भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.13

2.13.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे समयकरणं नाम द्वादशो ऽध्यायः
वसिष्ठ उवाच
उत्थापयित्वा राजानं मोहिनी वाक्यमब्रवीत् ।
मा शङ्कां कुरु राजेन्द्र कुमारीं विद्ध्यकल्मषाम्

2.13.2

उद्वहस्व महीपाल गृह्योक्तविधिना हि माम् ।
अनूढा कन्यका राजन् यदि गर्भं बिभर्ति हि

2.13.3

प्रसूयति दिवाकीर्तिं सर्ववर्णविगर्हितम् ।
चाण्डालयोनयस्तिस्रः पुराणे कवयो विदुः

2.13.4

कुमारीसंभवात्वेका सगोत्रापि द्वितीयका ।
ब्राह्मण्यां शूद्रजनिता तृतीया नृपपुङ्गव

2.13.5

एतस्मात्कारणाद्राजन् कुमारीं मां समुद्वह ।
ततस्तां चपलापाङ्गीं नृपो रुक्माङ्गदो गिरौ

2.13.6

उद्वाह्य विधिना युक्तस्तस्थौ राजा हसन्निव ।
राजोवाच
न तथा त्रिदिवप्राप्तिः प्रीणयेन्मां वरानने

2.13.7

तवप्राप्तिर्यथा देवि मन्दरे ऽस्मिन्सुखाय वै ।
मन्ये पुरन्दराद्देवि ह्यात्मानमधिकं क्षितौ

2.13.8

त्रैलोक्यसुन्दरीं प्राप्य भार्यां त्वां चारुलोचने ।
तस्माद्यदनुकूलं ते तत्करोमि प्रशाधि माम्

2.13.9

इहैव रमसे बाले अथवा मन्दिरे मम ।
मलये मेरुशिखरे वने वा नन्दने वद

2.13.10

तच्छ्रुत्वा नृपतेर्वाक्यं मोहिनी मधुरं नृप ।
उवाचानुशयं राजन्वचनं प्रीतिवर्द्धनम्

2.13.11

सपत्नीनां कटाक्षाणां क्षतानि नगरे मम ।
भविष्यन्ति महीपाल कथं गच्छामि ते पुरम्

2.13.12

मास्म सीमन्तिनी काचिद्भवेद्धि क्षितिमण्डले ।
यस्याः सपत्नीप्रभवं दुःखमामरणं भवेत्

2.13.13

साहं लब्धा महीपाल मनसा वशगा तव ।
ज्ञात्वा सपत्नीप्रभवं दुःखं भर्ता कृतो मया

2.13.14

वत्स्यामि पर्वतश्रेष्ठे बह्वाश्चर्यसमन्विते ।
न त्वं वससि राजेन्द्र संध्यावल्या विना क्वचित्

2.13.15

तस्यास्त्वं विरहे दुःखी सपुत्राया भविष्यसि ।
दुःखेन भवतो राजन्भूरि दुःखं भवेन्मम

2.13.16

यत्रैव भवतः सौख्यं तत्राहमपि संस्थिता ।
यत्र त्वं रंस्यसे राजंस्तत्र मे मन्दरो गिरिः

2.13.17

भर्तृस्थाने हि वस्तव्यमृद्धिहीने ऽपि भार्यया ।
स मेरुः काञ्चनमयः सन्निधाने प्रचक्षते

2.13.18

मनोरथो नाम मेरुर्यत्र त्वं रमसे विभो ।
भर्तृस्थानं परित्यज्य स्वपितुर्वापि वर्जितम्

2.13.19

पितृस्थानाश्रयरता नारी तमसि मज्जति ।
सर्वधर्मविहीनापि नारी भवति सूकरी

2.13.20

एवं जानाम्यहं दोषं कथं वत्स्यामि मन्दरे ।
ममिष्यामित्वया सार्द्धमीशस्त्वं सुखदुःखयोः

2.13.21

मोहिन्यास्तद्वचः श्रुत्वा राजा संहृष्टमानसः ।
परिष्वज्य वरारोहामिदं वचनमब्रवीत्

2.13.22

भार्याणां मम सर्वासामुपरिष्टाद्भविष्यसि ।
मा शङ्कां कुरु वामोरु यतो दुःखं भविष्यति

2.13.23

जीवितादधिका सुभ्रु भविष्यसि गृहे मम ।
एहि गच्छाव तन्वङ्गि सुखाय नगरं प्रति

2.13.24

भुङ्क्ष्व भोगान्मया सार्द्धं तत्रस्था स्वेच्छया प्रिये

2.13.25

सा त्वेवमुक्ता शशिगौरवक्त्रा रुक्माङ्गदेनात्मविनाशनाय ।
संप्रस्थिता नूपुरगोषयुक्ता विकर्षयन्ती गिरिजातशोभाम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc