नारद पुराण · अध्याय 1.41
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशो ऽध्यायः
नारद उवाच
आख्यातं भवता सर्वं मुने तत्त्वार्थ कोविद ।
इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम्
सनक उवाच
साधु साधु महाप्राज्ञ मुने लोकोपकारक ।
युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान्
धर्मो विवृद्धिमायाति काले कस्मिंश्चिदुत्तम ।
तथा विनासमायाति धर्ंम एव महीतले
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम
संध्यासन्ध्यांशयुक्तानि युगानि सदृशानि वै ।
कालतो वेदितव्यानि इत्युक्तं तत्त्वा दर्शिभिः
आद्ये कृतयुगं प्राहुस्ततस्त्रेताविधानकम् ।
ततश्च द्वापरं प्राहुः कलिमन्त्यं विदुः क्रमात्
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
नासन्कृतयुगे विप्र सर्वे देवसमाः स्मृताः
सर्वे हृष्टाश्च धर्मिष्टा न तत्र क्रयविक्रयौ ।
वेदानां च विभागश्च न युगे कृतसंज्ञके
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारतत्पराः ।
सदा नारायणपरास्तपोध्यानपरायणाः
कामादिदोषनिर्मुक्ताः शमादिगुणतत्पराः ।
धर्मसाधनचित्ताश्च गतासूया अदांभिकाः
सत्यवाक्यरताः सर्वे चतुराश्रमधर्मिणः ।
वेदाध्ययनसंपन्नाः सर्वशास्त्रविचक्षणाः
चतुराश्रमयुक्तेन कर्मणा कालयोनिना ।
अकामफलसंयोगाः प्रयान्ति परमां गतिम्
नारायणः कृतयुगे शुक्लवर्णः सुनिर्मलः ।
त्रेताधर्मान्प्रवक्ष्यामि शृणुष्व सुसमाहितः
धर्मः पाण्डुरतां याति त्रेतायां मुनिसत्तम ।
हरिस्तु रक्तातां याति किञ्चित्क्लेशान्विता जनाः
क्रियायोगरताः सर्वे यज्ञकर्मसु निष्टिताः ।
सत्यव्रता ध्यानपराः सदाध्यानपरायणाः
द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर ।
हरिः पीतत्वमायाति वेदश्चापि विभज्यते
असत्यनिरताश्चापि केचित्तत्र द्विजोत्तमाः ।
ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः
केचित्स्वर्गापवर्गार्थं विप्रयज्ञान्प्रकुर्वते ।
केचिद्धनादिकामाश्च केचित्कल्मषचेतसः
धर्माधर्मौं समौ स्यातां द्वापरे विप्रसत्तम ।
अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा
अल्पायुषो भविष्यन्ति केचिञ्चापि मुनीश्वर ।
केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते
कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते
तामसं युगमासाद्य हरिः कृष्णत्वमेति च ।
यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च
यः कश्चिदपि पुण्यात्मा क्रियायोगरतो भवेत् ।
नरं धर्मरतं दृष्ट्वा सर्वे ऽसूयां प्रकुर्वते
व्रताचाराः प्रणश्यन्ति ज्ञानयज्ञादयस्तथा ।
उपद्रवा भविष्यन्ति ह्यधर्मस्य प्रवतनात्
असूयानिरताः सर्वे दंभाचारपरायणाः ।
प्रजाश्चाल्पायुषः सर्वा भविष्यन्ति कलौ युगे
नारद उवाच
युगधर्माः समाख्यातास्त्वया संक्षेपतो मुने ।
कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चमुनिसत्तम ।
किमाहाराः किमाचाराः भविष्यन्ति कलौ युगे
सनक उवाच
शृणुष्व मुनिशार्दूल सर्वलोकोपकारक ।
कलिधर्मान्प्रवक्ष्यामि विस्तरेण यथातथम्
सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते ।
तस्मात्कलिर्महाघोरः सर्वपातकसंकरः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः ।
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः
व्याजधर्मरताः सर्वे असूयानिरतास्तथा ।
वृथाहॄङ्कारदुष्टाश्च सत्यहीनाश्च पण्डिताः
अहमेवाधिक इति सर्वे ऽपि विवदन्ति च ।
अधर्मलोलुपाः सर्वले तथा वैतंहिका नराः
अतः स्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे ।
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विज
विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः ।
व्यात्क्रमेण प्रजाः सर्वा म्नियन्ते पापतत्पराः
ब्राह्मणाद्यास्तथा वर्णाः संकीर्यन्ते परस्परम् ।
कामक्रोधपरा मूढा वृथासंतापपीडिताः
शूद्रतुल्या भविष्यन्ति सर्वे वर्णा कलौ युगे ।
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा
राजनो द्रव्यनिरतास्तथा ह्यन्यायवर्त्तिनः ।
पीडयन्ति प्रजाश्चैव करैरत्यर्थयोजितैः
शववाहाभविष्यन्ति शूद्राणां च द्विजातयः ।
धर्मस्त्रीष्वपि गच्छन्ति पतयो जारधर्मिणः
द्विषन्ति पितरं पुत्रा भर्तारं च स्त्रियो ऽखिलाः ।
परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः
मत्स्यामिषेण जीवन्ति दुहॄन्तश्चाप्यजीविकाम् ।
घोरे कलियुगे विप्र सर्वे पापरता जनाः
सतामसूयानिरतां उपहासं प्रकुर्वते ।
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः
पृथ्वी निष्फलतां याति बीजं पुष्पं विनश्यति ।
वेश्यालावंयशीलेषु स्पृहा कुर्वन्ति योषितः
धर्मविक्रयिणो विप्राः स्त्रियश्च भगविक्रयाः ।
वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः
साधूनां विधवानां च वित्तान्य पहरन्ति च ।
न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः
धर्माचारं परित्यज्य वृथावादैर्विषज्जिताः ।
द्विजाः कुर्वन्ति दंभार्थं पितृश्राद्धादिकाः क्रियाः
अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः ।
दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते
न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः ।
अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः
साधुनिन्दापराश्चैव विप्रनिन्दापरास्तथा ।
न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत्
यज्विनश्च द्विजानैव धनार्थराजकिङ्कराः ।
ताडयन्ति द्विजान्दुष्टाः कृष्णे कृष्णत्वमागते
दानहीना नराः सर्वे घोरे कलियुगे मुने ।
प्रतिग्रहं प्रकुर्वन्ति पतितानामपि द्विजाः
कलेः प्रथमपादे ऽपि विंनिन्दन्ति हरिं नराः ।
युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति
शूद्रस्त्रीसंगनिरता विधवासंगलोलुपाः ।
शूद्रान्नभोगनिरता भविष्यन्ति कलौ द्विजाः
विहाय वेदसन्मार्गं कुपथाचारसंगताः ।
पाषण्डाश्चभविशष्यन्तिचतुराश्रमनिन्दकाः
न चद्विजा तिशुश्रूषां कुर्वन्ति चरणोद्भवाः ।
द्विजातिधर्मान्गृह्णन्ति पाखण्डलिङ्गिनो ऽधमाः
काषायपरिवीताश्च जटिला भस्मधूलिताः ।
शूद्राधर्मान्प्रवक्ष्यन्ती कूटयुक्तपरायणाः
द्विजाःस्वाचारमुत्ःसृज्यचपरपाकान्नभोजिनः ।
भविष्यन्तिदुरात्मानः शूद्राः प्रव्रजितास्तथा
उत्कोचजीविनस्तत्र भविष्यन्ति कलौ मुने ।
धर्मटीनास्तु पाषण्डा कापाला भिक्षवो ऽधमाः
धर्मविध्वंसशीलानां द्विजानां द्विजसत्तम ।
शूद्रा धर्मान्प्रवक्ष्यन्तिह्यधिरुह्योत्तमासनम्
एते चान्येच बहवो नग्नरक्तपटादिकाः ।
पाषण्डाः प्रचारिष्यन्ति प्रायो वेदविदूषकाः
गीतवादित्रकुशलाः क्षुद्रधर्मसमाश्रयाः ।
भविष्यन्तिकलौ प्रायो धर्मविध्वंसका नराः
अल्पद्रव्या वृथालिङ्गा वृथाहॄङ्कारदूषिताः ।
हर्तारं परवित्तानां भवितारो नराधमाः
प्रतिग्रहपरा नित्यं जगदुन्मार्गशीलिनः ।
आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा
विश्वस्तघातिनः क्रूरा दयाधर्मविवर्जिताः ।
भविष्यन्ति नरा विप्र कलौ चाधर्मबान्धवाः
परमायुश्च भविता तदा वर्षाणि षोडश ।
घोरे कलियुगे विप्र पञ्चवर्षा प्रसूयते
सप्तवर्षाष्टवर्षाश्च युवानो ऽतः परे जरा ।
स्वकर्मत्यागिनः सर्वे कृतघ्नाभिन्नवृत्तयः
याचकाश्चद्विजा नित्यं भविष्यन्ति कलौ युगे ।
परावमाननिरताः प्रहृष्टाः परवेश्मनि
तत्रैव निन्दानिरता वृथाविश्रंभिणो जनाः ।
निदां कुर्वन्ति सततं पितृमातृसुतेषु च
वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ।
धनविद्यावयोमत्ताः सर्वदुःखपरायणाः
व्याधितस्करदुर्भिक्षैः पीडिता अतिमांयिनः ।
प्रपुष्यन्ति वृथैवामी न विचार्य च दुष्कृतम्
धर्ममार्गप्रणेतारं तिरस्कुर्वन्ति पापिनः ।
धर्मकार्ये रतं चैव वृथाविश्रंभिणो जनाः
भविष्यन्ति कलौ प्राप्ते राजानो म्लेच्छजातयः ।
शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः
न शिष्यो न गुरुः कश्चिन्न पुत्रो लन पिता तथा ।
न भार्या न पतिश्चैव भवितारो ऽत्र संकरे
कलौ गते भविष्यन्ति धनाढ्या अपि याचकाः ।
रस विक्रयिणश्चापि भविष्यन्ति द्विजातयः
धर्मकञ्चुकसंवीता मुनिवेषधरा द्विजाः ।
अपण्यविक्रयरता अगम्यागामिनस्तथा
वेदनिन्दापराश्चैव धर्मशास्त्रविनिन्दुकाः ।
शूद्रवृत्त्यैव जीवन्ति नरकार्हा द्विजा मुने
अनावृष्टभयं प्राप्ता गगनासक्तदृष्टयः ।
भविष्यन्ति कलौ मर्त्यासर्वे क्षुद्भयकातराः
कन्दपर्णफलाहारास्तापंसा इव मानवाः ।
आत्मानं तारयिष्यन्ति अनावृष्ट्यातिदुखिताः
कामार्ता ह्रस्वदेहाश्च लुब्धा श्चाधर्मतत्पराः ।
कलौ सर्वे भविष्यन्ति स्वल्पभाग्या बहुप्रजाः
स्त्रियः स्वपोषणपरा वेश्या लावण्यशीलिकाः ।
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः
दुःशीला दुष्टशीलेषु करिष्यिन्ति सदा स्पृहाम् ।
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः
चौरादिभयभीताश्च काष्टयन्त्राणि कुर्वते ।
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः
गोधूमान्नयवान्नाढ्ये देशे यास्यन्ति दुःखिताः ।
निधाय हृद्यकर्मणि प्रेरयन्ति वचः शुभम्
स्वकार्यसिद्धिपर्यन्तं बन्धुतां कुर्वते जनाः ।
भिक्षवश्चाव मित्रादिस्नेहसंबन्धयन्त्रिताः
अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति भिक्षवः
उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
कुर्वन्त्यो गुरुभर्तृआणामाज्ञामुल्लङ्घयन्ति च
पाषण्डालापनिरताः पाषण्डजनसंगिनः ।
यदा द्विजा भविष्यन्ति तदा वृद्धिं कलिर्व्रजेत्
यदा प्रजा न यक्ष्यन्ति न होष्यन्ति द्विजातयः ।
तदैव तु कलेर्वृद्धिरनुमेया विचक्षणैः
अधर्मवृद्धिर्भविता बासमृत्युरपि द्विजा ।
सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत्
एवं कलेः स्वरूपं ते कथितं विप्रसत्तम ।
हरिभक्तिपरानेष न कलिर्बाधते क्वचित्
ततः परं कृतयुगे त्रेतायुगे त्रेतायां ध्यानमेव च ।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे
यत्कृते दशभिर्वर्षैस्त्रेतायां शरदा च यत् ।
द्वापरे यञ्च मासेन ह्यहोरात्रेण तत्कलौ
ध्यायन्कृते जयन्यज्ञैस्त्रेतायां द्वापरेर्ऽचयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्
अहोरात्रं हरेर्नाम कीर्तयन्ति च ये नराः ।
कुर्वन्ति हरिपूजां वा न कलिर्बाधते च तान्
नमो नारायणायेति कीर्तयन्ति च ये नराः ।
निष्कामा वा सकामा वा न कलिर्बाधते च तान्
हरिनामपरा ये तु घोरे कलियुगे द्विज ।
त एव कृतकृत्याश्च न कलिर्बाधते हि तान्
.
हरिपूजापरा ये च हरिनामपरायणाः ।
त एव शिवतुल्याश्च नात्र कार्या विचारणा
समस्तजगदाधारं परमार्थस्वरुपिणम् ।
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति
अहो अति सुभाग्यास्ते सकृद्वै केशवार्चकाः ।
घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते
न्यूनातिरिक्तदोषाणां कलौ वेदोक्तकर्मणाम् ।
हरिस्मरणमेवात्र संपूर्णत्वविधायकम्
हरे केशव गोविन्द वासुदेव जगन्मय ।
इतीरयन्ति ये नित्यं नहि तान्बाधते कलिः
शिव शङ्कर रुद्रेश नीलकण्ठ त्रिलोचन ।
इति जल्पन्ति ये वापि कलिस्तान्नापि बाधते
महादेव विरूपाक्ष गङ्गाधर मृडाव्यय ।
इत्थं वदन्ति ये विप्र ते कृतार्था न संशयः
जनार्दन जगन्नात पीतांबरधराच्युत ।
इति वाप्युञ्चरन्तीह न च तेषां कलेर्भयम्
संसारे सुलभाः पुंसां पुत्रदारधनादयः ।
घोरे कलियुगे विप्र हरिभक्तस्तु दुर्लभा
कर्मश्रद्धाविहीना ये पाषण्डा वेदनिन्दकाः ।
अधर्मनिरता नैव नरकार्हा हरिस्मृतेः
वेदमार्गबहिष्टानां जनानां पापकर्मणाम् ।
मनः शुद्धिविहीनानां हरिनाम्नैव निष्कृतिः
दैवाधीनं जगत्सर्वमिदं स्थावरजङ्गमम् ।
यथाप्रेरितमेतेन तथैव कुरुतें द्विज
शक्तितः सर्वकर्माणि वेदोक्तानि विधाय च ।
समर्पयेन्महाविष्णौ नारायणपरायणः
समर्पितानि कर्माणि महविष्णौ परात्मनि ।
संपूर्णतां प्रयान्त्येव हरिस्मरणमात्रतः
हरिभक्तिरतानां च पापबन्धो न जायते ।
अतो ऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम्
अहो हरिपरा ये तु कलौ घोरे भयङ्करे ।
ते सुभाग्या महात्मानः सत्संगर हिता अपि
हरिस्मरणनिष्टानां शिवनामरतात्मनाम् ।
सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विज
अहो भाग्यमहो भाग्यं हरिनाम रतात्मनाम् ।
त्रिदर्शेरपि ते पूज्याः किमन्यैर्बहुभाषितैः
तस्मात्समस्तलोकानां हितमेव मयोच्यते ।
हरिनामपरान्मर्त्यान्न कलिर्बाधर्तक्वचित्
हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव गतिरन्यथा
सूत उवाच
एवं स नारदो विप्राः सनकेन प्रबोधितः ।
परां निर्वृत्तिमापन्नः पुनरेतदुवाच ह
नारद उवाच
भगवन्सर्वशास्त्रज्ञ स्वयातिकरुणात्मना ।
प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम्
एतदेव परं पुण्यमेतदेव परं तपः ।
यः स्मरेत्पुण्डरीकाक्षं सर्वपापविनाशनम्
ब्रह्मन्नानाजगञ्चैतदेकचित्संप्रकाशितम् ।
त्वयोक्तं तत्प्रतीये ऽहं कथं दृष्टान्तमन्तरा
तस्माद्येन यथा ब्रह्म प्रतीतं बोधितेन तु ।
तदाख्याहि यथा चित्तं सीदत्स्थितिमवाप्नुयात्
एतच्छ्रुत्वा वचो विप्रा नारदस्य महात्मनः ।
सनकः प्रत्युवाचेदं स्मरन्नारायणं परम्
सनक उवाच
ब्रह्मन्नहं ध्यानपरो भवेयं सनन्दनं पृच्छ यथाभिलाषम् ।
वेदान्तशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवन्द्यः
इतीरितं समाकर्ण्य सनकस्य स नारदः ।
सनन्दनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0