नारद पुराण · अध्याय 2.15
इति श्रीबृहन्नारदीयपुराणोत्तरभागे गोधाविमुक्तिर्नाम चतुर्दशो ऽध्यायः
वसिष्ठ उवाच
विमोच्य पातकाद्राजा गृहगोधां हसन्निव ।
उवाच मोहिनीं हृष्टः शीघ्रमारुह्यतां हयः
योजनायुतगामी च क्षणात्कृष्णहयो यथा ।
तदाकर्ण्य वचो राज्ञो मोहिनी मदलालसा
आरुरोह समं भर्त्रा तं हयं वातवेगिनम् ।
उवाच च वचो भूपं भर्तारं चारुहासिनी
प्रचोदयेममर्वाणं स्वपुराय महीपते ।
पुत्रवक्त्रं स्पृहा द्रष्टुं लंपटा तव वर्तते
तवाधीना नृपश्रेष्ठ गम्यतां यत्र ते मनः ।
मोहिन्या वचनं श्रुत्वा तप्रस्थे नगरं प्रति
पश्यमानः सुसंहृष्टः पादपान्पर्वतान्नदीः ।
वनानि सुविचित्राणि मृगान्बहुविधानपि
ग्रामान्दुर्गांस्तथा देशान्नगराणि शुभानि च ।
सरांसि च विचित्राणि भूभागान्सुमनोहरान्
अचिरेणाश्रमं दृष्ट्वा वामदेवस्य भूपते ।
आकाशस्थो महीपालो नमस्कृत्य त्वरान्वितः
पुनरेव ययौ राजा वायुवेगेन वाजिना ।
पश्यमानो बहून्देशान्धनधान्यसमन्वितान्
आससाद पुरं राजा वैदिशं स्ववशं च तत् ।
तमायान्तं नृपं श्रुत्वा चारैर्द्धर्माङ्गदः सुतः
पितरं हर्षसंयुक्तो भूपालान्वाक्यमब्रवीत् ।
एषा प्कराशमायाति उदीची दिङ् नृपोत्तमाः
मत्पितुर्वाजिनाक्रान्ता तत्तेजः परिरञ्जिता ।
तस्माद्गच्छामहे सर्वे संमुखं ह्यवनीपतेः
पितुरागतमात्रस्य संमुखं न सुतो व्रजेत् ।
स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दशा
संमुखं व्रजमानस्य पुत्रस्य पितरं प्रति ।
पदे पदे यज्ञफलं प्रोचुः पौराणिका द्विजाः
उत्तिष्ठध्वं व्रजाम्येष भवद्भिः परिवारितः ।
अभिवादयितुं प्रेम्णा एष मे देवदेवता
तथोत्युक्तैस्तुतैः सर्वैर्भूमिपालैर्नृपात्मजः ।
जगाम संमुखं पद्भ्यां क्रोशमात्रं पितुस्तदा
ततो राजसहस्रेण मूर्तिमानिव मन्मथः ।
स गत्वा दूरमध्वानमाससादनृपं पथि
संप्राप्य पितरं स्त्रेहाज्जगाम धरणीं तदा ।
शिरसा राजभिः सार्द्धं प्रणाममकरोत्तदा
प्रेम्णा समागतं प्रक्ष्य तं पतन्तं नृपैः सह ।
अवरुह्य हयाद्राजा समुत्थाप्य सुतं विभो
भुजाभ्यां साधु पीनाभ्यां पर्यष्वञ्जत भूपतिः ।
मूर्ध्नि चैवमुपाघ्राय उवाच तनयं तदा
कच्चित्पासि प्रजाः सर्वाः कच्चिद्दण्डयसे रिपून् ।
न्यायागतेन वित्तेन कोशं पुत्र बिभर्षि च
कच्चिद्विप्रेष्वत्यधिका वृत्तिर्दत्ता नपायिनी ।
कच्चित्ते कान्तशीलत्वं कच्चिद्वक्ताः न निष्ठुरम्
कच्चिद्गावो न दुह्यन्ते पुत्र चाण्डलवेश्मानं ।
कच्चिद्वचनकर्तारस्तनयाश्च पितुः सदा
कच्चिद्वधूः श्वश्रूवाक्ये वर्तते भर्तरि क्वचित् ।
कच्चिद्विवादान्विप्रेस्तु समं नेक्षस आत्मज
