नारद पुराण · अध्याय 1.40
इति बृहन्नारदीयपुराणे पूर्वभागे प्रथम पादे विष्णुमाहात्म्यं नाम एकोनचत्वारिंशो ऽध्यायः
सनक उवाच
अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने ।
यां शृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत्
वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः ।
संवादः सुमहानासीत्तं वक्ष्यामि निशामय
एकदा सर्वभोगाढ्यो विबुधैः परिवारितः ।
अप्सरोगणसंकीर्णो बृहस्पतिमभाषत
इन्द्र उवाच
बृहस्पते महाभाग सर्वतत्त्वार्थकोविद ।
अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो
इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः ।
तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि
बृहस्पतिरुवाच
न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः ।
वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे
मनवः समतीताश्च तान्वक्तुमपि न क्षमः ।
यो विजानाति तं ते ऽद्य कथयामि निशामय
सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव ।
भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः
स वा एत द्विजानाति कथयामि निशामय ।
एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः
देवतागणसंकीर्णः सुधर्मनिलयं ययौ
समागतं देवपतिं बृहस्पतिसमन्वितम् ।
दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम्
सुधर्मेणार्चितः शङ्क्रो दृष्ट्वा तच्छ्रियमुत्तमाम् ।
मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः
इन्द्र उवाच
अतीतब्रह्मकल्पस्य वृत्तान्तं वेत्सि चेद्बुध ।
तदाख्याहि समायात एतत्प्रष्टुं सयाजकः
गतनिद्रांश्च देवांश्च येन जानासि सुव्रत ।
तद्वदस्वाधिकः कस्मादस्मद्भ्यो ऽपि दिवि स्थितः
तेजसायशसा कीर्त्या ज्ञानेन च परन्तप ।
दानेन वा तपोभिर्वा कथमेतादृशः प्रभो
इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा ।
प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि
सुधर्म उवाच
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।
एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश
इन्द्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् ।
इन्द्राणां चैव सर्वेषां मन्वादीनां च वासव
तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च ।
तेषां नामानि वक्ष्यामि शृणुष्व सुसमाहितः
स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा
वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः ।
नवमो दक्षसावर्णिः सर्वदेवहिते रतः
दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः ।
ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः
भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः ।
देवानिन्द्रांश्च वक्ष्यामि शृणुष्व विबुधर्षभ
यामा इति समाख्याता देवाः स्वायंभुवेंऽतरे ।
शचीपतिः समाख्यातस्तेषामिन्द्रो महापतिः
पारावताश्च तुषिता देवाः स्वारोचिषेंऽतरे ।
विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः
सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः ।
तेषामिन्द्रः सुशान्तिश्च तृतीये परिकीर्तितः
सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा ।
तेषामिन्द्रः शिवः प्रोक्तः शक्रस्तामसकेंऽतरे ।
विभानामा देवपतिः पञ्चमः परिकीर्तितः
अमिताभादयो देवाः षष्ठे ऽपि च तथा शृणु ।
आर्याद्या विबुधाः प्रोक्तास्तेषा मिन्द्रो मनोजवः
आदित्यवसुरुद्राद्या देवा वैवस्वतंऽतरे ।
इन्द्रः पुरन्दरः प्रोक्तः सर्वकामसमन्वितः
अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः ।
विष्णुपूजाप्रभावेण तेषामिन्द्रो बलिः स्मृतः
पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते ।
सुवासनाद्या विबुधा दशमे परिकीर्तिताः
शान्तिर्नाम च तत्रेन्द्रः सर्वभोगसमन्वितः ।
विहॄङ्गॄमाद्या देवाश्च तेषामिन्द्रो वृषः स्मृतः
एकादशे द्वादशे तु निबोधकथायामि ते ।
क्रभुवनामा च देवेन्द्रो हरिनाभास्तथा सुराः
सुत्रामाद्यास्तथा देवास्त्रयोदशतमे ऽन्तरे ।
दिवस्पतिर्महावीर्यस्तेषामिन्द्रः प्रकीर्तितः
चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः ।
एवं ते मनवः प्रोक्ता इन्द्रा देवाश्च तत्त्वतः
एकस्मिन्ब्रह्मदिवसे स्वाधिकारं प्रभुञ्जते
लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता ।
कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः
मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः ।
तेषां संख्या न संख्यातु शक्तो ऽस्म्यद्य द्विजोत्तम
स्वर्गलोकमपि प्राप्य यावत्कालं शृणुष्व मे ।
चत्वारो मनवो ऽतीता मम श्रीश्चातिविस्तरा
स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो ।
ततः परं गमिष्यामि कर्मभूमिं शृणुष्व मे
मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत ।
वदतां शृण्वतां चैव सर्वपापप्रणाशनम्
अहमांस पुरा शक्र गृध्रः पापो विशेषतः ।
स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः
एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो ।
पतितो व्याधशस्त्रेण सायं विष्णोर्गृहाङ्गणे
मयि कण्ठगतप्राणे भषणो मांसलोलुपः ।
जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः
वहन्मां स्वमुखेनैव भीतो ऽन्यैर्भषणैस्तथा ।
गतः प्रदक्षिणा कारं विष्णोस्तन्मन्दिरं प्रभो
तेनैव तुष्टिमापन्नो ह्यन्तरात्मा जगन्मयः ।
मम चापि शुनश्चापि दत्तावन्परमं पदम्
प्रदक्षिणा कारतया गतस्यापीदृं फलम् ।
संप्राप्तं विबुधश्रेष्ठ किं पुनः सम्यगर्चनात्
इत्युक्तो देवराजस्तु सुधर्मेण महात्मना ।
मनसा प्रीतिमापन्नो हरिपूजा रतो ऽभवत्
तथापि निर्जराः सर्वे भारते जन्मलिप्सवः ।
समर्चयन्ति देवेशं नारायणमनामयम् ।
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः
नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् ।
कथं भवत्युग्रभवस्य बन्धस्तत्सङ्गलुब्धा यदि मुक्तिभाजः
ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयन्ति ।
ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियान्ति हृष्टाः
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति
ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णाङ्घ्रपद्मभजने रतचेतनाश्च ।
ते वा पुंनति च जगन्ति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः
हरिपूजापरा यत्र महान्तः शुद्धबुद्धयः ।
तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज
हरिरेव परो बन्धुर्हरिरेव परा गतिः ।
हरिरेव ततः पूज्यो यतश्चेतन्यकारणम्
स्वर्गापवर्गफलदं सदानन्दं निरामयम् ।
पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति
पूजयन्ति हरिं ये तु निष्कामाः शुद्धमानसाः ।
तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति
यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः ।
स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम
इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज ।
संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0