भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.39

1.39.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नामाष्टत्रिंशो ऽध्यायः
सनक उवाच
भूयः शृणुष्व विप्रेन्द्र माहात्म्यं परमेष्टिनः ।
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम्

1.39.2

अहो हरिकथा लोके पापघ्नी पुण्यदायिनी ।
शृण्वतां वदतां चैव तद्भक्तानां विशेषतः

1.39.3

हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः ।
नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः

1.39.4

हरिभक्तिपरा ये तु हरिनामपरायणाः ।
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः

1.39.5

संसारसागरं तर्तुं य इच्छेन्मु निपुङ्गव ।
स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः

1.39.6

दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितो ऽपि वा ।
समुद्धरति गोविन्दो दुस्तराद्भव सागरात्

1.39.7

स्वपन्भुञ्जन् व्रजंस्तिष्टन्नतिष्टश्च वदंस्तथा ।
चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः

1.39.8

अहो भाग्यमहो भाग्यं विष्णु भक्तिरतात्मनाम् ।
येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा

1.39.9

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वदतां शृण्वतां चैव सर्वपाप प्रणाशनम्

1.39.10

आसीत्पुरा महीपालः सोमवंशसमुद्भवः ।
जयध्वज इति ख्यातो नारायणपरायणः

1.39.11

विष्णोर्देवालये नित्यं संमार् जनपरायणः ।
दीपदानरतश्चैव सर्वभूतदयापरः

1.39.12

स कदाचिन्महीपालो रेवातीरे मनोरमे ।
विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम्

1.39.13

स तत्र नृपशार्दूलः सदा संमार्जने रतः ।
दीपदानपरश्चैव विशेषेण हरिप्रियः

1.39.14

हरिनामपरो नित्यं हरिसंसक्तमानसः ।
परिप्रणामनिरतो हरिभक्तजनप्रियः

1.39.15

वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः ।
जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः

1.39.16

कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् ।
अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः

1.39.17

वीतिहोत्र उवाच
राजन्परमधर्मज्ञ हरिभक्तिपरायण ।
विष्णुभक्तिमतां पुंसां श्रेष्ठो ऽसि भरतर्षभ

1.39.18

संमार्जनपरो नित्यं दीपदानरतस्तथा ।
तन्मे वद महाभाग किं त्वया विदितं फलम्

1.39.19

संपादनेन वर्त्तीनां तैलसंपलादनेन च ।
संयुक्तो ऽसि सदा भद्रयद्विष्णोर्गृहमार्जने

1.39.20

कर्माण्यन्यानि संत्येव विष्णोः प्रीतिकराणि च ।
तथापि किं महाभाग एतयोः सततोद्यतः

1.39.21

सर्वात्मना महापुण्यं नरेश विदित च यत् ।
तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत्

1.39.22

पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः ।
विनयावनतो भूत्वा प्रोवाचेजं कृताञ्जलिः

1.39.23

जयध्वज उवाच
शृणुष्व विप्रशार्दूल मयैवाचरितं पुरा ।
जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम्

1.39.24

आसीत्पुरा कृतयुगे ब्रह्मन्स्वारोचिषेंऽतरे ।
रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः

1.39.25

अयाज्ययाजकश्चैव सदैव ग्रामयोजकः ।
पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी

1.39.26

निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः ।
दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितो ऽभवत्

1.39.27

स कदाचिद्धर्थं तु पृथिव्यां पर्यटन् द्विजः ।
ममार नर्मदातीरे श्वासकासप्रपीडितः

1.39.28

तस्मिन्मृते तस्य भार्या नाम्ना बन्धुमती मुने ।
कामचारपरा सा तु परित्यक्ता च बन्धुभिः

1.39.29

तस्यां जातो ऽस्मि चण्डालो दण्डकेतुरिति श्रुतः ।
महापापरतो नित्यं ब्रह्मद्वेषपरायणः

1.39.30

परदारपरद्रव्यलोलुपो जन्तुहिंसकः ।
गावश्च विप्रा बहवो निहता मृगपक्षिणः

1.39.31

मेरुतुल्यसुवर्णानि बहून्यपहृतानि च ।
मद्यपानरतो नित्यं बहुशो मार्गरोधकृत्

1.39.32

पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः ।
कदाचित्कामसंतप्तो गन्तु कामो रतिं स्त्रियः

1.39.33

शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह ।
निशि रामोपभोगार्थं शयितं तत्र कामिना

1.39.34

ब्रह्मन्स्ववस्त्रप्रान्तेन कियद्देशः प्रमार्जितः ।
यावन्त्यः पांशुकणिकास्तत्र संमार्जिता द्विज

1.39.35

तावज्जन्मकृतं पापं तदैव क्षयमागतम् ।
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम

1.39.36

तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् ।
एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः

1.39.37

जारो ऽयमिति मां तां च हतवन्तः प्रसह्य वै ।
आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः

1.39.38

यदा तदैव संप्राप्ता विष्णुदूताश्चतुर्भुजाः ।
किरीटकुण्डलधरा वनमालाविभूषिताः

1.39.39

तैस्तु संप्रेरितावावां विष्णुदूतैरकल्मषैः ।
दिव्यं विमानमारुह्य सर्वभोगसमन्वितम्

1.39.40

दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ ।
तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम

1.39.41

दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ ।
ततश्च भूमिभागेषु देवयोगेषु वै क्रमात्

1.39.42

तेन पुण्यप्रभावेण यदूनां वंशसंभवः ।
तेनैव मे ऽच्युता संपत्तथा राज्यमकण्टकम्

1.39.43

ब्रह्मन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान् ।
भक्त्या कुर्वन्ति ये संतस्तेषां पुण्यं न वेद्यहम्

1.39.44

तस्मात्संमार्जने नित्यं दीपदाने च सत्तम ।
यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः

1.39.45

यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः ।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम्

1.39.46

अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः ।
भक्तिभद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात्

1.39.47

इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः ।
अनन्ततुष्टिमापन्नो हरिपूजापरो ऽभवत्

1.39.48

तस्माच्छृणुष्व विप्रेन्द्र देवो नारायणो ऽव्ययः ।
ज्ञानतो ऽज्ञानतो वापि पूजकानां विमुक्तिदः

1.39.49

अनित्या बान्धवाः सर्वे विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः

1.39.50

अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः ।
कायः संनिहितापायो धानादीनां किमुच्यते

1.39.51

जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् ।
तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने

1.39.52

सुलभं जाह्नवी स्नानं तथेवातिथिपूजनम् ।
सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा

1.39.53

दुर्लभा तुलसीसेवा दुर्लभः संगमः सताम् ।
सर्वभूतदया वापि सुलभा यस्य कस्य चित्

1.39.54

सत्संगस्तुलसीसेबा हरिभक्तिश्च दुर्लभा

1.39.55

दुर्लभं प्राप्यं मानुष्यं न तथा गमयेद् बुधः ।
अर्चयेद्धि जगन्नाथं सारमेतद्द्विजोत्तम

1.39.56

तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम् ।
हरिभक्तिपरो भूयादेतदेव रसायनम्

1.39.57

भ्रातराश्रय गोविन्दं मा विलंबं कुरु प्रिय ।
आसन्नमेव नगरं कृतान्तस्य हि दृश्यते

1.39.58

नारायणं जगद्योनिं सर्वकारणकारणम् ।
समर्चयस्व विप्रेन्द्र यदि भुक्तिमभीप्ससि

1.39.59

सर्वाधार सर्वयोनिं सर्वान्तर्यामिणं विभुम् ।
ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः

1.39.60

ते वन्द्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः ।
येर्ऽचयन्ति महाविष्णुं प्रणतार्तिप्रणाशनम्

1.39.61

ये विष्णुभक्ता निष्कामा यञ्जति परमेश्वरम् ।
त्रिःसप्तकुलसंयुक्ता स्ते यान्ति हरिमन्दिरम्

1.39.62

विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने ।
पानीयं वा फलं वापि स एव भगवत्प्रियः

1.39.63

विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये ।
ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम्

1.39.64

ये यञ्जति स्पृहाशून्या हरिभक्तान् हरिं तथा ।
त एव भुवनं सर्वं पुंनति स्वाङ्घ्रिपांशुना

1.39.65

देवपूजापरो यस्य गृहे वसति सर्वदा ।
तत्रैव सर्वदेवाश्च तिष्टन्ति श्रीहरिस्तथा

1.39.66

पूज्यमाना च तुलसी यस्य तिष्टति वेश्मनि ।
तत्र सर्वाणि श्रेयांसि वर्द्धत्यहरहर्द्विज

1.39.67

शालग्रामशिलारूपी यत्र तिष्टति केशवः ।
न बाधन्ते ग्रहास्तत्र भूतवेताल कादयः

1.39.68

शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ।
यतः संनिहितस्तत्र भगवान्मधुसूदनः

1.39.69

यद्गृहे नास्ति देवर्षे शालग्रामशिलार्चनम् ।
श्मशानसदृशं विद्यात्तद गृहं शुभवार्जितम्
पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज

1.39.70

सांगा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितम्

1.39.71

भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् ।
ते ऽपि यान्ति परं स्थानं सर्वकर्मनिबर्हणम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc