नारद पुराण · अध्याय 1.35
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्तिलक्षणं नाम चतुस्त्रिंशो ऽध्यायः
सनक उवाच
पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः ।
पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति
शान्ता जितारिषड्वर्गा योगेनाप्यनहॄङ्कृताः ।
यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम्
तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः ।
यजन्ति कर्मयोगेन सर्वधातारमच्युतम्
लुब्धा व्यसनितो ऽज्ञाश्च न यजन्ति जगत्पतिम् ।
अजरामरवन्मूढास्तिष्टन्ति नरकीटकाः
तडिल्लेखाश्रिया मत्ता वृथाहॄङ्कारद्विषिताः ।
न यजन्ति जगन्नाथं सर्वश्रैयोविधायकम्
हरिधर्मरताः शान्ता हरिपादाब्जसेवकाः ।
दैवात्के ऽपीह जायन्ते लोकानुग्रहतत्पराः
कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् ।
स याति परमं स्थानं सर्वलोकोत्तमोत्तमम्
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
पठतां शृण्वतां चैव सर्वपापप्रणाशनम्
तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः ।
यस्य श्रवणमात्रेण वाचिमेध फलं लभेत्
कश्चिदासीत्पुरा विप्र ब्रह्मणो रैवतेंऽतरे ।
वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः
सर्वभूतदयायुक्तो हरिपूजापरायणः ।
पुत्रमित्रकलत्रार्थं धनार्जनपरो ऽभवत्
अपण्यंविक्रयं चक्रे तथा च रसिविक्रयम् ।
चण्डालाद्यैरपि तथा संभषी तत्प्रतिग्रही
तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा ।
परार्थं तीर्थगमनं कलत्रार्थमकारयत्
कालेन गच्छता विप्र जातौ तस्य सुतावुभो ।
यज्ञमाली सुमाली च यमलावतिशोभनौ
ततः पिता कुमारौ तावतिस्नेहसमन्वितः ।
पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा
वेदमालिर्बहूपायैर्धनं संपाद्य यत्नतः ।
स्वधनं गणयामास कियत्स्यादिति वेदितुम्
निधिकोटिसहस्राणां कोटिकोटिगुणान्वितम् ।
विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिन्तया
असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः ।
मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम्
नाद्यापि शान्तिमापन्ना मम तृष्णातिदुःसहा ।
मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वाञ्छति
अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् ।
सर्वान्कामानवांप्नोति पुनरन्यञ्च काङ्क्षति
जीर्यन्ति जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।
चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते
ममेद्रियाणि सर्वाणि मन्दभावं व्रजन्ति च ।
बलं हतं च जरसा तृष्णा तरुणतां गता
कष्टाशा वर्त्तते यस्य स विद्रानथ पण्डितः ।
सुशान्तो ऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः
आशा भङ्गकरी पुंसामजेयारातिसन्निभा ।
तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम्
बलं तेजोः यशश्वैव विद्यां मानं च वृद्धताम् ।
तथैव सत्कुले जन्म आशा हत्यतिवेगतः
नृणामाशाभिभूतानामाश्चर्यमिदसुच्यते ।
किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः
आशाभिभूता ये मर्त्या महामोहा महोद्धताः ।
अवमानादिकं दुःखं न जानन्ति कदाप्यहो
मयाप्येवं बहुक्लिशैरेतद्धनमुपार्जितम् ।
शरीरमपि जीर्णं च जरसापहतं बलम्
इतः परं यतिष्यामि परलोकार्थमादरात् ।
एवं निश्चित्य विप्रेन्द्र धर्ममार्ग रतो ऽभवत्
तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा ।
स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत्
शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ ।
स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा
प्रपातडागारामांश्च तथा देवगृहान्बहून् ।
अन्नादीनां च दानानि गङ्गातीरे चकार सः
एवं धनमशेषं च विश्राण्य हरिभक्तिमान् ।
नारनारायण स्थानं जगाम तपसे वनम्
तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् ।
फलितैः पुषअपितैश्चैव शोभितं वृक्षसंचयैः
गृणद्भिः परमं ब्रह्म शास्त्रचिन्तापरैस्तथा ।
परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम्
शिष्यैः परिवृतं तत्र मुनिं जानन्ति संज्ञकम् ।
गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह
शमादिगुणसंयुक्तं रागादिरहितं मुनिम् ।
शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम्
तस्य जानन्तिरागन्तोः कल्पयामास चार्हणम् ।
कन्दमूलफलाद्यैस्तु नारायणधिया मुने
कृतातिथ्यक्रियस्तेन वेदमाली कृताञ्जलिः ।
विनयावनतो भूत्वा प्रोवाच वदतां वरम्
भगवन्कृतकृत्यो ऽस्मि विगतं कल्मषं मम ।
मामुद्धर महाभाग ज्ञानदानेन पण्डित
एवमुक्तस्ततस्तेन जानन्तिर्मुनिसत्तमः ।
प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम्
जानन्तिरुवाच
शृणष्व विप्रशार्दूल संसारच्छेदकारणम् ।
प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम्
भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् ।
परापवादं पैशुन्यं कदाचिदपि मा कृथाः
परोपकारनिरतः स दा भव महामते ।
हरिपूजापरश्चैव त्यज मूर्खसमागमम्
कामं क्रोधं च लोभं च मोहं च मदमत्सरौ ।
परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि
असूयां परनिन्दां च कदाचिदपि मा कुरु ।
द्रंभाचारमहॄङ्कारं नैष्ठुर्यं च परित्यज
दयां कुरुष्व भुतेषु शुश्रूषां च तथा सताम् ।
त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम्
अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः ।
पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः
पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ ।
पूजयस्व जगन्नाथं नारायणमकां मतः
देवानृपीन्पितॄश्चापि तर्पयस्व यथाविधि ।
अग्रेश्च विधिवद्वप्र परिचर्यापरो भव
देवतायतने नित्यं संमार्जनपरो भव ।
तथोपलेपनं चैव कुरुष्व सुसमाहितः
शीर्णस्फटितसंधानं कुरु देवगृहे सदा ।
मार्गशोभां च दीपं च विष्णोरायतने कुरु
कन्दमूलफलैर्वापि सदा पूजय माधवम् ।
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा
युराणश्रवणं चैव पुराणपठनं तथा ।
वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः
एवं स्थिति तव ज्ञानं भघविष्यत्युत्तमोत्तमम् ।
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम्
एवं प्रबोधितस्तेन वेदमालिर्महामतिः ।
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान्
वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः ।
को ऽहं मम क्रिया केति स्वयमेव व्यक्तिन्तयत्
मम जन्म कथं जातं रूपं कीदृग्विधं मम ।
एवं विचारणपरोः दिवानिशमतन्द्रितः
अनिश्चितमतिर्भूत्वा वेदमालिर्द्धिजोत्तमः ।
पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह
वेदमालिरुवाच
मम चित्तमतिभ्रातं गुरो ब्रह्मविदां वर ।
को ऽहं मम क्रिया का च मम जन्म कथं वद
जानन्तिरुवाच
सत्यं सत्यं महाभागं चित्तं भ्रातं सुनिश्चितम् ।
अविद्यानिलर्य चित्तं कथं सद्भावगगमेष्यति
ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते ।
अहॄङ्कारो मनोधर्म आत्मनो नहि पण्डित
पुनश्च को ऽहमित्युक्तं वेदमाले त्वया तु यत् ।
मम जात्यादि शून्यस्य कथं नाम करोम्यहम्
अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः ।
नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम्
परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः ।
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया
स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः ।
अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते
ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् ।
परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज
तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् ।
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत्
एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर ।
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम्
उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम् ।
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान्
ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् ।
गुरुं प्रणम्य जानन्ति सदा ध्यानपरो ऽभवत्
गते बहुतिथे काले वेदमालिर्मुनीश्व ।
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान्
य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः ।
स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0