कच्चिद्गावो न रुध्यन्ते विषये विविधैस्तृणैः ।
तुलामानानि सर्वाणि ह्यन्नादीनां सदेक्षसे
कुटुंबिनं करैः पुत्र नात्यर्थमभिदूयसे ।
कच्चिन्न द्यूतपानादि वर्तते विषये तव
कच्चिद्भिन्नरसैर्लोका भिन्नवाक्यैः पुरे तव ।
न दानैर्जीर्णवस्त्रैश्च नोपजीवन्ति मानवाः
कच्चिदृष्ट्वा स्वयं पुत्र हस्त्यश्वं परिरक्षसि ।
कच्चिच्च मातरः सर्वा ह्यविशेषेण पश्यसि
कच्चिन्न वासरे विष्णोर्नरा भुञ्जन्ति पुत्रक ।
शशिनि क्षीणतां प्राप्ते कच्चिच्छ्राद्धपरो नरः
कच्चिच्चापररात्रेषु सदा निद्रां विमुञ्चसि ।
निद्रा मूलमधर्मस्य निद्रा पापविवर्द्धिनी
निद्रा दारिद्यजननी निद्रा श्रेयोविनाशिनी ।
नहि निद्रान्वितो राजा चिरं शास्ति वसुंधराम्
पुंश्चलीव सदा भर्तुर्लोकद्वयविनाशिनी ।
एवमुच्चरमाणं तं तनयो वाक्यमब्रवीत्
धर्माङ्गदो महीपालं प्रणम्य च पुनः पुनः ।
सर्वमेतत्कृतं तात पुनः कर्तास्मि ते वचः
पितुर्वचनकर्तारः पुत्रा धन्या जगत्त्रये ।
किं ततः पातकं राजन्यो न कुर्यात्पितुर्वचः
पितृवाक्यमनादृत्य व्रजेत्स्नातुं त्रिमार्गगाम् ।
न तत्तीर्थफलं भुङ्क्ते यो न कुर्यात्पितुर्वचः
त्वदधीनं शरीरं मे त्वदधीनं हि जीवितम् ।
त्वदधीनो हि मे धर्मस्त्वं च मे दैवतं परम्
त्रैलोक्यस्यापि दानेन न शुद्ध्येत ऋणात्सुतः ।
किं पुनर्देहवित्ताभ्यां केशदानादिभिर्विभो
एवं ब्रुवाणं तनयं बहुभूपालसंवृतम् ।
रुक्माङ्गदः परिष्वज्य पुनराह सुतं वचः ।
सत्यमेतत्त्वया पुत्र व्याहृतं धर्मवेदिना
पितुरभ्यधिकं किञ्चिद्दैवतं न सुतस्य हि ।
देवाः पराङ्मुखास्तस्य पितरं यो ऽवमन्यते
सो ऽहं मूर्ध्नात्वया पुत्र धृतस्तत्क्षितिरक्षणात् ।
जित्वा द्वीपवतीं पृथ्वीं बहुभूपालसंवृताम्
एतत्सौख्यं परं लोके एतत्स्वर्गपदं ध्रुवम् ।
पितुरभ्यधिकः पुत्रो यद्भवेत्क्षितिमण्डले
सो ऽहं पुत्र कृतार्थस्तु कृतः सद्गुणवर्त्मना ।
त्वया साधयता भूपान्यथा हरिदिनं शुभम्
तत्पितुर्वचनं श्रुत्वा पुत्रो धर्माङ्गदो ऽब्रवीत् ।
क्क गतस्तु भवांस्तात निवेश्य मयि संपदः
कस्मिन्स्थाने त्वियं प्राप्ता सूर्यायुतसमप्रभा ।
मन्ये निर्वेदमापन्न इमां सृष्ट्वा प्रजापतिः
नैतद्रूपा महीपालनारी त्रैलोक्यमध्यतः ।
मन्ये भूधरजातेयमथवा सागरोद्भवा
माया वा मयदैत्यस्य प्रमदारूपसंस्थिता ।
अहो सुनुपुणो धाता येनेयं निर्मिता विभो ।
बालाग्रशतभागो हि व्यलीको नोपपद्यते
इयं हि योग्या कनकावदाता गृहाय तुभ्यं जगतीपतीश ।
एवं विधा मे जननी यदि स्यात्को ऽन्यो ऽस्ति मत्तः सुकृती मनुष्यः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0