नारद पुराण · अध्याय 2.19
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मातृसन्मानं नाम अष्टादशो ऽध्यायः
वसिष्ठ उवाच
सो ऽनुज्ञातो महीपालः प्रियाभिः प्रियकामुकः ।
प्रहर्षमतुलं लेभे धर्माङ्गदमुवाच ह
एतां द्वीपवतीं पृथ्वीं परिपालय पुत्रक ।
कृत्वा दुष्टवधं त्वादावप्रमत्तः सदोद्यतः
सदावसरसंयुक्तः सदाचारनिरीक्षकः ।
सदा चेतनसंयुक्तः सदा वाणिज्यवल्लभः
सदा भ्रमणशीलश्च सदा दानरतिर्भव ।
सदा कौटिल्यहीनश्च सदाचाररतः सदा
अपरं शृणु मे पुत्र यत्कर्त्तव्यं त्वयाधुना ।
अविश्वासस्तु सर्वत्र भूमिपानां प्रशस्यते
कोषस्य च परिज्ञानं जनानां जनवल्लभ ।
रसवद्द्रव्यमाकर्षेः पुष्पेभ्य इव षट्पदः
त्वया पुत्रेण संप्राप्तं पुनरेवेह यौवनम्
इमामपूर्वां वररूपमोहिनीं संप्राप्य भार्यां द्विजराजवक्त्राम् ।
सुखेन संयोज्य च ते ऽद्य भारं सप्तोदधिद्वीपभवं प्ररंस्ये
व्रीडाकरस्तात मनुष्यलोके समर्थपुत्रे सुरताभिकामी ।
भवेत्पिता चेद्ब्रलिभिश्च युक्तो जीर्णद्विजः श्वेतशिरोरुहश्च
जीर्णो ऽप्यजीर्णस्तव सौख्यवृद्धो वाञ्छे इमां लोकवरां वरार्हाम् ।
संत्यज्य देवान्मम हेतुमागतामनङ्गबाणाभिहतां सुनेत्राम्
कामं रमिष्ये द्रुतकां चनाभां ह्येकान्तशीलः परिपूर्णचेताः ।
भूत्वा तु गुप्तो वननिर्झरेषु रम्येषु दिव्येषु नदीतटेषु
इयं पुरन्ध्री मम जीविताधिका सुखेन धार्या त्रिदिवैकनारी ।
अस्यास्तु हेतोर्विबुधा विमूढा यथा रमायै धरणीशसंघाः
तद्वाक्यमाकर्ण्य पितुः सुबुद्धिः प्रणम्य भक्त्या जननीसमेतम् ।
नृपोत्तमं तं नृपनन्दनो ऽसौ दिदेश भोगार्थमनेकवित्तम्
आज्ञाविधेयांस्तु पितुर्नियोज्य दासांश्च दासीश्च हिरण्यकण्ठीः ।
मत्स्यध्वजार्त्तस्य सुखाय पुत्रस्ततो महीरक्षणमाचचार
नृपैस्तुतो धर्मविभूषणो ऽसौ समावृतो द्वीपवतीं समग्राम् ।
तस्येत्थमुर्वीं चरतश्च भूप न पापबुद्धिं कुरुते जनैघः
न चापि वृक्षः फलपुष्पहीनो न क्षेत्रमासीद्यवशालिहीनम् ।
स्रवन्ति गावो घटपूरदुग्धं घृताधिकं शर्करवत्सुमिष्टम्
क्षीरं सुपेयं सकलार्तिनाशनं पापापहं पुष्टिविवर्धनं च ।
जनो न कश्चिद्विभवस्य गोप्ता भर्तुहिं भार्या न कटूक्तिवादिनी
पुत्रो विनीतः पितृशासने रतो वधूः स्थिता हस्तपुटे च श्वश्रोः ।
द्विजोपदेशे हि जनो व्यवस्थितो वेदोक्तधर्माचरणाद्द्विजोत्तमाः
न भुञ्जते माधववासरे जना न यान्ति शोषं भुविः निम्नगास्तु ।
संभुज्य माना नहि यान्ति संपदः संभोगयुक्तैरपि मानवैः क्षयम्
विवृद्धिमायान्ति जलैरिवोर्द्ध्वं दूर्वातृणं शाद्वलतामुपैति ।
कृती च लोको ह्यभवत्समस्तो धर्माङ्गदे पालनसंप्रवृत्ते
भुक्त्वा तु सौख्यानि च यान्ति मानवा हरेः पदं तद्दिनसेवनेन ।
द्वाराणि सध्वान्तनिशासु भूप गुप्तानि कुर्वन्ति न दस्यु भीताः
न चापि गोपेषु ददन्ति वृत्तिं स्वेच्छाचरा मन्दिरमाव्रजन्ति ।
क्षीरं क्षरन्त्यो घटवत्सुभूरिशो वत्सप्रियाः शान्तिकराश्च गावः
अकृष्टपच्या धरणी समस्ता प्ररूढसस्या किल लाङ्गलं विना ।
मातुः पयोभिः शिशवः सुपुष्टा भर्तुः प्रयोगैः प्रमदाः सुपुष्टाः
नृपैः सुगुप्तास्तु जनाः सुपुष्टाः सत्याभियुक्तो हि वृषः सुपुष्टः ।
एवं विधे धर्मरतिप्रधाने जने प्रवृत्ते हरिभक्तियुक्ते ।
संरक्ष्यमाणे हि नृपात्मजेन जगाम कालः सुखहे तुभूतः
निरामयो भूतिसमन्वितश्च सभूरिवर्षोत्सवकारकश्च ।
पृथ्वीपतिश्चातिविमोहितश्च विमोहिनीचेष्टितसौख्ययुक्तः
दिनं न जानाति न चापि रात्रिं मासं च पक्षं च स वत्सरं च ।
अतीव मुग्धः सुरतेन तस्या विरञ्चिपुत्र्याः शुभचेष्टितायाः
विमोहिनीसंगमने नृपस्य बभूव शक्तिस्त्वधिका मनोजे ।
यथा यथा सेवत एव भूपस्तथा तथा वृद्धिमियर्ति वीर्यम् ।
पक्षेषु शुक्लेष्विव शीतभानुर्न क्षीयते संततसेवनेन
वृन्दारकः पीतसुधारसो यथा संस्पृश्य संस्पृश्य पुनर्नवो ऽसौ ।
पिबंस्तु पानं सुमनोहरं हि शृण्वंस्तु गीतं सुपदप्रयुक्तम्
पश्यंश्च रूपं स नितंबिनीनां स्पृशन्स्पृशन्मोहिनिवक्त्रचन्द्रम् ।
विमर्द्दमानस्तु करेण तुङ्गौ सुखेन पीनौ पिशितोपरूढौ
घनस्तनौ काञ्चनकुंभतुल्यौ प्रच्छादितौ हारविभूषणेन ।
वलित्रयं नातिविवर्द्धमानं मनोहरं लोमशराजिशोभम्
स्तनस्य रूपं परितो विलोक्य दध्रे वराङ्ग्याः शुभलोचनायाः ।
नहीदृशं चारुतरं नितान्तं नितंबिनीनां मनसो ऽभिरामम्
यादृग्विधं मोहिनमोहनार्थं विनिर्मितं यद्विधिना स्वरूपम् ।
मृगेन्द्रशत्रोःकरसन्निकाशे जङ्घे विलोमे द्रुतकाञ्चनाभे
शशाङ्ककान्तिर्द्दशनस्य पङ्क्तिर्निगूढगुल्फे जनमोहनार्थम् ।
आपादशीर्षं किल तत्स्वरूपं संपश्यतच्चारुविशालनेत्र्याः
मेने सुराणामधिकं हि राजा कृतार्थमात्मानमतीव हर्षात् ।
अहो सुतन्वी विपुलेक्षणेयं याचिष्यते यच्च तदेव देयम्
अस्यास्तु रम्ये सुरते शुभाया दास्यामि चान्ते निजवित्तजातम् ।
सुदुर्लभं देयमदेयमन्यैर्दास्यामि चास्या यदि वाप्यदेयम्
यद्यप्यदेयं मम जीवितं हि याचिष्यते चेद्यदि हेमवर्णा ।
दास्यामि चेदं न विचारयिष्ये पुत्रं विना नास्ति नदेयमस्याः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0