नारद पुराण · अध्याय 2.16
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पितापुत्रसंवादो नाम पञ्चदशो ऽध्यायः
वसिष्ठ उवाच
धर्माङ्गवदचः श्रुत्वा हृष्टो रुक्माङ्गदो ऽब्रवीत् ।
सत्य ते जननी पुत्र संप्राप्ता मन्दरे मया
वेदाश्रयसुता बाला मदर्थं कृतनिश्चया ।
कुर्वन्ती दारुणं पुत्र तपो देवगिरौ पुरा
इतः पञ्चदशादह्नो हयगामी गतो ह्यहम् ।
मन्दरे पर्वतश्रेष्ठे बहुधातुसमन्विते
तस्य मूर्द्धनि बालेयं तोषयन्ती महेश्वरम् ।
स्थिता गानपरा दृष्टा मया तत्र सुदर्शना
ततो ऽहं मूर्च्छया युक्तः पतितो धरणीतले ।
अनङ्गबाणसंविद्धो व्याधविद्धो यथा मृगः
ततो ऽहमनया देव्या चालितश्चारुनेत्रया ।
वृतश्चैवापि भर्तृत्वे किञ्चित्प्रार्थनया सह
मया चापि प्रतिज्ञातं स्वदक्षिणकरान्वितम् ।
सेयं भार्या विशालाक्षी कृता भूधरमस्तके
अवरुह्य धरापृष्टे समारुह्य तुरङ्गमम् ।
दिनत्रयेण त्वरितः संप्राप्तस्तव सन्निधौ
पश्यमानो गिरीन्देशान्सरांसिसरितस्तथा ।
इयं हि जननी पुत्र तव प्रीतिविवर्द्धिनी
अभिवादय चार्वङ्गीं त्वं निजामिव मातरम् ।
तत्पितुर्वचनं श्रुत्वा हयसंस्थामरिन्दमः
शिरसा धरणीं गत्वा इदं वचनमब्रवीत् ।
प्रसीद देवि मातस्त्वं भृत्यो दासः सुतस्तव
नमस्करोमि जननीं बहुभूपालसंयुतः ।
तं पुत्रमवनीं प्राप्तं मोहिनी प्रेक्ष्य भूपते
भर्तुर्दाक्षिण्ययोगाच्च अवतीर्य तुरङ्गमात् ।
अवागूहत बाहुभ्यामुत्थाप्य पतितं सुतम्
परिष्वक्तस्तदा मात्रा पुनरेवाभ्यनन्दयत् ।
ततस्तां सुमनोज्ञैस्तु चारुवस्त्रैस्च भूषणैः
भूषयित्वा समारोप्य पुनरेव हयोत्तमम् ।
स्वपृष्ठे चरणं कृत्वा तस्या राजीवलोचनः
तेनैव विधिना भूप पितरं चान्वरोहयत् ।
भूपालैः संवृतो गच्छन्पभ्द्यां धर्माङ्गदः सुतः
प्रहर्षपुलको ह्यासीज्जननीं प्रेक्ष्य मोहिनीम् ।
स्तूयमानः स्वयं चापि मेघगंभीरया गिरा
धन्यः स तनयो लोके मातरो यस्य भूरिशः ।
नवा नवतरा भार्याः पितुरिष्टा मनोहराः
यस्यैका जननी लोके पिता तस्यैव दुःखभाक् ।
पितुर्दुःखेन किं सौख्यं पुत्रस्य हृदि वर्तते
एकस्या वन्दने मातुः पृथिवीफलमश्नुते ।
मातॄणां वन्दने मह्यं गहत्पुण्यं भविष्यति
तस्मादभ्यधिकं पुण्यं भविष्यति दिने दिने ।
एकमुच्चरमाणो ऽसौ राजभिः परिवारितः
प्रविष्टो नगरं रम्यं वैदिशं ऋद्धिसंयुतम् ।
हयस्थः प्रययौ राजा मोहिन्या सह तत्क्षणात्
ततो गृहवरं प्राप्य पूज्यमानो जनैर्नृपः ।
अवरुह्य हयातस्मामोहिनीं वाक्यमब्रवीत्
धर्माङ्गदस्य पुत्रस्य गृहे गच्छ मनोहरे ।
एष ते गुरुशुश्रूषां करिष्यति यथा गुणम्
न सखी नैव दासी ते शुश्रूषामाचरेदिति ।
सा चैवमुक्ता पत्या तु प्रस्थिता सुतमन्दिरम्
धर्माङ्गदेन सा दृष्टा गच्छन्ती मन्दिराय वै ।
आत्मनो भर्तृवाक्येन परित्यज्य महीपतीन्
तिष्ठध्वं पितुरादेशादिमां शुश्रूषये ह्यहम् ।
स एवमुक्त्वा गत्वा तु बाहुभ्यां परिगृह्य वै ।
क्रमे पञ्चदशे प्राप्ते पर्यङ्के त्ववरोपयत्
काञ्चने पट्टसूत्रेण रचिते कोमले दृढे ।
मृद्वास्तरणसंयुक्ते मणिरत्नविभूषिते
रत्नदीपैश्च बहुशः खचिते सूर्यसप्रभे ।
ततः पादोदकं चक्रे मोहिन्या धर्मभूषणः
सन्ध्यावल्या गुरुत्वेन ह्यपश्यत्तां नृपात्मजः ।
नैवमस्याभवद्दुष्टं मनस्तां मोहिनीं प्रति
सुकुमारो ऽपि तन्वङ्गीं पीनोरुजघनस्तनीम् ।
मेने वर्षायुतसमामात्मानं च त्रिवत्सरम्
प्रक्षाल्य चरणौ तस्यास्तज्जलं शिरसि न्यधात् ।
उवाचावनतो भूत्वा सुकृती मातरस्म्यहम्
इत्युक्त्वा नरनारीभिः स्वयं च श्रमनाशनम् ।
चकार सर्वभोगैस्तां युयोज च मुदान्वितः
धीरोदमथने जाते कुण्डले चामृतस्रवं ।
ये लब्धे दानवाञ्चित्वा पाताले धर्ममूर्त्तिना
मोहिन्या कर्णयोश्चक्रे स्वयमेव वृषाङ्गदः ।
अष्टोत्तरसहस्रैश्च धात्रीफलनिभैः शुभैः
मौक्तिकै रचितैः शुभ्रैर्हारो देव्याः कृतो हृदि ।
निष्कं पलशतं स्वर्णं कुलिशायुतभूषितम्
हार लघूत्तरं चक्रे मातुर्नृपसुतस्तदा ।
वलया वज्रखचिता द्विरष्टौ करयोर्द्वयोः
एकैके निष्ककोटीभिर्मूल्यविद्भिर्नरैः कृताः ।
केयूरनूपुरौ तस्या अनर्घौ स नृपात्मजः
प्रददौ पितुरिष्टाया भूषणार्थं रविप्रभौ ।
कटिसूत्रं तु शर्वाण्या यदासीत्पावकप्रभम्
तद्भ्रष्टं भयभीतायाः संग्रामे तारकामये ।
कालनेमौ स्थिते राज्ये पतितं मूलपाचने
तद्गृहीतं तु दैत्येन मयेन लोकमायिना ।
तं हत्वा मलये दैत्यं दैत्यकोटिसमावृतम्
संवत्सररणे घोरे पितुर्वचनकारणात् ।
अवाप कटिसूत्रं तु दैत्यराजप्रियास्थितम्
तद्ददौ पितुरिष्टायाः सानन्दपुलको नृपः ।
हिरण्यकशिपोः पूर्वं या भार्या लोकसुन्दरी
तस्याः सीमन्तकश्चासीत्सौदामिनिसमप्रभः ।
सा प्रविष्टा समं पत्या यदा पावकमङ्गला
समुद्रे क्षिप्य सीमन्तं दुःखेन महतान्विता ।
