक्षणे ।
निर्जितेनायुतं दत्तं वाजिनां वातरंहसाम्

2.20.22

एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ।
तृणतोयविहीना ये जीवन्ति बहुशः समाः

2.20.23

एकां कन्यां सुरूपां मे पुरस्कृत्य स्वलङ्कृताम् ।
भार्यार्थे वरुणः प्रादात्साप्यानीता मया शुभा

2.20.24

कुमारी तु समानीताः बहुवित्तसमन्विता ।
तन्निस्ति त्रिषु लोकेषु स्थानं तात सुदुर्गमम्

2.20.25

यन्मया न जितं ह्यस्ति तवाङ्घ्रिपरिसेवनात् ।
तदुत्तिष्ठ परीक्षस्व त्वत्प्रसादार्जितां श्रियम्

2.20.26

अहं च संपदः सर्वास्त्वदधीना विशांपते ।
यः पुत्रस्तात वदति मया लक्ष्मीः समर्जिता

2.20.27

न देया भूमिदेवेभ्यः सो ऽपि वै नरकं व्रजेत् ।
आत्मसंभावनं तात न कर्तव्यं सुतेन हि

2.20.28

कुठारदात्रसदृशः पुत्रः संपत्समुच्चये ।
पितुः शौर्येण पुत्रस्य वर्द्धते धनसंचयः

2.20.29

तैजसं दात्रमादाय लुनाति तृणसंचयान् ।
वायुना पूरितं वस्त्रं तारयेन्नौगतं जले

2.20.30

यथा दारुमयी योषा चेष्टते कुहकेच्छया ।
तथाहि पितृवीर्येण पुत्रास्तेजोबलान्विताः

2.20.31

तस्मादियं माधवदेववल्लभा विलोकयस्वाद्य मयोपनीता ।
आत्मेच्छया यच्छतु रक्षताद्वा स्वसंपदो मातृसमूहवर्याः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc