भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.37

1.37.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशो ऽध्यायः
सनक उवाच
भूयः शृणुष्व विप्रेन्द्र माहात्म्यं कमलापतेः ।
कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम्

1.37.2

नराणां विषयान्धानां ममताकुलचेतसाम् ।
एकमेव हरेर्नाम सर्वपापप्रणाशनम्

1.37.3

सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् ।
श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम्

1.37.4

हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम ।
श्मशानसदृशं तद्धि कदाचिदपि नो विशेत्

1.37.5

हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा ।
गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः

1.37.6

यो वा को वापि विप्रेन्द्र विप्रद्वेषपरायणः ।
समर्चयति गोविन्दं तत्पूजा विफला भवेत्

1.37.7

अन्यश्रेयोविनाशार्थं येर्ऽचयन्ति जनार्दनम् ।
सा पूजैव महाभाग पूजकानाशु हॄन्ति वै

1.37.8

हरिपूजाकरो यस्तु यदि पापं समाचरेत् ।
तमेव विष्मुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः

1.37.9

ये विष्णुनिरताः संति लोकानुग्रहतत्पराः ।
धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः

1.37.10

कोटिजन्मार्दजितैः पुण्यैर्विष्णुभक्तिः प्रजायते ।
दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत्

1.37.11

जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् ।
क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम्

1.37.12

विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः ।
चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः

1.37.13

नराणां विषयान्धानां सर्वदुःखविनाशिनी ।
हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी

1.37.14

संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः ।
विष्णोरुपासनं कुर्यात्सो ऽक्षयं सुखमश्नुते

1.37.15

हरिपादोदकं यस्तु कणमात्रं पिबेदपि ।
स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत्

1.37.16

अकालमृत्युशमनं सर्वव्याधिविनाशनम् ।
सर्वदुःखोपशमनं हरिपोदोदक स्मृतम्

1.37.17

नारायणं परं धाम ज्योतिषां ज्योतिरुत्तमम् ।
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती

1.37.18

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पठतां शृण्वतां चैव सर्वपापप्रणाशनम्

1.37.19

आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः ।
परदारपरद्रव्यहरणे सततोद्यतः

1.37.20

परनिन्दापरो नित्यं जन्तूपद्रवकृत्तथा ।
हतवान्ब्राह्मणान् गाश्च शतशो ऽथ सहस्रशः

1.37.21

देवस्वहरणे नित्यं परस्वहरणे तथा ।
उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः

1.37.22

तेन पापान्यनेकानि कृतानि सुमहान्ति च ।
न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः

1.37.23

स कदा चिन्महापापो जतृनामन्तकोपमः ।
सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम्

1.37.24

योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः ।
अलङ्कृतं विपणिभिर्ययो देवपुरोपमम्

1.37.25

तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् ।
छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ

1.37.26

हराम्यत्र सुवर्णानि बहूनीति विनिश्चितम् ।
जगामाभ्यन्तरं तस्य कीनाशश्चौर्यलोलुपः

1.37.27

तत्रापश्यद्द्विजवरं शान्तं तत्त्वार्थकोविदम् ।
परिचर्यापरं विष्णोरुत्तङ्कं तपसां निधिम्

1.37.28

एकाकिनं दयासुं च निस्पृहं ध्यानलोलुपम् ।
चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने

1.37.29

द्रव्यजातं तु देवस्य हर्तुकामो ऽतिसाहसी ।
उत्तङ्कं हॄन्तुमारेभे विधृतासिर्मदोद्धतः

1.37.30

पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना ।
हॄन्तुं कृतमतिं व्याधमुत्तङ्कः प्रेक्ष्य चाब्रवीत्

1.37.31

उत्तङ्क उवाच
भो भो साधो वृथा मां त्वं हनिष्यसि निरागसम् ।
मया किमपराद्धं ते तद्वदस्व महामत्ते

1.37.32

कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते ।
नहि सौम्य वृथा घ्नन्ति सज्जना अपि पापिनः

1.37.33

विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् ।
विरोधं नहि कुर्वन्ति सज्जनाः शान्तचेतसः

1.37.34

बहुधा बोध्यमानो ऽपि यो नरः क्षमयान्वितः ।
तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा

1.37.35

सुजनो न याति वैरं परहितबुद्धिर्वनाशकाले ऽपि ।
छेदे ऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य

1.37.36

अहो विधिः सुबलवान्बा धते बहुधा जनान् ।
सर्वसंगविहीनो ऽपि बाध्यते हि दुरात्मना

1.37.37

अहो निष्कारणं लोके बाधन्ते बहुधा जनान् ।
सर्वसंगविहीनो ऽपि बाध्यते पिशुनैर्जनैः ।
तत्रापि साधून्बाधन्ते न समानान्कदाचन

1.37.38

मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तानाम् ।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति

1.37.39

अहो बलवती माया मोहयत्यखिलं जगत् ।
पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत्

1.37.40

परद्रव्यापहारेण कलत्रं पोषितं त्वया ।
अन्ते तत्सर्वमुत्सृज्य एक एव प्रयति वै

1.37.41

मम माता मम पिता मम भार्या ममात्मजाः ।
ममेदमिति जन्तूनां ममता बाधते वृथा

1.37.42

यावदर्जयति द्रव्यं बान्धवास्तावदेव हि ।
धर्माधर्मौं सहैवास्तामिहामुत्र न चापरः

1.37.43

धर्माधर्मार्जितैर्द्रव्यैः पोषिता येन ये नराः ।
मृतमग्निमुखे हुत्वा घृतान्नं भुञ्जते हि ते

1.37.44

गच्छन्तं परलोकं च नरं तु ह्यनुतिष्टतः ।
धर्माधर्मौं न च धनं न पुत्रा न च बान्धवाः

1.37.45

कामः समृद्धिमायाति नराणां पापकर्मिणाम् ।
कामः संक्षयमायाति नराणां पुण्यकर्मणाम्

1.37.46

वृथैव व्याकुला लोका धनादानां सदार्जने

1.37.47

यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् ।
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित्

1.37.48

र्दवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ।
तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः

1.37.49

यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् ।
लोकस्तु तत्र विज्ञाय वृथायासं करोति हि

1.37.50

अहो दुःखं मनुष्याणां ममताकुलचेतसाम् ।
महापापानि कृत्वापि परान्पुष्यान्ति यत्नतः

1.37.51

अर्जितं च धनं सर्वं भुञ्जते बान्धवाः सदा ।
स्वयमेकतमो मूढस्तत्पापफलमश्नुते

1.37.52

इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः ।
गुलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः

1.37.53

सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः ।
गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत्

1.37.54

मया कृता नि पापानि महान्ति सुबहूनि च ।
तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात्

1.37.55

अहो ऽहं पापधीर्नित्यं महापापमुपाचरम् ।
कथं मे निष्कृतिर् भूयो यामि कं शरणं विभोः

1.37.56

पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् ।
अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम्

1.37.57

अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि ।
प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा

1.37.58

अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्वत् ।
कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा

1.37.59

एवं विनिन्दन्नात्मानमात्मना लुब्धकस्तदा ।
अन्तस्तापाग्निसंतप्तः सद्यः पञ्चत्वमागतः

1.37.60

उत्तङ्कः पतितं प्रेक्ष्य लुबग्धकं तं दयापरः ।
विष्णुपादोदकेनैवमभ्यषिञ्चन्महामतिः

1.37.61

हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः ।
दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत्

1.37.62

गुलिक उवाच
उत्तङ्क मुनिशार्दूल गुरुस्त्वं मम सुव्रत ।
विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात्

1.37.63

गतस्त्वदुपदेशान्मे संतापो मुनिपुङ्गव ।
तथैव सर्वपापानि विनष्टान्यतिवेगतः

1.37.64

हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ।
प्रापितो ऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम्

1.37.65

त्वयाहं तारितो विप्र पापादस्माच्छरीरतः ।
तस्मान्नतो ऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च

1.37.66

इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्ठं समाकिरम् ।
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः

1.37.67

ततो विमानमारुह्य सर्वकामसमन्वितम् ।
अप्सरोगणसंकीर्णः प्रपेदे हरिमन्दिरम्

1.37.68

एतद्दृष्ट्वा विस्मितो ऽसौ ह्युत्तङ्कस्तपसांनिधिः ।
शिरस्यञ्जलिमाधाय तुष्टाव कमलापतिम्

1.37.69

तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमम् ।
वरेण तेनोक्तङ्को ऽपि प्रपेदे परमं पदम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc