भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.17

2.17.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे पतिव्रतोपाख्यानं नाम षोडशो ऽध्यायः
पुत्र उवाच
तस्मादीर्ष्यां परित्यज्य मोहिनीमनुभोजय ।
न मातरीदृशो धर्मो लोकेषु त्रिषु लभ्यते

2.17.2

स्वहस्तेन प्रियां भर्तुर्भार्यां या तु प्रभोजयेत् ।
सपत्नीं तु सपत्नी हि किञ्चिदन्नं ददाति च

2.17.3

तदनन्तं भवेद्देवि मातरित्याह नाभिजः ।
कुरु वाक्यं मयोक्तं हि स्वामिनि त्वं प्रसीद मे

2.17.4

तातस्य सौख्यं कर्तव्यमावाभ्यां वरवर्णिनी ।
भवेत्पापक्षयः सम्यक् स्वर्गप्राप्तिस्तथाक्षया

2.17.5

पुत्रस्य वचनं श्रुत्वा देवी संध्यावली तदा ।
अभिमन्त्र्य परिष्वज्य तनयं सा पुनः पुनः

2.17.6

मूर्ध्नि चैनमुपाघ्राय वचनं चेदमब्रवीत् ।
करिष्ये वचनं पुत्र त्वदीयं धर्मसंयुतम्

2.17.7

इर्ष्यां मानं परित्यज्य भोजयिष्यामि मोहिनीम् ।
शतपुत्रा ह्यहं पुत्र त्वयैकेन सुतेन हि

2.17.8

नियमैर्बहुभिर्जातो देहक्लेशकरैर्भवान् ।
व्रतराजेन चीर्णेन प्राप्तस्त्वमचिरात्सुतः

2.17.9

नहीदृशं व्रतं लोके फलदायि प्रदृश्यते ।
सद्यः प्रत्ययकारीदं महापातकनाशनम्

2.17.10

किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः ।
वरमेकः कुलालंबी यत्र विश्रमते कुलम्

2.17.11

त्रैलोक्यादुपरिष्ठाहं त्वां प्राप्य जठरे स्थितम् ।
धन्यानि तानि शूलानि यैर्जातस्त्वं सुतो ऽनघ

2.17.12

सप्तद्वीपपतिः शूरः पितुर्वचनकारकः ।
आह्लादयति यस्तातं जननीं वापि पुत्रकः

2.17.13

तं पुत्रं कवयः प्राहुर्वाख्यमपरं सुतम् ।
एवमुक्त्वा तु वचनं देवी संध्यावली तदा

2.17.14

वीक्षां चक्रे ऽथ भाण्डानि षड्रसस्य तु हेतवे ।
तस्या वीक्षणमात्रेण परिपूर्णानि भूपते

2.17.15

षड्रसत्य सुखोष्णस्य मोहिनीभोजनेच्छया ।
अमृतस्वादुकल्पस्य जनस्य तु महीपते

2.17.16

ततो दर्वीं समादाय काञ्चनीं रत्नसंयुताम् ।
परिवेषयदव्यग्रा मोडिन्याश्चारुहासिनी

2.17.17

काञ्चने भाजने श्लेक्ष्णे मानभोजनवेष्टिते ।
शनैः शनैश्च बुभुजे इष्टमन्नं सुसंस्कृतम्

2.17.18

उपविश्यासने देवी शातकौभमये शुभे ।
वीज्यमाना वरारोहा व्याजनेन सुगीतिना

2.17.19

धर्माङ्गदगृही तेन शिखिपुच्छभवेन तु ।
सा भुक्ता ब्रह्मतनया तदन्नममृतोपमम्

2.17.20

चतुर्गुणेन शीतेन कृत्वा शौचमथात्मनः ।
जगृहे पुत्रदत्तं तु तांबूलं तत्सुगन्धिमत्

2.17.21

वरचन्दनयुक्तेन हस्तेन वरवर्णिनी ।
ततः प्रहस्य शनकैः प्राह संध्यावलीं नृप

2.17.22

जननी किं तु देवि त्वं वृषाङ्गदनृपस्य तु ।
न मया हि परिज्ञाता श्रमस्वेदितया शुभे

2.17.23

वदत्येवं ब्रह्मसुता यावत्संध्यावलीं नप ।
तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत्

2.17.24

उदरे ह्यनया देव्या घृतः संवत्सरत्रयम् ।
तव भर्तुः प्रसादेन वृद्धिं संप्राप्तवानहम्

2.17.25

संत्यनेकानि मातॄणां शतानि मम सुंदरि ।
अस्याः पीतं पयो भूरि कुचयोः स्नेहसंप्लुतम्

2.17.26

अनया सा रुजा तीव्रा विधृता प्रायशो जरा ।
इयं मां जनयित्वैव जाता शिथिलबन्धना

2.17.27

तन्नास्ति त्रुषु लोकेषु यद्दत्वा चानृणो भवेत् ।
मातुः पुत्रस्य चार्वङ्गि सत्यमेतन्मयेरितम्

2.17.28

सो ऽहं धन्यतरो लोके नास्ति मत्तो ऽधिकः पुमान् ।
उत्संगे वर्तयिष्यामि मातृसंघस्य नित्यशः

2.17.29

नोत्संगे चेज्जनन्या हि तनयो विशति क्वचित् ।
मातृसौख्यं न जानाति कुमारी भर्तृजं यथा

2.17.30

मातुरुत्संगमारूढः पुत्रो दर्पान्वितो भवेत् ।
हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति

2.17.31

पाल्यमानो जनन्या हि पितृहीनो ऽपि दर्पितः ।
समीहते जगद्धर्तुं सवीर्यं मातृजं पयः

2.17.32

एतज्जठरसंसर्गि भवत्युत्संगशङ्कितः ।
अस्याश्चैवापराणां च विशेषो यदि मे न चेत्

2.17.33

तेन सत्येन मे तातो जीवताच्छरदां शतम् ।
एवं ब्रुवाणे तनये मोहिनी विस्मयं गता

2.17.34

कथमस्य प्रहर्तव्यं मया निर्घृणशीलया ।
विनीतस्य ह्यपापस्य औचित्यं पापिनो गृहे

2.17.35

पितुः शुश्रूषणं यस्य न तस्य सदृशं क्षितौ ।
एवं गुणाधिकस्याहं कर्तुं कर्म जुगुप्सिताम्

2.17.36

पुत्रस्य धर्मशीलस्य भूत्त्वा तु जननी क्षितौ ।
एवं विमृश्य बहुधा मोहिनी लोकसुंदरी

2.17.37

उवाच तनयं बाला शीघ्रमानय मे पतिम् ।
न शक्नोमि विना तेन मुहूर्तमपि वर्तितुम्

2.17.38

ततः स त्वरितं गत्वा प्रणम्य पितरं नृप ।
कनिष्ठा जननी तात शीघ्रं त्वां द्रष्टुमिच्छति

2.17.39

प्रसादः क्रियतां तस्याः पूज्यतां ब्रह्मणः सुता ।
पुत्रवाक्येन नृपतिरतत्क्षणाद्गन्तुमुद्यतः

2.17.40

प्रहृष्टवदनो भूत्वा संध्यावल्या निवेशनम् ।
संप्रविश्य गृहे राजा ददर्श शयनस्थिताम्

2.17.41

मोहिनीं मोहसंयुक्तां तप्तकाञ्चनसप्रभाम् ।
उपास्य मानां प्रियया संध्यावल्या शनैः शनैः

2.17.42

पुत्रवाक्यात्परित्यज्य क्रोधं सापत्न्यजं तथा ।
दृष्ट्वा रुक्माङ्गदं प्राप्तं शयने मोह्य सुंदरी

2.17.43

प्रहृष्टवदना प्राह राजानं भूरिदक्षिणम् ।
इहोपविश्यतां कान्त पर्यङ्के मृदुतूलके

2.17.44

सर्वं निरीक्षितं भूप राज्यतन्त्रं त्वया चिरम् ।
अद्यापि नहि ते वाञ्छा राज्ये परिनिवर्तते

2.17.45

मन्ये दुष्कृतिनं भूप त्वामत्र धरणीतले ।
यः समर्थं सुतं ज्ञात्वा स्वयं पश्येन्नृपश्रियम्

2.17.46

तस्मात्त्वत्तो ऽधिको नास्ति दुःखी लोकेषु कश्चन ।
सुपुत्राणां पितॄणां हि सुखं याति क्षणं नृप

2.17.47

दुःखेन पापभोक्तॄणां विषयासक्तचेतसाम् ।
सर्वाश्च प्रकृती राजंस्तवेष्टाः पूर्णपुण्यजाः

2.17.48

धर्माङ्गदे पालयाने कथं त्वं वीक्षसे ऽधुना ।
परित्यज्य प्रियासौख्यं कीनाश इव दुर्बलः

2.17.49

यदि पालयसे राज्यं मया किं ते प्रयोजनम् ।
निष्प्रयोजनमानीता क्षीरसागरमस्तकात्

2.17.50

विड्भोज्या हि भविष्यामि पक्षिणामामिषं यथा ।
यो भार्यां यौवनोपेतां न सेवेदिह दुर्मतिः

2.17.51

कृत्याचरणसक्तस्तु कुतस्तस्य भवेत्प्रिया ।
असेविता व्रजेद्भार्या अदत्तं हि धनं व्रजेत्

2.17.52

अरक्षितं व्रजेद्राज्यं अनभ्यस्तं श्रुतं व्रजेत् ।
नालसैः प्राप्यते विद्या न भार्या व्रतसंस्थितैः

2.17.53

नानुष्ठानं विना लक्ष्मीर्नाभक्तैः प्राप्यते यशः ।
नोद्यमी सुखमाप्नोति नाभार्यः संततिं लभेत्

2.17.54

नाशुचिर्द्धर्ममाप्नोति न विप्रो ऽप्रियवाग्धनम् ।
अपृच्छन्नैव जानाति अगच्छन्न क्वचिद्व्रजेत्

2.17.55

अशिश्यो न क्रियां वेत्ति न भयं वेत्ति जागरी ।
कस्माद्भूपाल मां त्यक्त्वा धर्माङ्गदगृहे शुभे

2.17.56

वीक्ष्यसे राज्यपदवीं समर्थे तनये विभो

2.17.57

एवं ब्रुबाणां तनयां विधेस्तु रतिप्रियां चारुविशालनेत्राम् ।
व्रीडान्वितः पुत्रसमीपवर्ती प्रोवाच वाक्यं नृपतिः प्रियान्ताम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc