नारद पुराण · अध्याय 1.8
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सत्पमो ऽध्यायः
सनक उवाच
एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर ।
चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासररम्
गते वर्षार्ध्दके काले ज्येष्ठा राज्ञी तु या द्विज ।
तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति
ततस्तया गरो दत्तः कनिष्ठायै तु पापया ।
न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया
भूलेपनादिभिः सम्यग्यतः सामुदिनं मुनेः ।
चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा
ततो मास त्रये ऽतीते गरेण सहितंसुतम् ।
सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा
अहो सत्संगतिर्लोके किं पापं न विनाशयेत् ।
न तदातिसुखं किं वा नराणां पुण्यकर्मणाम्
ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारीतं परैः ।
तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम्
जडो ऽपि याति पूज्यत्वं सत्संगाज्जगतीतलं ।
कलामात्रो ऽपि शीताशुः शंभुना स्वीकृतो यथा
सत्संगतिः परामृद्धिं ददाति हि नृणां सदा ।
इहामुत्र च विग्नेन्द्र सन्तः पूज्यतमास्ततः
अहो महग्दुणान्वक्तुं कः समर्थो मुनीश्वरा ।
गर्भं प्रात्पो गरो जीर्णो मासत्रयमहो ऽद्भुतम्
गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः ।
जातकर्म चचकारासौ तन्नाम सगरेति च
पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम् ।
चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः
शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रवित् ।
समर्थं सगरं दृष्ट्वा किञ्चिदुद्भिन्नशैशवम्
मन्त्रवत्सर्व शास्त्रास्त्रं दत्तवान्स मुनीश्वरः ।
सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने
बभूव बलवान्धर्मि कृतज्ञो गुणवान्सुधीः ।
धर्मज्ञः सो ऽपि सगरो मुनेरमिततेजसः ।
सभित्कुशांवुपुष्पादि प्रत्यहं समुपानयत्
स कदाचिद्गुणिनिधिः प्रणिपत्य स्वमातरम् ।
उवाच प्राञ्जलिर्भूत्वा सगरो विनयान्वितः
सगर उवाच
मातर्गतः पिता कुत्र किंनामा कस्य वंशजः ।
तत्सर्वं मेसमाचक्ष्व श्रोतुं कौतूहलं मम
पित्रा विहीना ये लोके जीवन्तो ऽपि मृतोपमाः
दरीद्रो ऽपि पिता यस्य ह्यास्ते स धनदोपमः ।
यस्य माता पिता नास्ति सुखं तस्य न विद्यते
धर्महीनो यथा मूर्खः परत्रेह च निन्दितः ।
मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः ।
अपुत्रस्य वृथां जन्म ऋणग्रस्तस्य चैव हि
चन्द्रहीना यथा रात्रिः पह्महीनं यथा सरः ।
पतिहीना यथा नारी पितृहीनस्तथा शिशुः
धर्महीनो यथा जन्तुः कर्महीनो यथा गृही ।
पशुहीनो यथा वैश्यस्तया पित्रा विनार्भक्तः
सत्यहीनं यथा वाक्यं साधुहीना यथा सभा ।
तपो यथा दयाहीनं सथा पित्रा विवार्भकः
वृक्षहीनं यथारण्यं जलहीना यथा नदी ।
बेदहीनो यथा वाजी तथा पित्रा विनार्भक्तः
यथा लगुतरो लोके मातर्याव्ञापरो नरः ।
तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः
इतीतितं सुतेनैषा श्रुत्वा निःश्वास्य दुःखिता ।
संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत्
तच्छुत्वा सगरः क्रुद्धः कोपसंरक्त लोचनः ।
हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा
प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः ।
प्रस्थापितः प्रतस्थे च तेनैव मुनिना वदा
और्वाश्रमाद्रिनिष्क्रान्तः सगरः सत्यवाक् शुचिः ।
वशिष्टं स्वकुलाचार्यं प्रात्पः प्रीतिसमन्वितः
प्रणम्य गुरवे तस्मै विशिष्टाय महात्मने ।
सर्वं विज्ञापत्रामास ज्ञानदृष्ट्या विजानते
ऐन्द्रास्त्रं वारुणं ब्राह्ममाग्रेयं सगरो नृपः ।
तेनैव मुनिनावाप खड्गं वज्रोपमं धनुः
ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् ।
आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम्
एकेनैव तु चापेन स शूरः परिपन्थिनः ।
सपुत्रपौत्रान्सगणानकरोत्स्वर्गासिनः
तच्चापमुक्तबाणाग्निसंततास्तदरातवः ।
केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः
केचिद्विशीर्ण केशाश्चवल्मीकोपरि संस्थिताः ।
तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जनलम्
शकाश्च यवनाश्वेवतथा चान्ये महीभृतः ।
सत्वरं शरणं जग्मुर्वशिष्टं प्राणलोलुपाः
जितक्षितिर्बाहुपुत्रो रिपून्गुरुसमीपगान् ।
चारैर्विज्ञातवान्सद्यः प्रात्प श्चाचार्यसन्निधिम्
तमागतं बाहुसुतं निशम्य मुनिर्वशिष्टः शरणागतांस्तान् ।
त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन
चकार मुण्डाञ्शबरान्यवनांल्लम्बमूर्द्धजान् ।
अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदवहिष्कृतान्
वसिष्टमुनिना तेन हतप्रायान्निरीक्ष्य सः ।
प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम्
॥ सागर उवाच
भो भो गुरो दुराचारानेतान्रक्षसि तान्वृथा ।
सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान्
उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः ।
स एव सर्वनाशाय हेतुभूतो न संशयः
बान्धवं प्रथमं मत्वा दुर्जताः सकलं जगत् ।
त एव बलहीनाश्चेद्भजन्ते ऽत्यन्तसाधुताम्
अहो मायाकृतं कर्म खलाः कश्मलचेतसः ।
तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम्
दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम् ।
साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत्
प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः ।
तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये
पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च ।
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः
श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थकोविदः ।
साधुत्वं समभावं च खलानां नैव विश्वसेत्
दुर्जनं प्रणतिं यान्ते मित्रं कैतवशीलितम् ।
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः
मा रक्ष तस्मादेतान्वै गोरुपव्याघ्रकर्मिणः ।
हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे
वशिष्टस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः ।
कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह
वसिष्ट उवाच
साधु साधु महाभाग सत्यं वदसि सुव्रत ।
तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि
मयैते निहिताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः ।
हातानां हनवे कीर्तिः का समुत्पद्यते वद
भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः ।
तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः
देहस्तु पापजनितः पूर्वपमेवैनसा हतः ।
आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः
स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः ।
कर्माणि दैवमूलानि देवाधीनमिदं जगत्
आत्मा ह्यभेद्यः रक्षिता दुष्टशिक्षिता ।
ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद
शरीरं पापसंभूतं पापेनैव प्रवर्तते ।
पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः
आत्मा शुद्धो ऽपि देहस्थो देहीति प्रोच्यते बुधैः ।
तस्मादिदं वपुर्भूप पापमूलं न संशयः
पापमूलवपुर्हन्तुः का कीर्तिस्तव बाहुज ।
भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत
इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः ।
स्पृशन्करेण सगरं नन्दनं मुनयस्तदा
अथाथर्वनिधिस्तस्य सगरस्य महात्मनः ।
राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः
भार्याद्वयं च तस्यासीत्केशिनी सुमति स्तथा ।
काश्यपस्य विदर्भस्य तनये मुनसत्तम
राज्ये प्रतिष्टिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः ।
वनादागत्य राजानं संभाष्य स्वाश्रमं ययौ
कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितोमुनिः ।
वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित्
क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः ।
केशितीं सुमतिं चैव इदमाह प्रहर्षयम्
और्व उवाच
एका वंशधरं चैकमन्या षड्युतानि च ।
अपत्यार्थं महाभागे वृणुतां च यथेप्सितम्
अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद ।
केशिन्येकं सुतं वव्रे वंशसन्तानकारणम्
षष्टिसहस्राणि सुमत्या ह्यभवन्सुताः ।
नाम्नासमञ्जाः केशिन्यास्तनयो मुनिसत्तम
असमञ्जास्तु कर्माणि चकारोन्मत्तचेष्टितः ।
तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः
तद्वालभावं संदुष्टं ज्ञात्वा बाहुसुतो नृपः ।
चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम्
अहो कष्टतरा लोके दुर्जनानां हि संगतिः ।
कारुकैस्ताड्यते वह्णिरयःसंयोगमात्रतः
अंशुमान्नाम तनयो बभूव ह्यसमञ्जसः ।
शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः
दुर्वृत्ताः सागराः सर्वे लोकोपद्रव कारिणः ।
अनुष्टानवतां नित्यमन्तराया भवन्ति ते
हुतानि यानि यज्ञेषु हवींषि विधित्रद्दिजैः ।
बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः
स्वर्गादाहृत्य सवतं रम्भाद्या देवयोषितः ।
भजन्ति सागरास्ता वै कचग्रहबलात्कृताः
पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः ।
भूषयन्ति स्वदेहानि मद्यपानपरायणाः
साधुवृत्तीः समाजह्नुः सदाचाराननाशयन् ।
मित्रैश्च योद्रुमारब्धा बलिनो ऽत्यन्तपापिनः
एतद्दृष्ट्वातिदुःखार्ता देवा इन्द्रपुरोगमाः ।
विचारं परमं चक्रुरेतेषुं नाशहेतवे
निश्चित्य विवुधाः सर्वे पातालान्तरगोचरम् ।
कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः
ध्यायन्तमात्मनात्मानं परानैदैकविग्रहम् ।
प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः
देवा ऊचुः
नमस्ते योगिने तुभ्यां साङ्ख्ययोगरताय च ।
नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः
नमः परेशभक्ताय लोकानुग्रहहेतवे ।
संसारारण्यदावाग्रे धर्मपालनसेतवे
महते वीतरागाय तुभ्यं भूयो नमो नमः ।
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान्
कपिल उवाच
ये तु नाशमिहेच्छन्ति यशोबलधनायुषाम् ।
त एव लोकान्बाधन्ते नात्राश्वार्यं सुगेतमाः
यस्तु बाधितुमिच्छेत जनान्निरपराधिनः ।
तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः
कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा ।
तं हन्ति दैवमेवाशु नात्र कार्या विचारणा
अल्पैरहोभिरे वैते नाशमेष्यन्ति सागराः ।
इत्युक्तं मुनिना तेन कपिलेन महात्मना ।
प्रणम्य तं यथान्यायं गता नाकं दिवौकसः
अत्रान्तरे तु सगरोवसिष्टाद्यैर्महर्षिभिः ।
आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम्
तद्यज्ञे योजितं सत्पिमपहृत्य सुरेश्वरः ।
पाताले स्थापयामास कपिलो यत्र तिष्टति
गूढविग्रहशक्रेण हृतमश्वं तु सागराः ।
अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः
अहष्टसत्पयस्ते च पातालं गन्तु मुद्यताः ।
चख्नुर्महीतलं सर्वमेकैको योजनं पृथक्
मृत्तिकां खनितां ते चौदधितीरे समाकिरन् ।
तद्वारेण गताः सर्वे पातालं सगरात्मजाः
विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः
तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम् ।
कपिलं ध्याननिरतं वाजिनं च तदन्तिके
ततः सर्वे तु संरब्धा मुनिं दृष्ट्वातिवेगतः ।
हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन्
हन्यतां हन्यतामेष वध्यतां वध्यतामयम् ।
गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम्
हृताश्वं साधुभावेन बकवद्ध्यानतत्परम् ।
सन्ति चारो खला लोके कुर्वन्त्याडम्बरं महत्
इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम् ।
समस्तेन्द्रियसंदोहं नियम्यात्मानमात्मनि
आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि
आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम् ।
पद्भिः संताडयामासुर्बुहूं च जगृहुः परे
ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा ।
उवाच भावगम्भीरं लोकोपद्रवकारिणः
ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ।
अहॄङ्कारविमूढानां विवेको नैव जायते
निधेराधारमात्रेण मही ज्वलति सर्वदा ।
तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम्
किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः ।
महीरुहां श्चानुतटे पातयन्ति नदीरयाः
यत्र श्रीर्यौंवनं वापि शारदा वापि तिष्टति ।
तत्राश्रीर्वृद्धता नित्यं मुर्खत्वं चापि जायते
अहो कनकमाहात्म्यमाख्यातुं केन शक्यते ।
नामसाम्यादहो चित्रं धत्तूरो ऽपिमदप्रदः
भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी ।
यथा सखाग्नेः पवनः पन्नगस्य यथा विषम्
अहो धनमदान्दस्तु पश्यन्नपि न पश्यति ।
यदि पश्यत्यामहितं स पश्यति न संशयः
इत्युक्त्वा कपिलः क्रुद्धो नेत्राभ्यां ससृजे ऽनलम् ।
स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात्
यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः ।
अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः
तदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः ।
सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः
अथ तस्य महीपस्य समागम्याध्वरं तदा ।
देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते
एतत्समाकर्ण्य वचः सगरः सर्ववित्प्रभुः ।
दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः
माता वा जनको वापि भ्राता वा तनयो ऽपि वा ।
अधर्मं कुरुते यस्तु स एव रिपुरिष्यते
यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत् ।
तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः
सगरः पुत्रनाशे ऽपि न शुशोच मुनीश्वरः ।
दुर्वृत्तनिधनं यस्मात्सतामुत्साह कारणम्
यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः ।
पौत्रं तमंशुमन्तं हि पुत्रत्वे कतवान्प्रभुः
असमञ्जःसुतं तु सुधीयं वाग्विदांवरम् ।
युयोज सारविद्भूयो ह्यश्चानयनकर्मणि
स गतस्तद्विलद्वारे दृष्ट्वा तं मुनिपुङ्गवम् ।
कपिलं तेजसांराशिं साष्टाङ्गंप्रणनामहा
कृताञ्जलिपुटो भूत्वा विनये नाग्रतः स्थितः ।
उवाच शान्तमनसं देवदेवं सनातनम्
अंशुमानुवाच
दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्वतत् ।
परोपकारनिरताः क्षमासारा हि साधवः
दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
नहि संहरतेज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः
बाध्यमानो ऽपि सुजनः सर्वेषां सुखकृद्भवेत् ।
ददाति परमां तुष्टिं भक्ष्यमाणो ऽमरैः शशी
दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः ।
सौरभं कुरुते सर्वं तथैव सुजनोजनः
क्षान्त्या च तपसा चारैस्तद्गुणज्ञा मुनीश्वराः ।
संजातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम
नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये ।
नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च
इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा ।
वरं वरय चेत्याह प्रसन्नो ऽस्मि तवानघ
एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्यतम् ।
प्रापयास्मत्पितॄन्ब्राह्मं लोकमित्यभ्यभाषत
ततस्तस्यादिसंतुष्टो मुनिः प्रोवाच सादरम् ।
गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम्
त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी ।
कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम्
प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम् ।
पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत्
सगरस्तेन पशुना तं यज्ञं ब्रह्मणैः सह ।
विधाय तपसा विष्णुमाराध्यापपदंहरेः
जज्ञे ह्यंशुमतः पुत्रो दिलीप इति विश्रुतः ।
तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः
भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने ।
गङ्गां भगीरथायाः चिन्तयामा स धारणे
ततश्च शिवमाराध्य तद्द्वारा स्वर्णदीं भुवम् ।
आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन्
भगीरथान्वये जातः सुदसो नाम भूपतिः ।
यस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः
वशिष्टशापात्प्रात्पः स सौदासो राक्षसीं तनुम् ।
गङ्गाबिन्दुनिषेवेणंपुनर्मुक्तो नृपो ऽभवत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0