नारद पुराण · अध्याय 1.34
इति श्रीबृन्नारदीयपुराणे पूर्वभागे प्रथमपादे योगनिरुपणं नाम त्रयस्त्रिंशो ऽध्यायः
नारद उवाच
समाख्यातानि सर्वाणि योगाङ्गानि महामुने ।
इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम्
योगोभक्तिमतामेव सिध्यतीति त्वयोदितम् ।
यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम्
यथा तुष्यति सर्वेशो देवदेवो जनार्दनः ।
तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे
सनक उवाच
नारायणं परं देवं सच्चिदानन्दविग्रहम् ।
भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि
रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्चतम् ।
राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम्
भक्तर्दृढा भवेद्यस्य देवदेवे जनार्दने ।
श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तो ऽधिकास्ततः
पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ ।
तौ करौ लफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ
ते नेत्रे सुफले पुंसां पश्यतो ये दनार्दनम् ।
सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुत्यते ।
तत्त्वं गुरुसमं नारित नत देवः केशवात्परः
सत्यं वच्मिहितं वाच्मि सारं वच्मि पुनः पुनः ।
असारे ऽस्मिंस्त संसारे सत्यं हरिसमर्चनम्
संसारपाशं सुदृढं महामोहप्रदायकम् ।
हरिभक्तिकुटारेण च्छित्त्वात्यन्तसुखी भव
तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा ।
ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते
आनन्दमक्षरं शून्यमवस्थात्रितयैरपि ।
आकाशमध्यगं देवं भज नारद संततम्
स्थानं न शक्यते यस्य स्वरुपं वा कदाचन ।
निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्यकृतात्मभिः
समस्तैः करणैर्युक्तो वर्त्ते ऽसौ यदा तदा ।
जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः
यदान्तः करणैर्ंयुक्तः स्वेच्छया विचरत्यसौ ।
स्वपन्निच्युच्यते ह्यात्मा यदा स्वापविवर्जितः
न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा ।
अस्वरुपो यदात्मासौ पुण्यापुण्यविवर्जितः
सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः ।
परब्रह्ममयो देवः सुषुत्प इति गीयते
भावनामयमेतद्वै जगत्स्थावरजङ्गमम् ।
विद्युद्विलोलं विप्रेन्द्र भघज तस्माज्जनार्दनम्
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
वर्तते यस्य तस्यैव तुष्यते जगतां पतिः
सर्वभघूतदयायुक्तो विप्रपूजापरायणः ।
तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः
सत्कथायां च रमते सत्कथां च करोति यः ।
सत्सङ्गो निरहं कारस्तस्य प्रीतो रमापतिः
नामसंकीर्त्तनं विष्णो क्षुत्तृट्प्रस्खलितादिषु ।
करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः
यातु नारीपतिप्राणा पतिपूजापरायणा ।
तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने
असूयारहिता ये तु ह्यहङ्कारविवर्जिताः ।
देवपूजापराश्चैव तेषां तुष्यति केशवः
तस्माच्छृणुष्व देवर्शे भजस्वं सततं हरिम् ।
मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा
शरीरं मृत्युसंयुक्तं जीवितं चाति चञ्चलम् ।
राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः
किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्रया ।
हतं च भोजनाद्यैश्च कियदायुः समाहृतम्
कियदायुर्बालभावात्कियद्वृथा ।
कियद्विषयभोगैश्च कदा धर्मान्करिष्यति
बालभावे च वार्द्धक्येन घटेताच्युतार्चनम् ।
वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः
मा विनाशं व्रज मुने मग्नः संसारगह्वरे ।
वरुर्विनाशनिलयमापदां परमं पदम्
शरीरं भोगनिलयं मलाद्यैः परिदूषितम् ।
किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा
आसारभूते संसारे नानादुः खसमन्विते ।
विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसंकुले
तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद्व्रवीम्यहम् ।
देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम्
मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः ।
भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम्
कोटिजन्मसहस्रेषु स्थावरादिषु सत्तम ।
संभ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते
तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम ।
भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम्
मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् ।
मूर्खः को ऽस्ति परस्तस्माज्जडबुद्धिरचेतनः
दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम् ।
तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति
आराधितो जगन्नाथो ददात्यभिमतं फलम् ।
कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः
चण्डालो ऽपि मुनिश्रेष्ट विष्णुभक्तो द्विजाधिकः ।
विष्णुभक्तिविहीनश्च द्विजो ऽपि श्वपचाधमः
तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् ।
यस्मिंस्तुष्टे ऽखिलं तुष्येद्यतः सर्वगतो हरिः
यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते ।
तथःआ चराचरं विश्वं विष्णाविव प्रलीयते
आकाशेन यथा व्यात्पं जगत्स्थावरजङ्गमम् ।
तथैव हरिणा व्यात्पं विश्वमेतच्चराचरम्
जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम् ।
उभे ते निकटे विद्धि तन्नाशो हरिसेवया
ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः ।
संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत्
यन्नामोच्चांरणादेव महापातकनाशनम् ।
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः
अहो चित्रमहो चित्रमहो चित्रमिदं द्विज ।
हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते
भूयोभूयो ऽपि वक्ष्यामि सत्यमेतत्तपोधन ।
नीयमानो यमभटैरशक्तो धर्मसाधनैः
यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते ।
तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति
मातुर्गर्भाद्विनिः
मातुर्गर्भाद्विनिष्क्रान्तो यदा जन्तुस्तदैव हि ।
मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत्
अहो कष्टमहो कष्टमहोकष्टमिदं वपुः ।
विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम्
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
दम्भाचारं परित्यज्यं वासुदेवं समर्चयेत्
भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद ।
विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम्
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् ।
धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत्
काममूलमिदं जन्म कामः पापस्य कारणम् ।
यशः क्षयकरः कामस्तस्मात्तं परिवर्जयेत्
समस्तदुःखजालानां मात्सर्यं कारणं स्मृतम् ।
नरकाणां साधनं च तस्मात्तदपि संत्यजेत्
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत्
अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम् ।
विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः
अनाराध्य जगन्नाथं सर्वधातारमच्युतम् ।
संसारसागरे मग्नाः कथं पारं प्रयान्ति हि
अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्
नारायण जगन्नाथ वासुदेव जनार्द्दन ।
इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः
अद्यापि च मुनिश्रेष्ट ब्रह्माद्या अपि देवताः ।
यत्प्राभावं न जानन्ति तं याहि शरणं मुने
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं दुरात्मनाम् ।
हृत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद
शृणुष्व मुनिशार्दूल भूयोभूयो वदाम्यहम् ।
हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः
बन्धुमत्त्वं धनाढ्यत्वं पुत्रवत्त्वं च सत्तम ।
विष्णुभघक्तिमतां नॄणां भवेज्जन्मनि जन्मनि
पापमूलमयं देहः पापकर्मरतस्तथा ।
एतद्विदित्वा सततं पूजनीयो जनार्द्दनः
पुत्रमित्रकलत्राद्या बहवः स्युश्च संपदः ।
हरिपूजारतानां तु भवत्येन न संशयः
इहामुत्र सुखप्रेप्सुः पूजयेत्सततं हरिम् ।
इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत्
धिग्जन्म भक्तिहीनानां देवदेवे जनार्द्दने ।
सत्पात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः
न नमेद्विष्णवे यस्य शरीरं कर्मभेदिने ।
पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम
सत्पात्रदानरहितं यद्द्रव्यं येन रक्षितम् ।
चौर्येण रक्षितमिव विद्धि लोकेषु निश्चितम्
तडिल्लोलश्रिया मत्ताः क्षणंभयुरशालिनः ।
नाराधयन्ति विश्वेशं पशुपाशविमोचकम्
सृष्टिस्तु द्विविधा प्रोक्ता दैवासुरविभेदतः ।
हरि भक्ति युता दैवी तद्धीना ह्यासुरी महा
तस्माच्छृणष्व विप्रेन्द्र हरिभक्तिपरायणाः ।
श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा
असूयारहिता ये च विप्रत्राणपरायणाः ।
कामादिरहिता ये च तेषां तुष्यति केशवः
संमार्जनादिना ये तु विष्णुशुश्रूषणे रताः ।
सत्पात्रदाननिरताः प्रयान्ति परमं पदम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0