नारद पुराण · अध्याय 1.33
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भवाटवीनिरुपणं नाम द्वात्रिंशो ऽध्यायः
नारद उवाच
भगवन्सर्वमाख्यातं यत्पृष्टं विदुषा त्वया ।
संसारपाशबद्धानां दुःखानि सुबहूनि च
अस्य संसारपाशस्य च्छेदकः कतमः स्मृतः ।
येनोपायेन मोक्षः स्यात्तन्मे ब्रूहि तपोधन
प्राणिभिः कर्मजालानि क्रियन्ते प्रत्यहं भृशम् ।
भुज्यन्ते च मुनिश्रेष्ठ तेषां नाशः कथं भवेत्
कर्मणा देहमान्पोति देही कामेन बध्यते ।
कामाल्लोभाभिभूतः स्याल्लोभात्क्रोधपरायणाः
क्रोधाञ्च धर्मनाशः स्याद्धर्मनाशान्मतिभ्रमः ।
प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च
तस्माद्देहं पापमूलं पापकर्मरतं तथा ।
यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद
सनक उवाच
साधु साधु महाप्राज्ञ मतिस्ते विमलोर्जिता ।
यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि
यस्याज्ञया जगत्सर्वं ब्रह्म्ना सृजति सुव्रत ।
हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः
अहमादिविशेषान्ता जातायस्य प्रभावतगः ।
तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम्
यस्याभिन्नमिदं सर्वं यच्चेङ्गद्यञ्च नेङ्गति ।
तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते
अविकारमजं शुद्धं स्वप्रकाशं निरञ्जनम् ।
ज्ञानरुपं सदानन्दं प्राहुर्वैमोक्षसाधनम्
यस्यावताररुपाणि ब्रह्माद्या देवतागणाः ।
समर्चयन्ति तं विद्याच्छाश्वतस्थानदं हरिम्
जितप्राणा जिताहाराः सदा ध्यानपरायणाः ।
हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम्
निर्गुणो ऽपि गुणाधारो लोकानुग्रहरुपधृक् ।
आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम्
अध्यक्षः सर्वकार्याणां देहिनो हृदये स्थितः ।
अनूपमो ऽखिलाधारस्तां देवं शरणं व्रजेत्
सर्वं संगृह्य कल्पान्ते शेते यस्तु जले स्वयम् ।
तं प्राहुर्मोक्षदं विष्णुं मुनयस्तत्त्वदर्शिनः
वेदार्थविद्भिः कर्मज्ञैरिज्यते विविधैर्मखैः ।
स एव कर्मफलदो मोक्षदो ऽकामकर्मणाम्
हव्यकव्यादिदानेषु देवतापितृरूपधृक् ।
भुङ्क्ते य ईश्वरो ऽव्यक्तस्तं प्राहुर्मोक्षदं प्रभुम्
ध्यातः प्रणमितो वापि पूजितो वापि भक्तितः ।
ददाति शाश्वतं स्थानं तं दयालुं समर्चयेत्
आधारः सर्वभूतानांमेको यः पुरुषः परः ।
जरामरणनिर्मुक्तो मोक्षदः सो ऽव्ययो हरिः
संपूज्य यस्य पादाब्जं देहिनो ऽपि मुनीश्वर ।
अमृतत्वं भजन्त्याशु तं विदुः पुरुषोत्तमम्
आनन्दमजरं ब्रह्म परं ज्योतिः सनातनम् ।
परात्परतरं यञ्च तद्विष्णोः परमं पदम्
अद्वयं निगुणं नित्यमद्वितीयमनौपमम् ।
परिपूर्णं ज्ञानमयं विदुर्मोक्षप्रताधकम्
एवंभूतं परं वस्तु योगमार्गविधानतः ।
य उपास्ते सदा योगी स याति परमं पदम्
परिसर्वसंगपरित्यागी शमादिगुणसंयुतः ।
कामर्द्यैवर्जितोयोगी लभते परमं पदम्
नारद उवाच
कर्मणा केन योगस्य सिद्धिर्भवति योगिनाम् ।
तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर
सनक उवाच
ज्ञानलभ्यं परं मोक्षं प्राहुस्तत्त्वार्थचिन्तकाः ।
यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा
दानानि यज्ञा विविधास्तीर्थयात्रादयः कृताः ।
येन जन्मसहस्रेषु तस्य भक्तिर्भवेद्धरौ
अक्षयः परमो धर्मो भक्तिलेशेन जायते ।
श्रद्धया परया चैव सर्वं पापं प्रणश्यति
सर्वपापेषु नष्टेषु बुद्धिर्भवति निर्मला ।
सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः
ज्ञानं च मोक्षदं प्राहुस्तज्ज्ञानं योगिनां भवेत् ।
योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः
क्रियायोगं विना नॄणां ज्ञानयोगो न सिध्यति ।
क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत्
द्विजभूम्यग्निसूर्याम्बुधातुहृञ्चित्रसंज्ञिताः ।
प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः
कर्मणा मनसा वाचा परिपीडापराङ्मुखः ।
तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः
अहिंसा सत्यमक्रोधो ब्रह्मचर्यापरिग्रहौ ।
अनीर्ष्या च दया चैव योगयोरूभयोः समाः
चराचरात्मकं विश्वं विष्णुरेव सनातनः ।
इति निश्चित्य मनसा योगद्वितयमभ्यसेत्
आत्मवत्सर्वभूतानि ये मन्यन्ते मनीषिणः ।
ते जानन्ति परं भावं देवदेवस्य चक्रिणः
यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेत् ।
न तस्य तुष्यते विष्णुर्यतो धर्मपतिः स्मृतः
यदि कामादिदुष्टात्मा देव पूजापरो भवेत् ।
दंभाचारः स विज्ञेयः सर्वपातकिभिः समः
तपः पूजाध्यानपरोयस्त्वसूयारतो भवेत् ।
तत्तपः सा च पूजा च तद्ध्यानं हि निरर्थकम्
तस्मात्सर्वात्मकं विष्णुं शमादिगुणतत्परः ।
मुक्तयर्थमर्चयेत्सम्यक् क्रियायोगपरो नरः
कर्मणा मनसा वाचा सर्वलोकहिते रतः ।
समर्चयति देवेशं क्रियायोगः स उच्यते
नारायणं जगद्योनिं सर्वान्तयर्यामिणं हरिम् ।
स्तोत्राद्यैः स्तौति यो विष्णुं कर्मयोगी स उच्यते
उपवासादिभिश्चैव पुराणश्रवणादिभिः ।
पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृतः
एवं भक्तिमतां विष्णौ क्रियायोगरतात्मनाम् ।
सर्वपापानि नश्यन्ति पूर्वजन्मार्जितानि वै
पापक्षयाच्छुद्वमतिर्वाञ्छति ज्ञानमुत्तमम् ।
ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामि ते
चराचरात्मके लोके नित्यं चानित्यमेव च ।
सम्यग् विचारयेद्धीमान्सद्भिः शास्त्रार्थकोविदैः
अनित्यास्तु पदार्था वै नित्यमेको हरिः स्मृतः ।
अनित्यानि परित्यज्य नित्यमेव समाश्रयेत्
इहामुत्र च भोगेषु विरक्तश्च तथा भवेत् ।
अविरक्तो भवेद्यस्तु स संसारे प्रवर्तते
अनित्येषु पदार्थेषु यस्तु रागी भवेन्नरः ।
तस्य संसारविच्छित्तिः कदाचिन्नैव जायते
शमादिगुणसंपन्नो मुमुक्षुर्ज्ञानमभ्यसेत् ।
शमादिगुणहीनस्य ज्ञानं नैव च सिध्यति
रागद्वेषविहीनो यः शमादिगुणसंयुतः ।
हरिध्यानपरो नित्यं मुमुक्षुरभिधीयते
चतुर्भिः साधनैरेभिर्विशुद्धमतिरुच्यते ।
सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः
क्षराक्षरात्मकं विश्वं व्याप्य नारायणः स्थितः ।
इति जानाति यो विप्रतज्ज्ञानं योगजं विदुः
योगोपायमतो वक्ष्ये संसारविनिवर्त्तकम् ।
योगो ज्ञानं विशुद्धं स्यात्तज्ज्ञानं मोक्षदं विदुः
आत्मानं द्विविधं प्राहुः परापरविभेदतः ।
द्वे ब्रह्मणी वेदितव्ये इति चाथर्वर्णी श्रुतिः
परस्तु निर्गुणः प्रोक्तो ह्यहॄङ्कारयुतो ऽपरः ।
तयोरभेदविज्ञानं योग इत्यभिधीयते
पञ्चभूतात्मके देहे यः साक्षी हृदये स्थितः ।
अपरः प्रोच्यते सद्भिः परमात्मा परः स्मृतः
शरीरं क्षेव्रमित्याहुस्तत्स्थः क्षेत्रज्ञ उच्यते ।
अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृतः
यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः ।
भवेत्तदा मुनिश्रेष्ठ पाशच्छेदो ऽपरात्मनः
एकः शुद्धो ऽक्षरो नित्यः परमात्मा जगन्मयः ।
नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते
एकमेवाद्वितीयं यत्परं ब्रह्म सनातनम् ।
गीयमानं च वेदान्तैस्तस्मान्नास्ति परं द्विज
न तस्य कर्म कार्यं वा रुपं वर्णमथापि वा ।
कर्त्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः
निदानं सर्वहेतूनां तेजो यत्तेजसां परम् ।
किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे
शब्दब्रह्ममयं यत्तन्महावाक्यादिकं द्विज ।
तद्विचारोद्भवं ज्ञानं परं मोक्षस्य साधनम्
सम्यग्ज्ञानविहीनानां दृश्यते विविधं जगतग् ।
परमज्ञानिनामेतत्परब्रह्मात्मकं द्विज
एक एव परानन्दो निर्गुणः परतः परः ।
भाति विज्ञानभेदेन बहुरुपधरो ऽव्ययः
मायिनो मायया भेदं पश्यन्ति परमात्मनि ।
तस्मान्मायां त्यजेद्योगान्मुमुक्षुर्द्विजसत्तम्
नासद्रूपान सद्रूपा माया नैवोभयात्मिका ।
अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदार्यिनी
मायैव ज्ञानशब्देन बुद्ध्यते मुनिसत्तम ।
तस्मादज्ञानविच्छेदो भवेद्रौजितमायिनाम्
सनातनं परं ब्रह्म ज्ञानशब्देन कथ्यते ।
ज्ञानिनां परमात्मा वै हृदि भाति निरन्तरम्
अज्ञानं नाशयेद्योगी योगेन मुनिसत्तम ।
अष्टाङ्गैः सिद्ध्यते योगस्तानि वक्ष्यामि तत्त्वतः
यमाश्च नियमाश्चैव आसनानि च सत्तम ।
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च
समाधिश्च मुनिश्रेष्ठ योगाङ्गानि यथाक्रमम् ।
एषां संक्षेपतो वक्ष्ये लक्षणानि मुनीश्वर
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
अक्रोधश्चानसूया च प्रोक्ताः संक्षेपतो यमाः
सर्वेषामेव भूतानामक्लेशजननं हि यत् ।
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी
यथार्थकथनं यञ्च धर्माधर्मविवेकतः ।
सत्यं प्राहुर्मुनिश्रेष्ठ अस्तेयं शृणु साम्प्रतम्
चौर्येण वा बलेनापि परस्वहरणं हि यत् ।
स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम्
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रकीर्त्तितम् ।
ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी
सर्वसंगपरित्यागी मैथुनेयस्तु वर्त्तते ।
स चण्डालसमो ज्ञेयः सर्ववर्णबहिष्कृतः
यस्तु योगरतो विप्र विषयेषु स्पृहान्वितः ।
तत्संभाषणमात्रेण ब्रह्महत्या भवेन्नृणाम्
सर्वसंगपरित्यागी पुनः संगी भवेद्यदि ।
तत्संगसंगिनां संगान्महापातकदोषभाक्
अनादानं हि द्रव्याणामापद्यपि मुनीश्वर ।
अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः
आत्मनस्तु समुत्कर्षादतिनिष्ठुरभाषणम् ।
क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः
धनाद्यैरधिकं दृष्ट्वा भृशं मनसि तापनम् ।
असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता
एवं संक्षेपतः प्रोक्ता यमा विबुधसत्तम ।
नियमानपि वक्ष्यामितुभ्यं ताञ्छृणु नारद
तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् ।
संध्योपासनमुख्याश्च नियमाः परिकीर्त्तिताः
चान्द्रायणादिभिर्यत्र शरीरस्य विशोषणम् ।
तपो निगदितं सद्भिर्योगसाधनमुत्तमम्
प्रणवस्योपनिषदां द्वादशार्णस्य च द्विज ।
अष्टाक्षरस्य मन्त्रस्य महावाक्यचयस्य च
जपः स्वाध्याय उदितो योगसाधनमुत्तमम् ।
स्वाध्यायं यस्त्यजेन्मूढस्तस्य योगो न सिध्यति
योगं विनापि स्वाध्यायात्पापनाशो भवेन्नृणाम् ।
स्वाध्यायैस्तोष्यमाणाश्च प्रसीदन्ति हि देवताः
जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः ।
त्रिविधे ऽपि च विप्रेन्द्र पूर्वात्पूर्वात्परो वरः
मन्त्रस्योच्चारणं सम्यक्स्फुटाक्षरपदं यथा ।
जपस्तु वाचिकः प्रोक्तः सर्वयज्ञफलप्रदः
मन्त्रस्योच्चारणे किञ्चित्पदात्पदविवेचनम् ।
स तूपांशुर्जपः प्रोक्तः पूर्वस्माद्द्विगुणो ऽधिकः
विधाय ह्यक्षरश्रेण्यां तत्तदर्थविचारणम् ।
स जपोमानसः प्रोक्तो योगसिद्धिप्रदायकः
जपेन देवता नित्यं स्तुवतः संप्रसीदति ।
तस्मात्स्वाध्यायसंपन्नो लभेत्सर्वान्मनोरथान्
यदृच्छालाभसंतुष्टिः संतोष इति गीयते ।
संतोषहीनः पुरुषो न लभेच्छर्म कुत्रचित्
न जातुकामः कामानामुपभोगेन शाम्यति ।
इतो ऽधिकं कदा लप्स्य इति कामस्तु वर्द्धते
तस्मात्कामं परित्यज्य देहसंशोषकारणम् ।
यदृच्छालाभसंतुष्टो भवेद्धर्मपरायणः
बाह्याभ्यन्तरभेदेन शौचं तु द्विविधं स्मृतम् ।
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम्
अन्तःशुद्धिविहीनैस्तु ये ऽध्वरा विविधाः कृताः ।
न फलन्ति मुनीश्रेष्ठ भस्मनि न्यस्तहव्यवत्
भावशुद्धिविहीनानां समस्तं कर्मनिष्फलम् ।
तस्माद्रागादिकं सर्वं परित्यज्य सुखी भवेत्
मृदाभारसहस्रैस्तु कुम्भकोटिजलैस्तथा ।
कृतशौचो ऽपि दुष्टात्मा चण्डालसदृशः स्मृतः
अन्तःशुद्धिविहीनस्तु देवपूजापरो यदि ।
तमेव दैवतं हॄन्ति नरकं च प्रपद्यते
अन्तःशुद्धिविहीनश्च बहिःशुद्धिं करोति यः ।
अलङ्कृतः सुराभाण्ड इव शान्तिं न गच्छति
मनःशुद्धिविहीना ये तीर्थयात्रां प्रकुर्वते ।
न तान्पुंनति तीर्थानि सुराभाण्डमिवापगा
वाचा धर्मान्प्रवलदति मनसा पापमिच्छति ।
जानीयात्तं मुनिश्रेष्ठ महापातकिनां वरम्
विशुद्धमानसा ये तु धर्ममात्रमनुत्तमम् ।
कुर्वन्ति तत्फलं विद्यादक्षयं सुखदायकम्
कर्मणा मनसा वाचा स्तुतिश्रवण पूजनैः ।
हरिभक्तिर्दृढा यस्य हरिपूजेति गीयते
यमाश्च नियमाश्चैव संक्षेपेण प्रबोधिताः ।
एभिर्विशुद्धमनसां मोक्षं हस्तगतं विदुः
यमैश्च नियमैश्चैव स्थिरबुद्धिर्जितेन्द्रियः ।
अभ्यसेदासनंसम्यग्योगसाधनमुत्तमम्
पद्मकं स्वस्तिकं पीठं सैंहं कौक्कुटकैञ्जरे ।
कौर्मंवज्रासनं चैव वाराहं मृगचैलिकम्
क्रौञ्चं च नालिकं चैव सर्वतोभद्रमेव च ।
वार्षभं नागमात्स्ये च वैयान्घं चार्द्धचन्द्रकम्
दण्डवातासनं शैलं स्वभ्रं मौद्गरमेव च ।
माकरं त्रैपथं काष्ठं स्थाणुं वैकर्णिकं तथा
भौमं वीरासनं चैव योगसाधनकारणम् ।
त्रिंशत्संख्यान्यासनानि मुनीन्द्रैः कथितानि वै
एषामेकतमं बद्धा गुरुभक्तिपरायणः ।
उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः
प्राङ्मुखोदङ्मुखो वापि तथा प्रत्यङ्मुखो ऽपि वा ।
अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते
प्राणो वायुः शरीरस्थ आयामस्तस्य निग्रहः ।
प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः
अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः ।
जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः
रेचकः पूरकश्चैव कुंभकः शून्यकस्तथा ।
एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः
जन्तूनां दक्षिणा नाडी पिङ्गला परिकीर्तिता ।
सूर्यदैवतका चैव पितृयोनिरिति श्रुता
देवयोनिरिति ख्याता इडा नाडी त्वदक्षिणा ।
तत्राधिदैवत चन्द्रं जानीहि मुनिसत्तमं
एतयोरुभयोर्मध्ये सुषुम्णा नाडिका स्मृता ।
अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता
वामेन रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।
पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः
स्वदेहपूरितं वायं निगृह्य न विमृञ्चति ।
संपूर्णकुंभवत्तिष्टेत्कुम्भकः स हि विश्रुतः
न गृह्णाति न त्यजति वायुमन्तर्बहिः स्थितम् ।
विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम्
शनैःशनैर्विजेतव्यः प्राणो मत्तगजेन्द्रवत् ।
अन्यथा खलु जायन्ते महारोगा भयङ्कराः
क्रमेण योजयेद्वायुं योगी विगतकल्मषः ।
स सर्वपापनिर्मुक्तो ब्रह्मणः पदमान्पुयात्
विषयेषु प्रसक्तानि चेन्द्रियाणि मुनीश्वरः ।
समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः
जितेन्द्रिया महात्मानो ध्यानशून्या अपि द्विज ।
प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम्
अनिर्जितेन्द्रियग्रामं यस्तु ध्यानपरो भवेत् ।
मूढात्मानं च तं विद्याद्ध्यानं चास्य न सिध्यति
यद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि ।
प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा
योगाज्जितेन्द्रियग्रामस्तानि हृत्वा दृढं हृदि ।
आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम्
सर्वविश्वात्मकं विष्णुं सर्वसोकैककारणम् ।
विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम्
दीर्घबाहुमुदाराङ्गं सर्वालङ्कारभृषितम् ।
पीताम्बरधरं देवं हेमयज्ञोपवीतिनम्
बिभ्रतं तुलसीमालां कौस्तुभेन विराजितम् ।
श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम्
अष्टारे हृत्सरोजे तु द्वादशाङ्गुलविस्तृते ।
ध्यायेदात्मानमव्यक्तं परात्परतरं विभुमट्
ध्यानं सद्भिनिर्गदितं प्रत्ययस्यैकतानता ।
ध्यानं कृत्वा मुहुर्त्तं वा परं मोक्षं लभेन्नरः
ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षं च विन्दति ।
ध्यानात्प्रसीदति हरिद्धर्यानात्सर्वार्थसाधनम्
यद्यद्रूपं महाविष्णोस्तत्तद्ध्यायेत्समाहितम् ।
तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै
अचञ्चलं मनः कुर्याद्ध्येये वस्तुनि सत्तम ।
ध्यानं ध्येयं ध्यातृभावं यथा नश्यति निर्भरम्
ततो ऽमृतत्वं भवति ज्ञानामृतनिषेवणात् ।
भवेन्निरन्तरं ध्यानादभेदप्रतिपादनम्
सुषुत्पिवत्परानन्दयुक्तश्चोपरतेन्द्रियः ।
निर्वातदीपवत्संस्थः समाधिरभिधीयते
योगी समाध्यवस्थायां न शृणोति न पश्यति ।
न जिघ्रति न स्पृशति न किञ्चद्वक्ति सत्तम
आत्मा तु निर्मलः शुद्धः सञ्चिदानन्दविग्रहः ।
सर्वोपाधिविनिर्मुक्तो योगिनां भात्यचञ्चलः
निर्गुणो ऽपि परो देवो ह्यज्ञानाद्गुणवानिव ।
विभात्यज्ञाननाशे तु यथापूर्वं व्यवस्थितम्
परं ज्योतिरमेयात्मा मायावानिव मायिनाम् ।
तन्नाशे निर्मलं ब्रह्म प्रकाशयति पण्डितं
एकमेवाद्वितीयं च परं ज्योतिर्निरञ्जनम् ।
सर्वेषामेव भूतानामन्तर्यामितया स्थितम्
अणोरणीयान्महतो महीयान्सनातनात्माखिलविश्वहेतुः ।
पश्यन्ति यज्ज्ञानविदां वरिष्टाः परात्परस्मात्परमं पवित्रम्
अकारादिक्षकारान्तवर्णभेदव्यवस्थितः ।
पुराणपुरुषो ऽनादिः शब्दब्रह्मेति गीयते
विशुद्दमक्षरं नित्यं पूर्णमाकाशमध्यगम् ।
आनन्दं निर्मलशान्तं परं ब्रह्मेति गीयते
योगिनो हृदि पश्यन्ति परात्मानं सनातनम् ।
अविकारमजं शुद्धं परं ब्रह्मेति गीयते
ध्यानमन्यत्प्रवक्ष्यामि शृणुष्व मुनि सत्तम ।
संसारतापतत्पानां सुधावृष्टिसमं नृणाम्
नारायणं परानन्दं स्मरेत्प्रणवसंस्थितम् ।
नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम्
अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् ।
मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम्
मात्रास्तिस्त्रः समाख्याता ब्रह्मविष्णु शिवाधिपाः ।
तेषां समुच्चयं विप्र परब्रह्मप्रबोधकम्
वाच्यं तु परमं ब्रह्म वाचकः प्रणवः स्मृतः ।
वाच्यवाचकसंबन्धो ह्युपचारात्तयोर्द्विजा
जपन्तः प्रणवं नित्यं मुच्यन्ते सर्वपातकैः ।
तदभ्यासेन संयुक्ताः परं मोक्षं लभन्ति च
जपंश्च प्रणवं मन्त्रं ब्रह्मविष्णुशिवात्मकम् ।
कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम्
शालग्रामशिलारुपं प्रतिमारुपमेव वा ।
यद्यत्पापहरं वस्तु तत्तद्वा चिन्तयेद्धृदि
यदेतद्दैष्णवं ज्ञानं कथितं ते मुनीश्वर ।
एतद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम्
यस्त्वेतच्छृआणुयाद्वापि पठेद्वापि समाहितः ।
स सर्वपापनिर्मुक्तो हरिसालोक्यमान्पुयात्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0