नारद पुराण · अध्याय 1.36
इति श्रीबृहन्नारादीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पञ्चत्रिंशो ऽध्यायः
सनक उवाच
वेदमालेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तम ।
यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत
तयोराद्यो यज्ञमाली विभेद पितृसंचितम् ।
धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा
सुमाली च धनं सर्वं व्यसनाभिरकतः सदा ।
अपादाना दिभिश्चैव नाशयामास भो द्विज
गीतवाद्यरतो नित्यं मद्यपानरतो ऽभवत् ।
वेश्याविभ्रमलुब्धो ऽसौ परदारतो ऽभवत्
सर्वस्मिन्नाशमायाते हिरण्ये पितृसंचिते ।
अपहृत्य परं द्रव्यं वारस्त्रीनिरतो ऽभवत्
दृष्ट्वा सुमालिनः शूलं यज्ञमाली महामतिः ।
बभूव दुःखितो ऽत्यर्थं भ्रातरं चेदमब्रवीत्
अलममत्यन्तकष्टेन वृत्तेनास्मत्कुले ऽनुज ।
त्वमेक एव दुष्टात्मा महापापरतो ऽभवः
एवं निवारयन्तं तं बहुशो ज्येष्टसोदरम् ।
हनिष्यामीति निश्चित्य खड्गहस्तः कचे ऽग्रहीत्
ततो महारवो जज्ञे नगरे भृशदारुणः ।
बबन्धुर्नागराश्चैनं कुपितास्ते सुमालिनम्
यज्ञमाली ह्यमेयात्मा पौरान्संप्रार्थ्य दुःखितः ।
बन्धनान्मोचयामास भ्रातृस्नेहविमोहितः
यज्ञमाली पुनश्चापि बिभिदे स्वधनं द्विधा ।
आददे स्वयमर्द्धं च ददावर्द्धं यवीयसे
सुमाली त्वतिमूढात्मा तद्धनं चापि नारद ।
मूर्खैः पारंवडचण्डालैर्बुभुजे च सहोद्धतः
असतामुपभो गाय दुर्जनानां विभूतयः ।
पिचुमन्दः फलाढ्यो ऽपि काकैरेवोपभुज्यते
भ्रात्रा दत्तं धनं तञ्च सुमाली नाशयन्मुने ।
मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयत्
त्यक्तो बन्धुजनैः सर्वैश्चाण्डालस्त्रीसमन्वितः ।
राज्ञापि बाधितो विप्रप्रपेदे निर्जनं वनम्
यज्ञमाली सुधीर्विप्र सदा धर्मरतो ऽभवेत् ।
अवारितं ददावन्नं सत्सङ्गगतकल्मषः
पित्रा कृतानि सर्वाणि तडागादीनि सत्तम ।
अपालयत्प्रयत्नेन सदा धर्मपरायणः
विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः ।
सत्पात्रदाननिष्टस्य धर्ममार्गप्रवर्तिनः
अहो सदुपभोगाय सज्जनानां विभूतयः ।
कल्पवृक्षफलं सर्वममरैरेव भुज्यते
धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः ।
नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरो ऽभवत्
कालेन गच्छता तौ तु वृद्धभावमुपागतौ ।
यज्ञमाली सुमाली च ह्येककाले मृतावुभौ
हरिपूजारतस्यास्य यज्ञमालिमहात्मनः ।
हरिः संप्रेषयामास विमानं पार्षदा वृतम्
दिव्यं विमानमारुह्य यज्ञमाली महामतिः ।
पूज्यमानः सुरगणैः स्तूयमानो मुनीश्वरैः
गन्धर्वैर्गीयमानश्च सेवितश्चाप्सरोगणैः ।
कामधेन्वा पुष्यमाणश्चित्राभरणभूषितः
कोमलैस्तुलसीमाल्यैर्भूषितस्तेजसां निधिः ।
गच्छन्विष्णुपदं दिव्यंमनुजं पथि दृष्टवान्
ताह्यमानं यमभटैः क्षुत्तृड्भ्यां परिपीडितम् ।
प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्टितम् ।
इतस्ततः प्राधावन्तं विलपन्तमनाथवत्
क्रोशन्तं च सुदन्तं च दृष्ट्वा मनसि विव्यथे
यज्ञमालीदयायुक्तो विष्णुदूतान्समीपगान् ।
को ऽयं भटैर्बाध्यमानं इत्यपृच्छत्कृताञ्जलिः
अथ ते हरिदूतास्तं यज्ञमालिमहौजसम् ।
असौ सुमाली भ्राता ते पापात्मेति समब्रुवन्
यज्ञमाली समाकर्ण्य व्याख्यातं विष्णुकिङ्करैः ।
मनसा दुःखमापन्नः पुनः पप्रच्छ नारद
कथमस्य भवेन्मोक्षः सांचितैः पापसंचयैः ।
तदुपायंबदध्वं मे यूयं हि ममबान्धवाः
सख्यं साप्तपदीनं स्यादित्याहुर्धर्मकोविदाः ।
सतां साप्तपदी मैत्री सत्सतां त्रिपदी तथा
सत्सतामपि ये संतस्तेषां मैत्रघी पदे पदे
तस्मान्मे बान्धवा यूयं मां नेतुं समुपागताः ।
यतो ऽयं मम भ्रातापि मुच्यते तदिहोच्यताम्
यज्ञमालिवचः श्रुत्वा विष्णुदूता दयालवः ।
पुनः स्मितामुखाः प्रोचुर्यज्ञमालिहरिप्रियम्
विष्णुदूता ऊचुः
यज्ञमालिन्महाभाग नारायणपरायण ।
उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम्
कृतं यत्सुमहत्कर्म त्वया प्राक्तनजन्मनि ।
प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः
पुरा त्वं वैश्यजातीयो नाम्ना विश्वङ्घभरः स्मृतः ।
त्वया कृतानि पापानि अहन्त्यगणितानि वै
सुकर्मवासनाहीनो मातापित्रोर्विरोधकृत् ।
एकदा बन्धुभिस्त्यक्तः शोकसंतापपीडितः
क्षुधाग्निनापि संतप्तः प्राप्तवान्हरिमन्दिरम् ।
तदा वृष्टिरभूत्तत्र तत्स्थानं पङ्किलं ह्यभूत
दीरीकृतस्त्वया पङ्कस्तत्स्थाने स्थातुमिच्छया ।
उपलेपनतां प्राप्तं तत्स्थानं विष्णुमन्दिरे
कल्पकोटिशतं साग्रं संप्राप्य हरिसन्निधिम् ।
वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि
अनुजं पातकिश्रेष्ठं त्वं समुद्धर्त्तमिच्छसि ।
उपायं तव वक्ष्यामस्तं निबोध महामते
गोचर्ममात्रभूमेस्तु उपलेपनजं फलम् ।
दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः
एवमुक्तो विष्णुदूतैर्यज्ञमाली महापतिः ।
तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये
सुमाली भ्रातृदत्तेन पुण्येन गतकल्मषः ।
बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः
विमानं चागतं सद्यः सर्वभोगसमन्वितम् ।
तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने
तावुभौ भ्रातरौ विप्र सुरवृन्दनमस्कृतौ ।
अवापतुर्भृशं प्रीतिं समालिङ्ग्य परस्परम्
यज्ञमाली सुमाली च स्तूयमानौ महर्षिभिः ।
गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मतुः
अवाप्य हरिसालोक्यं सुमाली मुनिसत्तम ।
यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ
भुक्त्वा भोगान्बहूंस्तत्र यज्ञमाली महामतिः ।
तत्रैव ज्ञानसंपन्नः परं मोक्षमुपागतः
सुमाली तु महाभागो विष्णुलोके मुदान्वितः ।
स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः
अतिशुद्धे कुले जातो गुणवान्वेदपारगः ।
सर्वसंपत्समोपेतो हरिभक्तिपरायणः
व्याहरन्हरिनामानि प्रपेदे जाह्नवीतटम् ।
तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम्
अवाप परमं स्थानं योगिनामपि दुर्लभम् ।
उपलेपनमाहात्म्यं कथितं ते मुनीश्वर
तस्मात्सर्वप्रयत्नेन संपूज्यो जगतांपतिः ।
अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते
न तेषां भवबन्धस्तु कदाचिदपि जायते ।
हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत्
तस्य तुष्यन्ति विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः ।
हरिभक्तिपराणां तु संगिनां संगमात्रतः
मुच्यते सर्वपापेभ्यो महापातकवानपि ।
हरिपूजापराणां च हरिनामरतात्मनाम्
शुश्रूषानिरता यान्ति पापिनो ऽपि परां गतिम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0