सागरस्तत्तु संगृह्य रत्नश्रेष्ठयुगं किल
ददौ धर्माङ्गदायाथ तस्य वीर्येण तोषितः ।
जनन्याः प्रददौ हृष्टः सूर्यकोटिसमप्रभम्
अग्निशौचे शुभे वस्त्रे कञ्चुके सुमनोहरे ।
सहस्रकोटिमूल्ये ते मोहिन्याः संन्यवेदयत्
देवमाल्यं सुगन्धाढ्यं तथा देवविलेपनम् ।
सर्वदेवगुरोः पूर्वं सिद्धहस्तात्सुदुर्लभम्
धर्माङ्गदेन वीरेण द्वीपानां विजये तथा ।
लब्धं तत् प्रददौ देव्या मोहिन्याः कामवर्द्धनम्
संभूष्य परया भक्त्या पश्चात्षड्रसभोजनम् ।
आनीतं मातृहस्तेन भोजयामास भूमिप
पुरस्तादेव जननीं वाक्यैः संबोध्य भूरिशः ।
मया त्वया च कर्तव्यं राज्ञो वाक्यं न संशयः
या इष्टा नृपतेर्देवि सास्माकं हि गरीयसी ।
इष्टा या भूपतेर्भर्तुस्तस्या या दुष्टमाचरेत्
सा पत्नी नरकं याति यावदिन्द्राश्चतुर्दश ।
सापत्नभावं या कुर्याद्भर्तृस्नेहेष्टया सह
तस्याः स्नेहवियोगार्थं तप्यते ताम्रभ्राष्टके ।
यथा सुखं भवेद्भर्तुस्तथा कार्यं हि भार्यया
अनुकूलं हितं तस्या इष्टाया भर्तुराचरेत् ।
यथा भर्ता तथा तां हि पश्येत वरवर्णिनि
हीनायाश्चापि शुश्रूषां कृत्वा याति त्रिविष्टपम् ।
पश्चात्स्थाने भवेत्सापि मनसा याभवत्प्रिये
सर्वान्भोगानवाप्नोति भर्तुरिष्टं प्रगृह्य हि ।
इर्ष्याभावपरित्यागात्सर्वेश्वरपदं लभेत्
सपत्नी या सपत्न्यास्तुःशुश्रूषां कुरुते सदा ।
भर्तुरिष्टां संनिरीक्ष्य तस्या लोको ऽक्षयो भवेत्
भर्तुरिष्टा पुरा वेश्या ह्यभवत्सा कुलेषु वै ।
शूद्रजातेः सुदुष्टस्य परित्यक्तक्रियस्य तु
आचरद्वेश्यया सार्द्धं सा भार्या पतिरञ्जिनी ।
प्रक्षालनं द्वयोः पादौ द्वयोरुच्छिष्टभोजिनी
उभयोरप्यधः शेते उभयोर्वै हितं रता ।
वेश्यया वार्यमाणापि सदाचारपथे स्थिता
एवं शुश्रीषयन्त्या हि भर्तारं वेश्यया सह ।
जगाम सुमहान्कालो वर्तन्त्या दुःखसागरे
अपरस्मिन्दिने भर्ता माहिषं मूलकान्वितम् ।
अभक्षयत निष्पावं दुर्मेधास्तैलमिश्रितम्
तदपथ्यभुजस्तस्य अवमन्य पतिव्रताम् ।
अभवद्दारुणो रोगो गुदे तस्य भगन्दरः
संदह्यमानो ऽतितरां दिवा रात्रौ स भूरिशः ।
तस्य गेहे स्थितं वित्तं समादाय जगाम सा
वेश्यान्यस्मैददौ प्रीत्या यूने कामपरायणा ।
ततः स दीनवदनो व्रीडया च समन्वितः
उवाच प्ररुदन्भार्यां शूद्रो व्याकुलचेतनः ।
परिपालय मां देवि वेश्यासक्तं सुनिष्ठुरम्
न मयोपकृतं किञ्चित्तव सुंदरि पापिना ।
रमते वेश्यया सार्द्धं बहूनब्दान्सुमध्यमे
यो भार्यां प्रणतां पापोनानुमन्येत गर्वितः ।
सो ऽशुभानि समाप्नोति जन्मानि दश पञ्च च
दिवाकीर्तिगृहे तस्माद्योनिं प्राप्स्यामि गर्हिताम् ।
तवापमानतो देवि मनो न कलुषीकृतम्
इति भर्तृवचः श्रुत्वा भार्या भर्तारमब्रवीत् ।
पुराकृतानि पापानि दुःखानि प्रभवन्ति हि ।
तानि सक्षमते विद्वान् स विज्ञेयो नृणां वरः
तन्मया पापया पापं कृतं वै पूर्वजन्मनि ।
तद्भजन्त्या न मे दुःखं न विषादः कथञ्चन
एवमुक्त्वा समाश्वास्य भर्तारमनुशास्य च ।
अनीतं जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी
क्षीरोदनिलयावासं मन्यते स्म सती पतिम् ।
दिवा दिवा त्रिर्यत्नेन रात्रौ गुह्यविशोधनम्
रजनीकरवृक्षोत्थं गृह्य निर्यासमञ्जसा ।
नखेन पातयेद्भर्तुः क्रिमीन्कुष्ठाच्छनैः शनैः
मयूरपुच्छसंयुक्तं पवनं चाकरोत्तदा ।
न देवि रात्रौ स्वपिति न दिवा च वरानना
भर्तृदुःखेन संतप्ता अपश्यज्ज्वलितं जगत् ।
यद्यस्ति वसुधा देवी पितरो देवतास्तथा
कुर्वन्तु रोगहीनं मे भर्तारं गतकल्मषम् ।
चण्डिकायै प्रदास्यामि रक्तं मांससमुद्भवम्
नृच्छागमहिषोपेतं भर्तुरारोग्यहेतवे ।
सादरं कारयिष्यामि उपवासान्दशैव तु
शरीरं स्थापयिष्ये ऽहं सूक्ष्मकण्टकसंस्तरे ।
नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम्
बाह्याभ्यङ्गविहीनाहं संस्थास्ये दिनसंचयम् ।
जीवतां रोगहीनो हि भर्ता मे शरदां शतम्
एवं प्रव्याहरन्ती सा वासरे वासरे गते ।
अथ कालेन चाल्पेन त्रिदोषो ऽस्य व्यजायत
त्रिकटुं प्रददौ भर्तुर्यत्नेन महता तदा ।
शीतार्तः कंपमानो ऽसौ पत्न्यङ्गुलिमखण्डयत्
उभयोर्दतयोः श्लेषः सहसा समपद्यत ।
तत्खण्डमङ्गुलेर्वक्त्रे स्थितं नृपतिवल्लभे
अथ विक्रीय वलयं क्रीत्वा काष्ठानि भूरिशः ।
चितां सार्पिर्युतां चक्रे मध्ये धृत्वा पतिं तदा
अवरुह्य च बाहुभ्यां पादेनाकृष्य पावकम् ।
मुखे सुखं समाधाय हृदये हृदयं तथा
जघने जघनं देवि आत्मनः संनिवेश्य वै ।
दाहयामास कल्याणी भर्तुर्देहं रुजान्वितम्
आत्मना सह चार्वङ्गी ज्वलिते जातवेदसि
वुमुच्य देहं सहसा जगाम पतिं समादाय च देवलोकम् ।
विशोधयित्वा बहुपापसंघान्स्वकर्मणा दुष्करसाधनेन
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0