भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.38

1.38.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशो ऽध्यायः
नारद उवाच
किन्तत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः ।
उक्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम्

1.38.2

सनक उवाच
उत्तङ्कस्तु तदा विप्रो हरिध्यानपरायणः ।
पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः

1.38.3

उत्तङ्क उवाच
नतो ऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबन्धुम् ।
चक्राब्जशार्ङ्गीसिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये

1.38.4

यन्निभिजाब्ज प्रभवो विधाता सृजत्यमुं लोकसमुञ्चयं च ।
यत्क्रोधजो हॄन्ति जगञ्च रुद्रस्तमादिदेवं प्रणतो ऽस्मि विष्णुम्

1.38.5

पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम् ।
वेदान्तवेद्यं पुकुषं पुराणं तैजोनिधिं विष्णुमहं प्रपन्नः

1.38.6

आत्माक्षरः सर्वगतो ऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः ।
ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिस प्रष्टिरुपः

1.38.7

अनन्तवीयो गुणजातिहीनां गुणात्मको ज्ञानविदां वरष्टः ।
नित्यः प्रपन्नार्ति हरः परात्मा दयांबुधिर्मे वरदस्तु भघूयात्

1.38.8

यः स्थूलसूक्ष्मादिविशेषभेदौर्जगद्यथावत्स्वकृतं प्रविष्टः ।
त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन्

1.38.9

अगोचरं यत्तव शुद्धरूरं मायाविहीनं गुणजातिहीनम् ।
निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञम्

1.38.10

एकेन हेम्रैव विभूषणानि यातानि भेदत्वमुपाधिभेदात् ।
तथैव सर्वेष्वर एक एव प्रदृश्यते भिन्न इवारिवलात्मा

1.38.11

यन्मायया मोहितचेतसस्तं पश्यन्ति नात्मानमपि प्रसिद्धम् ।
त एव मायारहितास्तदेव पसअयन्ति सर्वात्मकमात्मरुपम्

1.38.12

विभुं ज्योतिरनौपम्यं विष्णुसंज्ञं नमाम्यहम् ।
समस्तमेतदुद्भूतं यतो यत्र प्रतिष्टितम्

1.38.13

यतश्चैतन्यमायातं यद्रूपं तस्य वै नमः ।
अप्रमेयमनादारमाधाराधेयरूपकम्

1.38.14

परमानन्दचिन्मात्रं वासुदेवं नतो ऽस्म्यहम् ।
हृद्गुहानिलयं देवं योगिभिः परिसेवितम्

1.38.15

योगानामादिभूतं तं नमामि प्रणवस्थितम् ।
नादात्मकं नादबीजं प्रणवात्मकमव्ययम्

1.38.16

सद्भघावं सञ्चिदानन्दं तं वन्दे तिग्मचक्रिणम् ।
अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम्

1.38.17

निरञ्जनमनन्ताख्यं विष्णुरुपं नतो ऽस्म्यहम् ।
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः

1.38.18

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्र ज्ञमेव च ।
विद्याविद्यात्मकं प्राहुः परात्परतरं तथा

1.38.19

अनादिनिधनं शान्तं सर्वधातारमच्युतम् ।
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती

1.38.20

वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तम् ।
नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयः

1.38.21

यत्पाद तोयं भघवरोगवैद्यो यत्पादपांशुर्विमलत्वसिद्ध्यै ।
यन्नाम दुष्कर्मनिवारणायचय तमप्रमेयं पुरुषं भजामि

1.38.22

सद्रूपं तमसद्रूपं सदसद्रूपमव्ययम् ।
तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रष्ठतरं भजे

1.38.23

निरञ्जनं निराकारं पूर्णमाकाशमध्यगम् ।
परं च विद्याविद्याभ्यां हृदंबुजनिवासिनम्

1.38.24

स्वप्रकाशमनिर्देष्यं महतां च महत्तरम् ।
अणोरणीयांसमजं सर्वोपाधिविवर्जितम्

1.38.25

यन्नित्यं परमानन्दं परं ब्रह्म सनातनम् ।
विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः

1.38.26

यं भजन्ति क्रियानिष्टायं पश्यन्ति च योगिनः ।
पूज्यात्पूज्यतरं शान्तं गतो ऽस्मि शरणं प्रभुम्

1.38.27

यं न पश्यन्ति विद्वांसो य एतद्व्याव्य तिष्टति ।
सर्वस्मादधिकं नित्यं नतो ऽस्मि विभुमव्ययम्

1.38.28

अन्तः करणसंयोगाज्जीव इत्युच्यते च यः ।
अविद्याकार्य रहितः परमात्मेति गीयते

1.38.29

सर्वात्मकं सर्वहेतुं स्रवकर्मफलप्पदम् ।
वरं वरेण्यमजनं प्रणतो ऽस्मि परात्परम्

1.38.30

सर्वज्ञं सर्वगं शान्तं सर्वान्तया मिणं हरिम् ।
ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे

1.38.31

नमाम्यहं वेदनिधिं मुरारिं वेदान्त विज्ञानसुनिश्चितार्थम् ।
सूर्येदुवत्प्रोज्ज्वलने त्रमिन्द्रं रवगस्वरुपं वपतिस्वरूपम्

1.38.32

सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं वेदविदांवरिष्टम् ।
तंवाङ्मनो ऽचिन्त्यमनन्तशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि

1.38.33

इन्द्राग्निकालासुरपाशिवायुसोमेषमार्त्तण्डपुरन्दराद्यैः ।
यः पाति लोकान्परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये

1.38.34

सहस्रशीर्षं च सहस्रपादं सहस्रबाहुः च सहस्रनेत्रम् ।
समस्तयज्ञैः परिजुष्टमाद्यं नतो ऽस्मि तुष्टिप्रदमुग्रवीर्यम्

1.38.35

कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम् ।
गुणप्रियं कामदमस्तसंगमतीन्द्रियं विश्वभघुजं वितृष्णम्

1.38.36

निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम् ।
विज्ञानभेदं प्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि

1.38.37

न यस्य रूपं न बलप्रभावो न यस्य कर्माणि न यत्प्रमाणम् ।
जानन्ति देवा कमलोद्भवाद्यस्तोष्याम्यहं तं कथमात्मरूपम्

1.38.38

संसारसिधौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम् ।
अकीर्तिभाजं पिशुनं कृतघ्नं सदाशुचिं पापरतं प्रमन्युम् ।
दयांबुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये

1.38.39

इति प्रसादितस्तेन दयालसुः कमलापतिः ।
प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः

1.38.40

अतसी पुष्पसंकाशं फुल्लपङ्कजलोचनन् ।
किरीटिनं कुण्डलिनं हारकेयूरभूषितम्

1.38.41

श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिननम् ।
नासाविन्यस्तमुक्ता भवर्धमानतनुच्छविम्

1.38.42

पीतांबरधरं देवं वनमालाविभूषिमत् ।
तुलसीकोमलदलैरर्चिताङ्घ्निं महाद्युतिम्

1.38.43

किङ्किणीनूपुरा द्यैश्च शोभितं गरुडध्वजम् ।
दृष्ट्वा नानाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले

1.38.44

अभ्यषिञ्चद्धरेः पादावुत्तङ्को हर्षवारिभिः ।
मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा

1.38.45

तमुत्थाप्य महाविष्णुरालिलिङ्ग दयापरः ।
वरं वृणुष्व वत्सेति प्रोवाच मुनिपुङ्गवम्

1.38.46

असाध्यं नास्ति किञ्चित्ते प्रसन्ने मयि सत्तम ।
इतीरितं समाकर्ण्य ह्युत्तङ्कश्चक्रपाणिना ।
पुनः प्रणम्य तं प्राह देवदेवं जनार्द्दनम्

1.38.47

किं मां मोहयसीश त्वं किमन्यैर्देव मे वरैः ।
त्वयि भक्तिर्दृढा मे ऽस्तु जन्मजन्मान्तरेष्वपि

1.38.48

कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः पिशाचमनुजेष्वपि यत्र तत्रजजातस्य मे भवतु केशव ते प्रसाद्दात्त्वय्येव भक्तिरचलाव्यभिचारणी च

1.38.49

एवमस्त्विति लोकेशः शङ्खप्रान्तेन संस्पृशन् दिव्यज्ञानं ददौ तस्मै योगिनामपिदुर्लमभघम्

1.38.50

पुः स्तुवन्तं विप्रेन्द्रं देवदेवो जनार्द्दनः इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन्

1.38.51

श्रीभगवानुवाच आराधय क्रियायोगैर्मां सदा द्विजसत्तम् ।
नरनारायणस्थानं व्रज मोक्षं गमिष्यसि

1.38.52

त्वया कृतमिदं स्तोत्रं यः पठेत्सततं नरः ।
सर्वान्कामानवाप्यान्ते मोक्षभागी भवेत्ततः

1.38.53

इत्युक्त्वा भाधवो विप्रं तत्रैवान्तर्दधे मुने ।
नरनरायणस्थानमुत्तङ्को ऽपि ततो ययौ

1.38.54

कस्माद्भक्तिः सदा कार्या देवदेवस्य चक्रिणः ।
हरिभक्तिः परा प्रोक्ता सर्वकामपलप्रदा

1.38.55

उतङ्को भाक्तिभावेन क्रियायोगपरो मुने ।
पूजयन्माधयवं नित्यं नरनारायणाश्रमे

1.38.56

ज्ञानविज्ञानसंपन्नः संच्छिन्नद्वैतसंशयः ।
आवाप दुरवापं वै तद्विष्णोः परमं पदम्

1.38.57

पूजितो नमितो वापि संस्मृतो वापि मोक्षदः ।
नारायणो जगन्नाथो भक्तानां मानवर्द्धनः

1.38.58

तस्मान्नारायणं देवमनन्तमपराजितम् ।
इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः

1.38.59

यः पठेदिदमाख्यानं शृणुयाद्वासमाहितः ।
सो ऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc