भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.14

2.14.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीसंमोहनं नाम त्रयोदशो ऽध्यायः
वसिष्ठ उवाच
संप्रस्थितावुभौ राजन्गिरिशीर्षाद्धरातलम् ।
पश्यमानौ बहून्भावान्गिरिजातान्मनोहरमनोहरान्

2.14.2

केचिद्विद्रुमसंकाशाः केचिद्रजतसन्निभाः ।
केचिन्नीलसमप्रख्याः केचित्काञ्चनसत्विषः

2.14.3

केचित्स्फाटिकवर्णाभा हरितालनिभाः परे ।
अन्योन्यश्लेषतां प्राप्तौ सकलैः स्थावरैरिव

2.14.4

सप्राप्य वसुधां भूपो ह्यपश्यद्वाजिनां वरम् ।
खन्यमानं खुरेणोर्वी कुलिशाभेन वेगिना

2.14.5

तस्य दारयतः पृथ्वीं सुतीक्ष्णेन खुरेण हि ।
गृहगोधाभवत्तस्मिन् भूभागान्तर्गता किल

2.14.6

निर्गच्छमाना नृपते खुरेण विदलीकृता ।
विदीर्यमाणां नृपतिरपश्यत्स दयापरः

2.14.7

अभ्यधावत वेगेन हा हतेति प्रियां वदन् ।
ततः स वृक्षपत्रेण कोमलेन महीपतिः

2.14.8

उत्सार्य तां खुरादाशु प्राक्षिपत्तृणशाद्वले ।
ततस्तु मोहिनीं प्राह प्रेक्ष्य मूर्च्छागतां हि ताम्

2.14.9

शीघ्रमाहर चार्वङ्गिजलं जलजलोचने ।
येन मूर्च्छागतां सिंचे गृहगोधां विमर्द्दिताम्

2.14.10

सा भर्तुर्वचनाच्छीघ्रमानयच्छीतलं जलम् ।
तेनाभ्यषिं चन्नृपतिर्गृहगोधां विमूर्च्छिताम्

2.14.11

अवाप चेतनां राजन् शीतलाज्जलसेचनात् ।
अभिघातेषु सर्वेषु शस्तं वारिप्रसेचनम्

2.14.12

अथवा क्लिन्नवस्त्रेण सहसा बन्धनं हितम् ।
संप्राप्तचेतना भूप गोधा वचनमब्रवीत्

2.14.13

राजानमग्रतो वीक्ष्य वेदनार्ता शनैः शनैः ।
रुक्माङ्गद महाबाहो निबोध मम चेष्टितम्

2.14.14

शाकले नगरे रम्ये भार्याहं ह्यग्रजन्मनः ।
रूपयौवनसंपन्ना तस्य नातिप्रिया विभो

2.14.15

सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः ।
नान्यस्य कस्यचिद्द्वेष्टा स तु मे नृपते पतिः

2.14.16

ततो ऽह क्रोधसंयुक्ता वशीकरणलंभनात् ।
अपृच्छं प्रमदा राजन्यास्त्यक्ताः पतिभिः किल

2.14.17

ताभिरुक्ता ह्यहं भूप वश्यो भर्ता भविष्यति ।
अस्माकं प्रत्ययो जातो भर्तृत्यागावमाननात्

2.14.18

प्रव्रज्याभेषजैर्वश्या जाता हि पतयस्तु नः ।
त्वं पृच्छ तां वरारोहे दास्यते भेषजं शुभम्

2.14.19

न विकल्पस्त्वया कार्यो भविता दासवत्पतिः ।
ततो ऽहं त्वरितं गत्वा तासां वाक्येन भूपते

2.14.20

प्रासादः कथितस्तस्याः पृच्छन्त्या मम मानवैः ।
शतस्तंभसमायुक्तः कान्तिमत्सुधया युतः

2.14.21

प्रविश्य तं सुतेजस्कामपश्यं ब्रह्यचारिणीम् ।
प्रावृतां दीर्घवस्त्रेण सन्ध्यारागसवर्णिनीम्

2.14.22

दीर्घाभिः सा जटाभिस्तु संवृता दीप्तिसयुता ।
परिचारकैस्तु संयुक्ता वीज्यमाना शनैः शनैः

2.14.23

अक्षसूत्रकरा सा तु जपन्ती भगमालिनी ।
सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम्

2.14.24

ततो ऽहं प्रणता भूत्वा पद्भ्यां न्यस्याङ्गलीयकम् ।
मृदुकाञ्चनसंभूतं अतिरिक्तप्रभान्वितम्

2.14.25

ततो हृष्टाभवद्दृष्ट्वा पदस्थं चाङ्गुलीयकम् ।
अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम्

2.14.26

तयोक्ताहं ततो भूप तापस्या प्रणता स्थिता ।
चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः

2.14.27

त्वया भर्तरि संयोज्यो रक्ष्यं ग्रीवाशयाङ्कुरम् ।
भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम्

2.14.28

चूर्णरक्षां गृहीत्वाहं प्राप्ताभर्तृगृहं पुनः ।
प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः

2.14.29

ग्रीवायां हि कृता रक्षा न विचारो मया कृतः ।
यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा

2.14.30

तदहः क्षयरोगो ऽभूत्पतिः क्षीणो दिने दिने ।
गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः

2.14.31

दिनैः कतिपयैर्जातैर्दीपवद्रविदर्शनात् ।
हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः

2.14.32

क्रन्दमानो दिवा रात्रौ दासो ऽस्मि तव शोभने ।
त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम्

2.14.33

तत्तस्य रुदितं श्रुत्वा भयभीता महीपते ।
तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी

2.14.34

तयापि भेषजं दत्तं द्वितीयं दाहशान्तये ।
दत्ते तु भेषजे तस्मिन्सुस्थो ऽभूत्तत्क्षणात्पतिः

2.14.35

पूर्वचूर्णोद्भवो दाहः शान्तस्तेनौषधेन ह ।
ततः प्रभृति मे भर्ता वश्यो ऽभूद्वचने स्थितः

2.14.36

कालेन पञ्चतां प्राप्ता गता नरकयातनाम् ।
ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च

2.14.37

सूक्ष्माणि तिलमात्राणि कृत्वा खण्डान्यनेकशः ।
किञ्चित्पातकशेषेण धरायामवतारिता

2.14.38

गृहगोधामयं रूपं कृतं भास्करजेन मे ।
साहमत्र स्थिता भूप वर्षाणामयुतं पुरा

2.14.39

यान्यापि युवतिर्भूप भर्तुर्वश्यं समाचरेत् ।
वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके

2.14.40

भर्ता नाथो गतिर्भर्ता दैवतं गुरुरेव च ।
तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात्

2.14.41

तिर्यग्योनिशतं याति क्रिमिकुष्ठसमन्विता ।
तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा

2.14.42

साहं यास्ये पुनर्योनिं कुत्सितां पातकान्विताम् ।
यदि नोद्धरसे राजन्नद्य मां शरणागताम्

2.14.43

सुकृतस्य प्रदानेन विजयाजनितेन हि ।
या त्वया संगमे पुण्ये कृता श्रवणद्वादशी

2.14.44

सरय्वाश्चैव गङ्गायाः पापनाशविधायके ।
प्रेतनिर्यातनी पुण्या मानसेप्सितदायिनी

2.14.45

यस्यां गृहे ऽपि भूपाल संस्मृतो मनुजैर्हरिः ।
सर्वतीर्थफलावाप्तिं कुरुते नात्र संशयः

2.14.46

दत्तं जप्तं हुतं यच्च कृतं देवार्चनादिकम् ।
सर्वं तदक्षयं भूप यत्कृतं विजयादिने

2.14.47

एवंविधं फलं यस्यास्तद्देहि सुकृतं मम ।
द्वादश्यामुपवासेन त्रयोदश्यां तु पारणे

2.14.48

द्वादशाब्दोपवासस्य फलं प्राप्तोत्युपोषणे ।
दयां कृत्वा महीपाल धर्ममूर्तिर्भवान् क्षितौ

2.14.49

वैवस्वतपथध्वंसी परित्राहि सुदुःखिताम् ।
गृहगोधावचः श्रुत्वा मोहिनी वाक्यमब्रवीत्

2.14.50

स्वकृतं तु जनो ऽश्नाति सुखदुःखात्मकं बिभो ।
तस्मात्किमनया कार्यं पापया भर्तुदुष्टया

2.14.51

यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्नृप ।
साधुभ्यो यत्कृतं राजन्यशःस्वर्गकरं भवेत्

2.14.52

उभयोर्भ्रं शतामेति पापेभ्यो यत्कृतं भवेत् ।
शर्करामिश्रितं क्षीरं काद्रवेये नियोजितम्

2.14.53

विषवृद्धिं करोत्येव तद्वत्पापकृतं भवेत् ।
परित्यजेमां त्वं पापां गच्छावो नगराय वै

2.14.54

जन्मव्यापारसक्तानामात्मसौख्यं विनश्यति ।
रुक्माङ्गद उवाच
ब्रह्मात्मजे कथं वाक्यमीदृशं व्याहृतदं त्वया ।
न साधूनामिदं वृत्तं भवतीति वरानने

2.14.55

आत्मसौख्यकराः पापा भवन्ति परतापिनः ।
विप्रपन्ना वरारोहे परोपकरणाय वै

2.14.56

शशी सूर्यो ऽथ पर्जन्यो मेदिनी हुतभुग्जलम् ।
चन्दनं पादपाः संतः परोपकरणाय वै

2.14.57

श्रूयते किल राजासीद्धरिश्चन्द्रो वरानने ।
चाण्डालमन्दिरावासी भार्यातनयविक्रयी

2.14.58

असत्यवचनाद्भीतो दुःखाद्दुःखतरं गतः ।
तस्य सत्येन संतुष्टादेवाः शक्रपुरोगमाः

2.14.59

वरेण छन्दयाञ्चक्रुर्हरिश्चन्द्रं महीपतिम् ।
तेन सत्यवता चोक्ता देवा ब्रह्मपुरोगमाः ।
यदि तुष्टा हि विबुधा वरं मे दातुमर्हथ

2.14.60

एषा हि नगरी सर्वा सद्रुमा ससरीसृपा ।
सबालवृद्धतरुणा सनारी सचतुष्पदा

2.14.61

प्रयातु कृतपापापिस्वर्गतिं नगरी मम ।
अयोध्यापातकं गृह्य गन्ताहं नरकं ध्रुवम्

2.14.62

एकाकी नहि गच्छामि परित्यज्य जनं क्षितौ ।
स्वर्गं विबुधशार्दूलाः सत्यमेतन्मयेरितम्

2.14.63

तस्य तां स्थिरतां ज्ञात्वा सह तेनैव सा पुरी ।
जगाम स्वर्गलोकं च इन्द्रादीनामनुज्ञया

2.14.64

सो ऽपि स्वर्गे स्थितो राजा स्वपुरेण समन्वितः ।
कामगेन विमानेन पूज्यमानो ऽमरैरपि

2.14.65

अस्थिदानं कृतं देवि कृपया हि दधीचिना ।
देवानामुपकारार्थं श्रुत्वा दैत्यैः पराजितान्

2.14.66

कपोतार्थं स्वमांसानि शिबिना भूभुजा पुरा ।
प्रदत्तानि वरारोहे श्येनाय क्षुधिताय वै

2.14.67

जीमूतवाहनो राजा पुरासीत्क्षितिमण्डले ।
तेनापि जीवितं दत्तं पन्नगाय वरानने

2.14.68

तस्माद्दयालुना देवि भवितव्यं महीभुजा ।
शुचावमेध्ये ऽपि शुभे समं वर्षति वारिदः

2.14.69

चाण्डालपतितौ चन्द्रो ह्लादयेच्च निजैः करैः ।
तस्मादिमां वरारोहे गृह गोधां सुदुःखिताम्

2.14.70

उद्धरिष्ये निजैः पुण्यैर्दैहित्रैर्नाहुषो यथा ।
विमोहिनीं तिरस्कृत्य गृहगोधामुवाच ह

2.14.71

दत्तं दत्तं मया पुण्यं विजयासंभवं तव ।
गच्छ विष्णुगतांल्लोकान्विधूताशेषकल्मषा

2.14.72

तद्वाक्यात्सहसा भूप दिव्याभरणभूषिता ।
विमुच्य देहं तज्जीर्णं गृहगोधासमुद्भवम्

2.14.73

जगामामन्त्र्य तं भूपं द्योतयन्ती दिशो दश ।
सीमन्तमिव कुर्वाणा वैष्णवं पदमुद्भुतम्

2.14.74

यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमात्मभूतम् ।
तम्मादियं चैव शिखिप्रदीपा जगत्प्रकाशाय नृपप्रसूता

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc