नारद पुराण · अध्याय 2.18
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मोहिनीवचनं नाम सप्तदशो ऽध्यायः
राजोवाच
नाधिकारो मया मीरु कृतो नृपपरिग्रहे ।
श्रमातुरस्य निद्रा मे प्रवृत्ता मुखदायिनी
धर्माङ्गदं समाभाष्य मोहिनीं नय मन्दिरम् ।
पूजयस्व यथान्या ममेषा पत्नी प्रिया मम
निजं कमलपत्राक्ष सर्वरत्नविभूषितम् ।
निर्वातवातसंयुक्तं सर्वर्तुसुखदायकम्
एवमादिश्य तनयमहं निद्रामुपागतः ।
शयनं प्राप्य कष्टात्ते अभाग्यो हि धनं यथा
विबुद्धमात्रः सहसा त्वत्समीपमुपागतः ।
यद्व्रवीषि वचो देवि तत्करोमि न संशयः
मोहिन्युवाच
परिसांत्वय राजेन्द्र इमान्दारान्सुदुःखितान् ।
ममोद्वाहेन निर्विण्णान्निराशान्कामभोगयोः
ज्येष्ठानां रूपयुक्तानां कलत्राणां विशांपते ।
मूर्घ्नि कीलं कनिष्ठाख्यं यो हि राजन्निखानयेत्
न सद्गतिर्भवेत्तस्य न त सा विन्दते परम् ।
पतिव्रताश्रुदग्धायाः का शान्तिर्मे भविष्यति
जनितारं हि मे भस्म कुर्य्युर्देव्यः पतिव्रताः ।
किं पुनः प्राकृतं भूप त्वादृशीं तथा
संध्यावलीसमा नारी त्रैलोक्ये नास्ति भूमिप ।
तव स्नेहनिबद्धाङ्गी संभोजयति षड्रसैः
प्रियाणि चाटुवाक्यानि वदती तव गौववात् ।
एवंविधा हि शतशो नार्यः संति गृहे तव
यासां न पादरजसा तुल्याहं भूपते क्वचित् ।
मोहिनी वचनं श्रुत्वा व्रीडितो ह्यभवन्नृपः
सपुत्रायाः समीपे तु ज्येष्ठाया नृपतिस्तदा ।
इङ्गितज्ञः सुतो ज्ञात्वा दशावस्थागतां नृपम्
पितरं कामसंतप्तं मोहिन्यर्थे विमोहितम् ।
मातृः सर्वाः समाहूय संध्यावलिपुरोगमाः
कृताञ्जलिपुटो भूत्वा एवमाह प्रिय वचः ।
विमोहिनी मे जननी नवोढा ब्राह्मणः सुता
सा च प्रार्थयते देव्यो राजानं रहसिस्थितम् ।
आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः
मातर ऊचुः
को ऽनुमोदयते पुत्र सर्पभक्षणमात्मनः ।
को हि दीपयते वह्निं स्वदेहे देहिनां वर
को भक्षयेद्विषं घोरं कश्छिन्द्यादात्मनः शिरः ।
कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम्
को गच्छेद्द्वीपिवदनं कः केशान्सुहरेर्हरेत् ।
को निषीदति धारायां खङ्गस्या काशभासिनः
कानुमोदयते भर्त्रा सपत्न्याः क्रीडनं किल ।
सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते
वरं हि छेदनं मूर्ध्नस्तत्क्षणात्तु वरासिना ।
का दृष्ट्या दयितं कान्तं निरीक्षेदन्ययाहृतम्
का सा सीमन्तिनी लोके भवेदेतादृशी क्वचित् ।
आत्मप्राणसमं कान्तमन्यस्त्रीकुचपीडनम्
संश्रुत्य सहते या तु किं पुनः स्वेन चक्षुषा ।
सर्वेषामेव दुःखानां दुःखमेतदनन्तकम्
यद्भर्तान्याङ्गनासंक्तो दृश्यटते स्वेन चक्षुषा ।
वरं सर्वा मृताः पुत्र युगपन्मातरस्तव
न तु मोहिनिसंयुक्तो दृश्यो ऽयं नृपतिः पतिः ।
धर्माङ्गद उवाच
यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः
विषमालोड्य पास्यामि युष्मत्सौख्यं मृते मयि ।
कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत्
सा मे शत्रुर्वधार्हास्ति यदि संध्यावली भवेत् ।
सर्वासां साधिका देवी मोहिनी जनकप्रिया
क्रीडार्थमागता बाला मन्दराचलमन्दिरात् ।
तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः
ऊचुः सगद्गदां वाचं हितार्थं तनयस्य हि ।
अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम्
किं तु दानप्रदो भूत्वा मोहिनीं यातु ते पिता ।
यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि
ज्येष्ठायै द्विगुणं तस्या दद्यच्चैवान्यथा ऋणी ।
अनुज्ञाप्य यदा भार्ता ज्येष्ठामन्यां समुद्वहेतक्
तदा ज्येष्ठाभिलषितं देयमाहुः पुराविदः ।
ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः
एष धर्मो ऽन्यथान्यायो जायते धर्मसंक्षयः ।
श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो
एकैकस्यै ददौ साग्रां कोटिं कोटिं सुतस्तदा ।
सहस्रं नगराणां च ग्रामाणां प्रददौ तथा
चतुरश्वतरीभिश्चपृथग्युक्ता नृपात्मजः ।
एकैकस्य ददावष्टौ रथान्काञ्चनमालिनः
वाससामयुतं प्रादाद्येषां मूल्यं शताधिकम् ।
शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः
काञ्चनस्य ददौ लक्षमेकैकं प्रतिमातरम् ।
दासानां च शतं साग्रं दासीनां च नृपात्मजः
धेनूनां घटदोग्ध्रीणामेकैकस्यै तथायुतम् ।
युगन्धराणां भद्राणां शतानि दश वै पृथक्
दशप्रकारं नृपते धान्यं च प्रददौ सुतः ।
वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव
कुंभायुतं सर्पिषस्तु तैलस्य च पृथग्ददौ ।
अजाविकमसंख्यातमेकैकस्यै न्यवेदयत्
सहस्रेण सहस्रेण सुवर्णस्य व्यभूषयत् ।
आखण्डलास्त्रयुक्तरथ भूषणस्य सुभक्तिमान्
धात्रीप्रमाणैर्हरिश्च मौक्तिकैर्दीप्तिसंयुतैः ।
प्रददौ संहतान्कृत्वा वलयान्पञ्च सप्त च
पञ्चाशच्च शते द्वे तु भौक्तिकानि महीपते ।
संध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च
एकैकस्यै ददौ पुत्रोस हारयुग्मं मनोहरम् ।
कुङ्कुमं चन्दनं भूरि कर्पूरं प्रस्थसंख्यया
कस्तूरिकां तथा ताभ्यो भूयसीं प्रददौ सुतः ।
मातॄणामविशेषेण पितुः सुखमभीप्सयन्
भाजनानि विचित्राणि जलपात्राण्यनेकशः ।
घृतक्षीरस्य पात्राणि पेयस्य विविधस्य च
चतुर्द्दशशतं प्रादात्सहस्रेण समन्वितम् ।
स्थालीनां काञ्चनीनां हि सकुंभानां नृपात्मजः
एकैकस्यै ददौ भूप शतानि त्रीणि पञ्च च ।
करेणूनां सवेगानां मांसविक्रान्तकन्धराम्
विंशतिं विंशतिं प्रादादुष्ट्रीणां च शतं शतम् ।
शिबिकानां सवेषाणां पुंसां पीवरगामिनाम्
प्रददौ दश सप्ताश्वान्मातॄणां सुखयायिनः ।
एवं दत्वा बहुधनं बह्वीभ्यो नृपनन्दनः
धन्यो धनपतिप्रख्यश्चक्रे तासां प्रदक्षिणाः ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत्
ममोपरोधात्प्रणतस्य मूर्ध्नापतिं समुद्दिश्य यथा भवत्यः ।
ब्रुवन्तु सर्वाः पितरं ममाद्य स्वैरेण संभुङ्क्ष्व नरेशं मोहिनीम्
न चास्मदीया भवता किलेर्ष्या स्वल्पापि कार्या मनसि प्रतीता ।
विमोहिनीं ब्रह्मसुतां सुशीलां रमस्व सौख्येन रहः शतानि
तत्पुत्रवाक्यं हि निशम्य सर्वाः संहृष्टलोम्न्यो नृपनाथमूचुः ।
स्वभूदुहित्रा सुचिरं रमस्व विदेहपुत्र्येव रघुप्रवीरः
न शल्यभूता कुशकेतुपुत्री त्वत्संगमाद्विद्वि न संशयो ऽत्र ।
पुत्रौजसा दुःखविमुक्तभावात्समीरितं वाक्यमिदं प्रतीहि
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0